Sri Rama Ashtakam 5 In Sanskrit

॥ Sri Ramashtakam 5 Sanskrit Lyrics ॥

॥ रामाष्टकम् ५ ॥

राजत्किरीटमणिदीधितिदीपितांशं
उद्यद्बृहस्पतिकविप्रतिमे वहन्तम् ।
द्वे कुण्डलेऽङ्करहितेन्दुसमानवक्त्रं
रामं जगत्त्रयगुरुं सततं भजामि ॥ १ ॥

उद्यद्विभाकरमरीचिविबोधिताब्ज-
नेत्रं सुबिम्बदशनच्छदचारुनासम् ।
शुभ्रांशुरश्मिपरिनिर्जितचारुहासं
रामं जगत्त्रयगुरुं सततं भजामि ॥ २ ॥

तं कम्बुकण्ठमजमम्बुजतुल्यरूपं
मुक्तावलीकनकहारधृतं विभान्तम् ।
विद्युद्वलाकगणसंयुतमम्बुदं वा
रामं जगत्त्रयगुरुं सततं भजामि ॥ ३ ॥

उत्तानहस्ततलसंस्थसहस्रपत्रं
पञ्चच्छदाधिकशतं प्रवराङ्गुलीभिः ।
कुर्वत्यशीतकनकद्युति यस्य सीता
पार्श्वेऽस्ति तं रघुवरं सततं भजामि ॥ ४ ॥

अग्रे धनुर्धरवरः कनकोज्ज्वलाङ्गो
ज्येष्ठानुसेवनरतो वरभूषणाढ्यः ।
शेषाख्यधामवरलक्ष्मणनाम यस्य
रामं जगत्त्रयगुरुं सततं भजामि ॥ ५ ॥

यो राघवेन्द्रकुलसिन्धुसुधांशुरूपो
मारीचराक्षससुबाहुमुखान् निहत्य ।
यज्ञं ररक्ष कुशिकान्वयपुण्यराशिं
रामं जगत्त्रयगुरुं सततं भजामि ॥ ६ ॥

हत्वा खरत्रिशिरसौ सगणौ कबन्धं
श्रीदण्डकाननमदूषणमेव कृत्वा ।
सुग्रीवमैत्रमकरोद्विनिहत्य शत्रुं
तं राघवं दशमुखान्तकरं भजामि ॥ ७ ॥

भङ्क्त्वा पिनाकमकरोज्जनकात्मजाया
वैवाहिकोत्सवविधिं पथि भार्गवेन्द्रम् ।
जित्वा पितुर्मुदमुवाह ककुत्स्थवर्यं
रामं जगत्त्रयगुरुं सततं भजामि ॥ ८ ॥

इति मुरारी गुप्ताविरचितं रामाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Stotram » Sri Rama Ashtakam 5 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Uma Ashtottara Satanama Stotram In Sanskrit