Sri Prapanchamata Pitru Ashtakam In Sanskrit

॥ Sri Prapanchamata Pitru Ashtakam Sanskrit Lyrics ॥

॥ श्रीप्रपञ्चमातापित्रष्टकम् ॥
(श्रीशृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)
प्रकाशितजगज्जालौ प्रतुष्यन्मुनिबालकौ
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ १ ॥

प्रणाममात्रसन्तुष्टौ प्रयतैरुपसेवितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ २ ॥

प्रणुन्नपापकान्तारौ प्रसूनस्रग्विभूषितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ३ ॥

प्रपन्नपालनव्यग्रौ प्रतापजितभास्करौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ४ ॥

प्रसादलेशतः स्याद्धि प्रमतिर्जडराड्ययोः ।
प्राग्ञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ५ ॥

प्रह्लादमाप्नुयुर्नित्यं प्रणता यत्पदाब्जयोः ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ६ ॥

प्रमदाभिः सुरेशानां प्रकाममुपसेवितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ७ ॥

प्रशान्तचित्तचापल्यैः प्रत्यहं परिचिन्तितौ ।
प्रपञ्चमातापितरौ प्राञ्चौ जायापती स्तुमः ॥ ८ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीप्रपञ्चमातापित्रष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Prapanchamata Pitru Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Radha Varashtakam In Malayalam