Sri Radha Ashtakam 4 In Sanskrit

॥ Sri Radhashtakam 4 Sanskrit Lyrics ॥

श्रीराधाष्टकम् ४

श्रीश्रीवृन्दावनेश्वर्यै नमः ।
दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी
विलसितखुरलीभिः खञ्जरीटस्य खेलाम् ।
हृदयमधुपमल्लीं वल्लवाधीशसूनो-
रखिलगुणगभीरां राधिकामर्चयामि ॥ १ ॥

पितुरिह वृषभानोरन्ववायप्रशस्तिं
जगति किल समस्ते सुष्ठु विस्तारयन्तीम् ।
व्रजपतिकुमारं खेलयन्तीं सखीभिः
सुरभिणि निजकुण्डे राधिकामर्चयामि ॥ २ ॥

शरदुपचितराकाकौमुदीनाथकीर्ति
प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् ।
नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां
कलितरुचितरङ्गां राधिकामर्चयामि ॥ ३ ॥

विविधकुसुमवृन्दोत्फुल्लधम्मिल्लघाटी
विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् ।
मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग
स्फुरदमलकपोलां राधिकामर्चयामि ॥ ४ ॥

अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां
अखिलविधविशाखासख्यविख्यातशीलाम् ।
स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं
धृतमधुरविनोदां राधिकामर्चयामि ॥ ५ ॥

अतुलमहसि वृन्दारण्यराज्येऽभिषिक्तां
निखिलसमयभर्तुः कार्तिकस्याधिदेवीम् ।
अपरिमितमुकुन्दप्रेयसीवृन्दमुख्यां
जगदघहरकीर्तिं राधिकामर्चयामि ॥ ६ ॥

हरिपदनखकोटीपृष्ठपर्यन्तसीमा
तटमपि कलयन्तीं प्राणकोटेरभीष्टाम् ।
प्रमुदितमदिराक्षीवृन्दवैदग्ध्यदीक्षा
गुरुमतिगुरुकीर्तिं राधिकामर्चयामि ॥ ७ ॥

अमलकनकपट्टोद्घृष्टकाश्मीरगौरीं
मधुरिमलहरीभिः सम्परीतां किशोरीम् ।
हरिभुजपरिरब्धां लब्धरोमाञ्चपालिं
स्फुरदरुणदुकूलां राधिकामर्चयामि ॥ ८ ॥

तदमलमधुरिम्णां काममाधाररूपं
परिपठति वरिष्ठं सुष्ठु राधाष्टकं यः ।
अहिमकिरणपुत्रीकूलकल्याणचन्द्रः
स्फुटमखिलमभीष्टं तस्य तुष्टस्तनोति ॥ ९ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीराधाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Radha Mantras » Sri Radha Ashtakam 4 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Sharada Varnamala Stava In Gujarati