Sri Param Guru Prabhu Vara Ashtakam In Sanskrit

॥ Sri Param Guru Prabhu Vara Sanskrit Lyrics ॥

॥ श्रीपरमगुरुप्रभुवराष्टकम् ॥
प्रपन्नजननीवृति ज्वलति संसृतिर्ज्वालया
यदीयनयनोदितातुलकृपातिवृष्टिर्द्रुतम् ।
विधूय दवथुं करोत्यमलभक्तिवाप्यौचितीं
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ १ ॥

यदास्यकमलोदिता व्रजभुवो महिम्नां ततिः
श्रुता बत विसर्जयेत्पतिकलत्रपुत्रालयान् ।
कलिन्दतनयातटी वनकुटीरवासं नयेत्
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ २ ॥

व्रजाम्बुजदृशां कथं भवति भावभूमा कथं
भवेदनुगतिः कथं किमिह साधनं कोऽधिकृत् ।
इति स्फुटमवैति को यदुपदेशभाग्यं विना
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ३ ॥

तपस्वियतिकर्मिणां सदसि तार्किकानां तथा
प्रतिस्वमतवैदुषीप्रकटनोढगर्वश्रियाम् ।
विराजति रविर्यथा तमसि यः स्वभक्त्योजसा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ४ ॥

किमद्य परिधास्यते किमथ भोज्यते राधया
समं मदनमोहनो मदनकोटिनिमज्जितः ।
इतीष्टवरिवस्यया नयति योऽष्टयामान् सदा
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ५ ॥

मृदङ्गकरतालिकामधुरकीर्तने नर्तयन्
जनान् सुकृतिनो नटन् स्वयमपि प्रमोदाम्बुधौ ।
निमज्जति दृगम्बुभिःपुलकसङ्कुलःस्नाति यः
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ६ ॥

समं भगवतो जनैः प्रवरभक्तिशास्त्रोदितं
रसं सुरसयन्मुहुः परिजनांश्च यः स्वादयन् ।
स्वशिष्यशतवेष्टितो जयति चक्रवर्त्याख्यया
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ७ ॥

See Also  Sri Shrigranthakartuh Prarthana In Telugu

स्थितिः सुरसरित्तटे मदनमोहनो जीवनं
स्पृहा रसिकसङ्गमे चतुरिमा जनोद्धारणे ।
घृणा विषयिषु क्षमा झटिति यस्य चानुव्रजे
स कृष्णचरणः प्रभुः प्रदिशतु स्वपादामृतम् ॥ ८ ॥

इदं प्रभुवराष्टकं पठति यस्तदीयो जन-
स्तदङ्घ्रिकमलेष्टधीः स खलु रङ्गवत्प्रेमभाक् ।
विलासभृतमञ्जुल्याल्यतिकृपैकपात्रीभवन्
निकुञ्जनिलयाधिपावचिरमेव तौ सेवते ॥ ९ ॥

इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं
श्रीश्रीपरमगुरुप्रभुवराष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Param Guru Prabhu Vara Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil