॥ Sri Rama Karnamrutham Sanskrit Lyrics ॥
॥ श्री राम कर्णामृतम् ॥
मङ्गलश्लोकाः ।
मङ्गलं भगवान्विष्णुर्मङ्गलं मधुसूदनः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलं गरुडध्वजः ॥ १ ॥
मङ्गलं कोसलेन्द्राय महनीयगुणाब्धये ।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥ २ ॥
वेदवेदान्तवेद्याय मेघश्यामलमूर्तये ।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥ ३ ॥
विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः ।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥ ४ ॥
पितृभक्ताय सततं भ्रातृभिस्सह सीतया ।
नन्दिताखिललोकाय रामचन्द्राय मङ्गलम् ॥ ५ ॥
त्यक्तसाकेतवासाय चित्रकूटविहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मङ्गलम् ॥ ६ ॥
सौमित्रिणा च जानक्या चापबाणासिधारिणा ।
संसेव्याय सदा भक्त्या सानुजायास्तु मङ्गलम् ॥ ७ ॥
दण्डकारण्यवासाय खण्डितामरशत्रवे ।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥ ८ ॥
सादरं शबरीदत्तफलमूलाभिलाषिणे ।
सौलभ्यपरिपूर्णाय सत्त्वोद्युक्ताय मङ्गलम् ॥ ९ ॥
[**सत्त्वोद्रिक्ताय**]
हनूमत्समवेताय हरीशाभीष्टदायिने ।
वालिप्रमथनायास्तु महाधीराय मङ्गलम् ॥ १० ॥
श्रीमते रघुवीराय सेतुलङ्घितसिन्धवे ।
जितराक्षसराजाय रणधीराय मङ्गलम् ॥ ११ ॥
आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥ १२ ॥
विभीषणकृते प्रीत्या विश्वाभीष्टप्रदायिने ।
जानकीप्राणनाथाय सदा रामाय मङ्गलम् ॥ १३ ॥
—-
श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायकं
श्यामाङ्गं शशिकोटिपूर्णवदनं चञ्चत्कलाकौस्तुभम् ।
सौम्यं सत्यगुणोत्तमं सुसरयूतीरे वसन्तं प्रभुं
त्रातारं सकलार्थसिद्धिसहितं वन्दे रघूणां पतिम् ॥ १४ ॥
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुवरान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ १५ ॥
श्रीरामचन्द्र करुणाकर राघवेन्द्र
राजेन्द्रचन्द्र रघुवम्शसमुद्रचन्द्र ।
सुग्रीवनेत्रयुगलोत्पल-पूर्णचन्द्र
सीतामनःकुमुदचन्द्र नमो नमस्ते ॥ १६ ॥
सीतामनोमानसराजहंस
संसारसन्तापहर क्षमावन् ।
श्रीराम दैत्यान्तक शान्तरूप
श्रीतारकब्रह्म नमो नमस्ते ॥ १७ ॥
विष्णो राघव वासुदेव नृहरे देवौघचूडामणे ।
संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥ १८ ॥
सुग्रीवादिसमस्तवानरवरैस्संसेव्यमानं सदा ।
विश्वामित्रपराशरादिमुनिभिस्संस्तूयमानं भजे ॥ १९ ॥
रामं चन्दनशीतलं क्षितिसुतामोहाकरं श्रीकरं
वैदेहीनयनारविन्दमिहिरं सम्पूर्णचन्द्राननम् ।
राजानं करुणासमेतनयनं सीतामनोनन्दनं
सीतादर्पणचारुगण्डललितं वन्दे सदा राघवम् ॥ २० ॥
जानाति राम तव नामरुचिं महेशो
जानाति गौतमसती चरणप्रभावम् ।
जानाति दोर्बलपराक्रममीशचापो
जानात्यमोघपटुबाणगतिं पयोधिः ॥ २१ ॥
माता रामो मत्पिता रामचन्द्रो
भ्राता रामो मत्सखा राघवेशः ।
सर्वस्वं मे रामचन्द्रो दायालु-
र्नान्यं दैवं नैव जाने न जाने ॥ २२ ॥
विमलकमलनेत्रं विस्फुरन्नीलगात्रं
तपनकुलपवित्रं दानवध्वन्तमित्रम् ।
भुवनशुभचरित्रं भूमिपुत्रीकलत्रं
दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥ २३ ॥
मार्गे मार्गे शाखिनां रत्नवेदी
वेद्यां वेद्यां किन्नरीबृन्दगीतम् ।
गीते गीते मञ्जुलालापगोष्ठी
गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचन्द्र ॥ २४ ॥
वृक्षे वृक्षे वीक्षिताः पक्षिसङ्घाः
सङ्घे सङ्घे मञ्जुलामोदवाक्यम् ।
वाक्ये वाक्ये मञ्जुलालापगोष्ठी
गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचन्द्र ॥ २५ ॥
दुरिततिमिरचन्द्रो दुष्टकञ्जातचन्द्रः
सुरकुवलयचन्द्रस्सूर्यवम्शाब्धिचन्द्रः ।
स्वजननिवहचन्द्रश्शत्रुराजीवचन्द्रः
प्रणतकुमुदचन्द्रः पातु मां रामचन्द्रः ॥ २६ ॥
कल्याणदं कौशिकयज्ञपालं
कलानिधिं काञ्चनशैलधीरम् ।
कञ्जातनेत्रं करुणासमुद्रं
काकुत्स्थरामं कलयामि चित्ते ॥ २७ ॥
राजीवायतलोचनं रघुवरं नीलोत्पलश्यामलं
मन्दाराञ्चितमण्डपे सुललिते सौवर्णके पुष्पके ।
आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं
सीतालक्ष्मणलोकपालसहितं वन्दे मुनीन्द्रास्पदम् ॥ २८ ॥
ध्याये रामं सुधाम्शुं नतसकलभवारण्यतापप्रहारं ।
श्यामं शान्तं सुरेन्द्रं सुरमुनिविनुतं कोटिसूर्यप्रकाशम् ।
सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थं ।
सायाह्ने रामचन्द्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥ २९ ॥
इन्द्रनीलमणिसन्निभदेहं
वन्दनीयमसकृन्मुनिबृन्दैः ।
लम्बमानतुलसीवनमालं
चिन्तयामि सततं रघुवीरम् ॥ ३० ॥
सम्पूर्णचन्द्रवदनं सरसीरुहाक्षं
माणिक्यकुण्डलधरं मुकुटाभिरामम् ।
चाम्पेयगौरवसनं शरचापहस्तं
श्रीरामचन्द्रमनिशं मनसा स्मरामि ॥ ३१ ॥
मातुः पार्श्वे चरन्तं मणिमयशयने मञ्जुभूषाञ्चिताङ्गं ।
मन्दं मन्दं पिबन्तं मुकुलितनयनं स्तन्यमन्यस्तनाग्रम् ।
अङ्गुल्याग्रैः स्पृशन्तं सुखपरवशया सस्मितालिङ्गिताङ्गं ।
गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ ३२ ॥
रामाभिरामं नयनाभिरामं
वाचाभिरामं वदनाभिरामम् ।
सर्वाभिरामं च सदाभिरामं
वन्दे सदा दाशरथिं च रामम् ॥ ३३ ॥
राशब्दोच्चारमात्रेण मुखान्निर्याति पातकाः ।
पुनः प्रवेशभीत्या च मकारस्तु कवाटवत् ॥ ३४ ॥
अनर्घमाणिक्यविराजमान-
श्रीपादुकालङ्कृतशोभनाभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां
नमो नमो रामपदाम्बुजाभ्याम् ॥ ३५ ॥
चलत्कनककुण्डलोल्लसितदिव्यगण्डस्थलं
चराचरजगन्मयं चरणपद्मगङ्गाश्रयम् ।
चतुर्विधफलप्रदं चरमपीठमध्यस्थितं
चिदम्शमखिलास्पदं दशरथात्मजं चिन्तये ॥ ३६ ॥
सनन्दनमुनिप्रियं सकलवर्णवेदात्मकं
समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् ।
सहस्रनयनाब्जजाद्यमरबृन्दसंसेवितं
समष्टिपुरवल्लभं दशरथात्मजं चिन्तये ॥ ३७ ॥
जाग्रत्स्वप्नसुषुप्ति-कालविलसत्तत्त्वात्मचिन्मात्रकं
चैतन्यात्मकमाधिपापरहितं भूम्यादितन्मात्रकम् ।
शाम्भव्यादिसमस्तयोगकुलकं साङ्ख्यादितत्त्वात्परं
शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ॥ ३८ ॥
इक्ष्वाकुवम्शार्णवजातरत्नं
सीताङ्गनायौवनभाग्यरत्नम् ।
वैकुण्ठरत्नं मम भाग्यरत्नं
श्रीरामरत्नं शिरसा नमामि ॥ ३९ ॥
इक्ष्वाकुनन्दनं सुग्रीवपूजितं
त्रैलोक्यरक्षकं सत्यसन्धं सदा ।
राघवं रघुपतिं राजीवलोचनं
रामचन्द्रं भजे राघवेशं भजे ॥ ४० ॥
भक्तप्रियं भक्तसमाधिगम्यं
चिन्ताहरं चिन्तितकामधेनुम् ।
सूर्येन्दुकोटिद्युतिभास्वरं तं
रामं भजे राघवरामचन्द्रम् ॥ ४१ ॥
श्रीरामं जनकक्षितीश्वरसुतावक्त्राम्बुजाहारिणं
श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षस्स्थलम् ।
श्रीकण्ठाद्यमरौघरत्नमकुटालङ्कारपादाम्बुजं
श्रीवत्सोज्ज्वलमिन्द्रनीलसदृशं श्रीरामचन्द्रं भजे ॥ ४२ ॥
रामचन्द्र चरिताकथामृतं
लक्ष्मणाग्रजगुणानुकीर्तनम् ।
राघवेश तव पादसेवनं
सम्भवन्तु मम जन्मजन्मनि ॥ ४३ ॥
अज्ञानसम्भव-भवाम्बुधिबाडबाग्नि-
रव्यक्ततत्त्वनिकरप्रणवाधिरूढः ।
सीतासमेतमनुजेन हृदन्तराले
प्राणप्रयाणसमये मम सन्निधत्ते ॥ ४४ ॥
रामो मत्कुलदैवतं सकरुणं रामं भजे सादरं
रामेणाखिलघोरपापनिहती रामाय तस्मै नमः ।
रामान्नास्ति जगत्रयैकसुलभो रामस्य दासोऽस्म्यहं
रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ॥ ४५ ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्टपे ।
मध्येपुष्पकमासने मणिमये वीरासने संस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं ।
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ४६ ॥
वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुत-
श्शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेष्वपि ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ ४७ ॥
केयूराङ्गदकङ्कणैर्मणिगणैर्वैरोचमानं सदा
राकापर्वणिचन्द्रकोटिसदृशं छत्रेण वैराजितम् ।
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ४८ ॥
साकेते शरदिन्दुकुन्दधवले सौघे महामण्टपे ।
पर्यस्तागरुधूपधूमपटले कर्पूरदीपोज्ज्वले ।
सुग्रीवाङ्गदवायुपुत्रसहितं सौमित्रिणा सेवितं
लीलामानुषविग्रहं रघुपतिं रामं भजे श्यामलम् ॥ ४९ ॥
शान्तं शारदचन्द्रकोटिसदृशं चन्द्राभिरामाननं
चन्द्रार्काग्निविकासिकुण्डलधरं चन्द्रावतंसस्तुतम् ।
वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ ५० ॥
रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेः पुत्रान्तकं शार्ङ्गिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सीतासेवितपादपद्मयुगलं रामं भजे श्यामलम् ॥ ५१ ॥
कन्दर्पायुतकोटिकोटितुलितं कालाम्बुदश्यामलं
कम्बुग्रीवमुदारकौस्तुभधरं कर्णावतंसोत्पलम् ।
कस्तूरीतिलकोज्ज्वलं स्मितमुखं चिन्मुद्रयालङ्कृतं
सीतालक्ष्मणवायुपुत्रसहितं सिंहासनस्थं भजे ॥ ५२ ॥
साकेते नवरत्नपङ्क्तिखचिते चित्रध्वजालङ्कृते
वासे स्वर्णमये दलाष्टललिते पद्मे विमानोत्तमे ।
आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः
दिक्पालैर्मुनिपुङ्गवैर्नृपगणैस्संसेव्यमानं भजे ॥ ५३ ॥
कस्तूरीघनसारकुङ्कुमलसच्छ्रीचन्दनालङ्कृतं
कन्दर्पाधिकसुन्दरं घननिभं काकुत्स्थवम्शध्वजम् ।
कल्याणाम्भरवेष्टितं कमलया युक्तं कलावल्लभं
कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥ ५४ ॥
मुक्तेर्मूलं मुनिवरहृदानन्दकन्दं मुकुन्दं
कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् ।
नादातीतं कमलनिलयं नादनादान्ततत्त्वं
नादातीतं प्रकृतिरहितं रामचन्द्रं भजेऽहम् ॥ ५५ ॥
ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं
शब्दावाच्यं त्रिगुणरहितं व्योममङ्गुष्ठमात्रम् ।
निर्वाणाख्यं सगुणमगुणव्योमरन्ध्रान्तरस्थं
सौषुम्नान्तः प्रणवसहितं रामचन्द्रं भजेऽहम् ॥ ५६ ॥
निजानन्दाकारं निगमतुरगाराधितपदं
परब्रह्मानन्दं परमपदगं पापहरणम् ।
कृपापारावारं परमपुरुषं पद्मनिलयं
भजे रामं श्यामं प्रकृतिरहितं निर्गुणमहम् ॥ ५७ ॥
साकेते नगरे समस्तमहिमाधारे जगन्मोहने
रत्नस्तम्भसहस्रमण्टपमहासिंहासने साम्बुजे ।
विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मौनिभिः
ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ ५८ ॥
रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं
दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोडण्डहस्तम् ।
कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं
भीमं भीमाट्टहासं सकलभयहरं रामचन्द्रं भजेऽहम् ॥ ५९ ॥
श्रीरामं भुवनैकसुन्दरतनुं धाराधरश्यामलं
राजीवायतलोचनं रघुवरं राकेन्दुबिम्बाननम् ।
कोदण्डादिनिजायुधाश्रितभुजैर्भ्रान्तं विदेहात्मजा-
धीशं भक्तजनावनं रघुवरं श्रीरामचन्द्रं भजे ॥ ६० ॥
श्रीवत्साङ्कमुदारकौस्तुभलसत्पीताम्बरालङ्कृतं
नानारत्नविराजमानमकुटं नीलाम्बुदश्यामलम् ।
कस्तूरीघनसारचर्चिततनुं मन्दारमालाधरं
कन्दर्पायुतसुन्दरं रघुपतिं सीतासमेतं भजे ॥ ६१ ॥
सदानन्ददेवे सहस्रारपद्मे
गलच्चन्द्रपीयूषधारामृतान्ते ।
स्थितं राममूर्तिं निषेवे निषेवे-
ऽन्यदैवं न सेवे न सेवे न सेवे ॥ ६२ ॥
सुधाभासितद्वीपमध्ये विमाने
सुपर्वालिवृक्षोज्ज्वले शेषतल्पे ।
निषण्णं रमाङ्कं निषेवे निषेवे-
ऽन्यदैवं न सेवे न सेवे न सेवे ॥ ६३ ॥
चिदम्शं समानन्दमानन्दकन्दं
सुषुम्नाख्यरन्ध्रान्तराले च हंसम् ।
सचक्रं सशङ्खं सपीताम्बराङ्कं
परञ्चान्यदैवं न जाने न जाने ॥ ६४ ॥
चतुर्वेदकूटोल्लसत्कारणाख्यं
स्फुरद्दिव्यवैमानिके भोगितल्पे ।
परन्धाममूर्तिं निषण्णं निषेवे
निषेवेऽन्यदैवं न सेवे न सेवे ॥ ६५ ॥
सिंहासनस्थं सुरसेवितव्यं
रत्नाङ्कितालङ्कृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं
रामं भजे राघव रामचन्द्रम् ॥ ६६ ॥
रामं पुराणपुरुषं रमणीयवेषं
राजाधिराजमकुटार्चितपादपीठम् ।
सीतापतिं सुनयनं जगदेकवीरं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ६७ ॥
परानन्दवस्तुस्वरूपादिसाक्षिं
परब्रह्मगम्यं परञ्ज्योतिमूर्तिम् ।
पराशक्तिमित्राऽप्रियाराधिताङ्घ्रिं
परन्धामरूपं भजे रामचन्द्रम् ॥ ६८ ॥
मन्दस्मितं कुण्डलगण्डभागं
पीताम्बरं भूषणभूषिताङ्गम् ।
नीलोत्पलाङ्गं भुवनैकमित्रं
रामं भजे राघव रामचन्द्रम् ॥ ६९ ॥
अचिन्त्यमव्यक्तमनन्तरूप-
मद्वैतमानन्दमनादिगम्यम् ।
पुण्यस्वरूपं पुरुषोत्तमाख्यं
रामं भजे राघव रामचन्द्रम् ॥ ७० ॥
पद्मासनस्थं सुरसेवितव्यं
पद्मालयानन्दकटाक्षवीक्ष्यम् ।
गन्धर्वविद्याधरगीयमानं
रामं भजे राघव रामचन्द्रम् ॥ ७१ ॥
अनन्तकीर्तिं वरदं प्रसन्नं
पद्मासनं सेवकपारिजातम् ।
राजाधिराजं रघुवीरकेतुं
रामं भजे राघव रामचन्द्रम् ॥ ७२ ॥
सुग्रीवमित्रं सुजनानुरूपं
लङ्काहरं राक्षसवम्शनाशम् ।
वेदाश्रयाङ्गं विपुलायताक्षं
रामं भजे राघव रामचन्द्रम् ॥ ७३ ॥
सकृत्प्रणतरक्षायां साक्षी यस्य विभीषणः ।
सापराधप्रतीकारः स श्रीरामो गतिर्मम ॥ ७४ ॥
फलमूलाशिनौ दान्तौ तापसौ धर्मचारिणौ ।
रक्षःकुलविहन्तारौ भ्रातरौ रामलक्ष्मणौ ॥ ७५ ॥
तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीक विशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ ७६ ॥
कौसल्यानयनेन्दुं दशरथमुखारविन्दमार्ताण्डम् ।
सीतामानसहंसं रामं राजीवलोचनं वन्दे ॥ ७७ ॥
भर्जनं भवबीजानां मार्जनं सुखसम्पदाम् ।
तर्जनं यमदूतानां रामरामेति कीर्तनम् ॥ ७८
न जाने जानकी जाने राम त्वन्नामवैभवम् ।
सर्वेशो भगवान् शम्भुर्वाल्मीकिर्वेत्ति वा नवा ॥ ७९ ॥
करतलधृतचापं कालमेघस्वरूपं
सरसिजदलनेत्रं चारुहासं सुगात्रम् ।
विचिनुतवनवासं विक्रमोदग्रवेषं
प्रणमत रघुनाथं जानकीप्राणनाथम् ॥ ८० ॥
विद्युत्स्फुरन्मकरकुण्डलदीप्तचारु-
गण्डस्थलं मणिकिरीटविराजमानम् ।
पीताम्बरं जलदनीलमुदारकान्तिं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ८१ ॥
रत्नोल्लसज्ज्वलितकुण्डलगण्डभागं
कस्तूरिकातिलकशोभितफालभागम् ।
कर्णान्तदीर्घनयनं करुणाकटाक्षं
श्रीरामचन्द्र मुखमात्मनि सन्निधत्तम् ॥ ८२ ॥
वैदेहीसहितं च लक्ष्मणयुतं कैकेयिपुत्रान्वितं
सुग्रीवं च विभीषणानिलसुतौ नीलं नलं साङ्गदम् ।
विश्वामित्रवसिष्ठगौतमभरद्वाजादिकान् मानयन्
रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने ॥ ८३ ॥
सकलगुणनिधानं योगिभिस्स्तूयमानं
भजितसुरविमानं रक्षितेन्द्रादिमानम् ।
महितवृषभयानं सीतया शोभमानं
स्मरतु हृदयभानुं ब्रह्मरामाभिरामम् ॥ ८४ ॥
त्रिदशकुमुदचन्द्रो दानवाम्भोजचन्द्रो
दुरिततिमिरचन्द्रो योगिनां ज्ञानचन्द्रः ।
प्रणतनयनचन्द्रो मैथिलीनेत्रचन्द्रो
दशमुखरिपुचन्द्रः पातु मां रामचन्द्रः ॥ ८५ ॥
यन्नामैव सहस्रनामसदृशं यन्नाम वेदैस्समं
यन्नामाङ्कितवाक्य-मासुरबलस्त्रीगर्भविच्छेदनम् ।
यन्नाम श्वपचार्यभेदरहितं मुक्तिप्रदानोज्ज्वलं
तन्नामाऽलघुरामरामरमणं श्रीरामनामामृतम् ॥ ८६ ॥
राजीवनेत्र रघुपुङ्गव रामभद्र
राकेन्दुबिम्बसदृशानन नीलगात्र ।
रामाऽभिराम रघुवम्शसमुद्भव त्वं
श्रीरामचन्द्र मम देहि करावलम्बम् ॥ ८७ ॥
माणिक्यमञ्जीरपदारविन्दं
रामार्कसम्फुल्लमुखारविन्दम् ।
भक्ताभयप्रापिकरारविन्दां
देवीं भजे राघववल्लभां ताम् ॥ ८८ ॥
जयतु विजयकारी जानकीमोदकारी
तपनकुलविहारी दण्डकारण्यचारी ।
दशवदनकुठारी दैत्यविच्छेदकारी
मणिमकुटकधारी चण्डकोदण्डधारी ॥ ८९ ॥
रामः पिता रघव एव माता
रामस्सुबन्धुश्च सखा हितश्च ।
रामो गुरुर्मे परमं च दैवं
रामं विना नाऽन्यमहं स्मरामि ॥ ९० ॥
श्रीराम मे त्वं हि पिता च माता
श्रीराम मे त्वं हि सुहृच्च बन्धुः ।
श्रीराम मे त्वं हि गुरुश्च गोष्ठी
श्रीराम मे त्वं हि समस्तमेव ॥ ९१ ॥
रामचन्द्रचरितामृतपानं
सोमपानशतकोटिसमानम् ।
सोमपानशतकोटिभिरीया-
ज्जन्म नैति रघुनायकनाम्ना ॥ ९२ ॥
राम राम दयासिन्धो रावणारे जगत्पते ।
त्वत्पादकमलासक्ति-र्भवेज्जन्मनि जन्मनि ॥ ९३ ॥
श्रीरामचन्द्रेति दयापरेति
भक्तप्रियेति भवबन्धनमोचनेति ।
नाथेति नागशयनेति सदा स्तुवन्तं
मां पाहि भीतमनिशं कृपणं कृपालो ॥ ९४ ॥
अयोध्यानाथ राजेन्द्र सीताकान्त जगत्पते ।
श्रीराम पुण्डरीकाक्ष रामचन्द्र नमोऽस्तु ते ॥ ९५ ॥
हे राम हे रमण हे जगदेकवीर
हे नाथ हे रघुपते करुणालवाल ।
हे जानकीरमण हे जगदेकबन्धो
मां पाहि दीनमनिशं कृपणं कृतघ्नम् ॥ ९६ ॥
जानाति राम तव तत्त्वगतिं हनूमान् ।
जानाति राम तव सख्यगतिं कपीशः ।
जानाति राम तव युद्धगतिं दशास्यो ।
जानाति राम धनदानुज एव सत्यम् ॥ ९७ ॥
सेव्यं श्रीराममन्त्रं श्रवणशुभकरं श्रेष्ठसुज्ञानिमन्त्रं
स्तव्यं श्रीराममन्त्रं नरकदुरितदुर्वारनिर्घातमन्त्रम् ।
भव्यं श्रीराममन्त्रं भजतु भजतु संसारनिस्तारमन्त्रं
दिव्यं श्रीराममन्त्रं दिवि भुवि विलसन्मोक्षरक्षैकमन्त्रम् ॥ ९८ ॥
निखिलनिलयमन्त्रं नित्यतत्त्वाख्यमन्त्रं
भवकुलहरमन्त्रं भूमिजाप्राणमन्त्रम् ।
पवनजनुतमन्त्रं पार्वतीमोक्षमन्त्रं
पशुपतिनिजमन्त्रं पातु मां राममन्त्रम् ॥ ९९ ॥
प्रणवनिलयमन्त्रं प्राणनिर्वाणमन्त्रं
प्रकृतिपुरुषमन्त्रं ब्रह्मरुद्रेन्द्रमन्त्रम् ।
प्रकटदुरितरागद्वेषनिर्णाशमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ १०० ॥
दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् ।
मुनिगणनुतमन्त्रं मुक्तिमार्गैकमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ १०१ ॥
संसारसागरभयापहविश्वमन्त्रं
साक्षान्मुमुक्षुजनसेवितसिद्धमन्त्रम् ।
सारङ्गहस्तमुखहस्तनिवासमन्त्रं
कैवल्यमन्त्रमनिशं भज राममन्त्रम् ॥ १०२ ॥
जयतु जयतु मन्त्रं जन्मसाफल्यमन्त्रं
जननमरणभेदक्लेशविच्छेदमन्त्रम् ।
सकलनिगममन्त्रं सर्वशास्त्रैकमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ १०३ ॥
जगति विशदमन्त्रं जानकीप्राणमन्त्रं
विबुधविनुतमन्त्रं विश्वविख्यातमन्त्रम् ।
दशरथसुतमन्त्रं दैत्यसंहारमन्त्रं
रघुपतिनिजमन्त्रं रामरामेतिमन्त्रम् ॥ १०४ ॥
ब्रह्मादियोगिमुनिपूजितसिद्धमन्त्रं
दारिद्र्यदुःखभवरोगविनाशमन्त्रम् ।
संसारसागरसमुत्तरणैकमन्त्रं
वन्दे महाभयहरं रघुराममन्त्रम् ॥ १०५ ॥
शत्रुच्छेदैकमन्त्रं सरसमुपनिषद्वाक्यसम्पूज्यमन्त्रं
संसारोत्तारमन्त्रं समुचितसमये सङ्गनिर्याणमन्त्रम् ।
सर्वैश्वर्यैकमन्त्रं व्यसनभुजगसन्दष्टसन्त्राणमन्त्रं
जिह्वे श्रीराममन्त्रं जप जप सफलं जन्मसाफल्यमन्त्रम् ॥ १०६ ॥
नित्यं श्रीराममन्त्रं निरुपममधिकं नीतिसुज्ञानमन्त्रं
सत्यं श्रीराममन्त्रं सदमलहृदये सर्वदारोग्यमन्त्रम् ।
स्तुत्यं श्रीराममन्त्रं सुललितसुमनस्सौख्यसौभाग्यमन्त्रं
पठ्यं श्रीराममन्त्रं पवनजवरदं पातु मां राममन्त्रम् ॥ १०७ ॥
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं
दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् ।
भक्तानन्दकरौषधं त्रिभुवने सञ्जीवनैकौषधं
श्रेयः प्राप्तिकरौषधं पिब मनः श्रीरामनामौषधम् ॥ १०८ ॥
सकलभुवनरत्नं सर्वशास्त्रार्थरत्नं
समरविजयरत्नं सच्चिदानन्दरत्नम् ।
दशमुखहररत्नं दानवारातिरत्नं
रघुकुलनृपरत्नं पातु मां रामरत्नम् ॥ १०९ ॥
सकलभुवनरत्नं सच्चिदानन्दरत्नं
सकलहृदयरत्नं सूर्यबिम्बान्तरत्नम् ।
विमलसुकृतरत्नं वेदवेदान्तरत्नं
पुरहरजपरत्नं पातु मां रामरत्नम् ॥ ११० ॥
निगमशिखररत्नं निर्मलानन्दरत्नं
निरुपमगुणरत्नं नादनादान्तरत्नम् ।
दशरथकुलरत्नं द्वादशान्तस्स्थरत्नं
पशुपतिजपरत्नं पातु मां रामरत्नम् ॥ १११ ॥
शतमखसुतरत्नं षोडशान्तस्स्थरत्नं
मुनिजनजपरत्नं मुख्यवैकुण्ठरत्नम् ।
निरुपमगुणरत्नं नीरजान्तस्स्थरत्नं
परमपदविरत्नं पातु मां रामरत्नम् ॥ ११२ ॥
सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं
शमदमगुणरत्नं शाश्वतानन्दरत्नम् ।
प्रणयनिलयरत्नं प्रस्फुटद्योतिरत्नं
परमपदविरत्नं पातु मां रामरत्नम् ॥ ११३ ॥
निगमशिखररत्नं नित्यमाशास्यरत्नं
जननुतनृपरत्नं जानकीरूपरत्नम् ।
भुवनवलयरत्नं भूभुजामेकरत्नं
रघुकुलवररत्नं पातु मां रामरत्नम् ॥ ११४ ॥
विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं सुरवैरिजैत्रम् ।
कारुण्यपात्रं जगतः पवित्रं
श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ ११५ ॥
हे गोपालक हे दयाजलनिधे हे सद्गुणाम्भोनिधे
हे दैत्यान्तक हे विभीषणदयापरीण हे भूपते ।
हे वैदेहसुतामनोजविहृते हे कोटिमाराकृते
हे नव्याम्बुजनेत्र पालय परं जानामि न त्वां विना ॥ ११६ ॥
यस्य किञ्चिदपि नो हरणीयं
कर्म किञ्चिदपि नो चरणीयम् ।
रामनाम च सदा स्मरणीयं
लीलया भवजलं तरणीयम् ॥ ११७ ॥
दशरथसुतमीशं दण्डकारण्यवासं
शतमखमणिनीलं जानकीप्राणलोलम् ।
सकलभुवनमोहं सन्नुताम्भोददेहं
बहुलनुतसमुद्रं भावये रामभद्रम् ॥ ११८ ॥
विशालनेत्रं परिपूर्णगात्रं
सीताकलत्रं सुरवैरिजैत्रम् ।
जगत्पवित्रं परमात्मतन्त्रं
श्रीरामचन्द्रं प्रणमामि चित्ते ॥ ११९ ॥
जय जय रघुराम श्रीमुखाम्भोजभानो
जय जय रघुवीर श्रीमदम्भोजनेत्र ।
जय जय रघुनाथ श्रीकराभ्यर्चिताङ्घ्रि
जय जय रघुवर्य श्रीश कारुण्यसिन्धो ॥ १२० ॥
मन्दारमूले मणिपीठसंस्थं
सुधाप्लुतं दिव्यविराट्स्वरूपम् ।
सबिन्दुनादान्तकलान्ततुर्य-
मूर्तिं भजेऽहं रघुवम्शरत्नम् ॥ १२१ ॥
नादं नादविनीलचित्तपवनं नादान्तत्त्वप्रियं
नामाकारविवर्जितं नवघनश्यामाङ्गनादप्रियम् ।
नादाम्भोजमरन्दमत्तविलसद्भृङ्गं मदान्तस्स्थितं
नादान्तधृवमण्डलाब्जरुचिरं रामं भजे तारकम् ॥ १२२ ॥
नानाभूतहृदब्जपद्मनिलयं नामोज्ज्वलाभूषणं ।
नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् ।
नादान्तेन्दुगलत्सुधाप्लुततनुं नानात्मचिन्मात्रकम् ।
नानाकोटियुगान्तभानुसदृशं रामं भजे तारकम् ॥ १२३ ॥
वेद्यं वेदगुरुं विरिञ्चिजनकं वेदान्तमूर्तिं स्फुर-
द्वेदं वेदकलापमूलमहिमाधारान्तकन्दाङ्कुरम् ।
वेदशृङ्गसमानशेषशयनं वेदान्तवेद्यात्मकं
वेदाराधितपादपङ्कजमहं रामं भजे तारकम् ॥ १२४ ॥
मज्जीवं मदनुग्रहं मदधिपं मद्भावनं मत्सुखं
मत्तातं मम सद्गुरुं मम वरं मोहान्धविच्छेदनम् ।
मत्पुण्यं मदनेकबान्धवजनं मज्जीवनं मन्निधिं
मत्सिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ॥ १२५ ॥
नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं
निर्भेदानुभवं निरन्तरगुणं नीलाङ्गरागोज्ज्वलम् ।
निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं
निष्पुण्यं निखिलं निरञ्जनपदं रामं भजे तारकम् ॥ १२६ ॥
ध्याये त्वां हृदयाम्बुजे रघुपतिं विज्ञानदीपाङ्कुरं
हंसोहंसपरम्परादिमहिमाधारं जगन्मोहनम् ।
हस्ताम्भोजगदाब्जचक्रमतुलं पीताम्बरं कौस्तुभं
श्रीवत्सं पुरुषोत्तमं मणिनिभं रामं भजे तारकम् ॥ १२७ ॥
सत्यज्ञानमनन्तमच्युतमजं चाव्याकृतं तत्परं
कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्तत्त्वदम् ।
वेद्यं विश्वमयं स्वलीनभुवनस्वाराज्यसौख्यप्रदं
पूर्णं पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥ १२८ ॥
रामं राक्षसवम्शनाशनकरं राकेन्दुबिम्बाननं
रक्षोरिं रघुवम्शवर्धनकरं रक्ताधरं राघवम् ।
राधायात्मनिवासिनं रविनिभं रम्यं रमानायकं
रन्ध्रान्तर्गतशेषशायिनमहं रामं भजे तारकम् ॥ १२९ ॥
ओतप्रोतसमस्तवस्तुनिचयं ओङ्कारबीजाक्षरं
ओङ्कारप्रकृतिं षडक्षरहितं ओङ्कारकन्दाङ्कुरम् ।
ओङ्कारस्फुटभूर्भुवस्सुपरितं ओघत्रयाराधितम्
ओङ्कारोज्ज्वलसिंहपीठनिलयं रामं भजे तारकम् ॥ १३० ॥
साकेते नगरे समस्तसुखदे हर्म्येऽब्जकोटिद्युते
नक्षत्रग्रहपङ्क्तिलग्नशिखरे चान्तर्यपङ्केरुहे ।
वाल्मीकात्रिपराशरादिमुनिभिस्संसेव्यमानं स्थितं
सीतालङ्कृतवामभागमनिशं रामं भजे तारकम् ॥ १३१ ॥
वैकुण्ठे नगरे सुरद्रुमतले चानन्दवप्रान्तरे
नानारत्नविनिर्मितस्फुटपटुप्राकारसंवेष्टिते ।
सौधेन्दूपलशेषतल्पललिते नीलोत्पलच्छादिते
पर्यङ्के शयनं रमादिसहितं रामं भजे तारकम् ॥ १३२ ॥
वन्दे राममनादिपूरुषमजं वन्दे रमानायकं
वन्दे हारिकिरीटकुण्डलधरं वन्दे सुनीलद्युतिम् ।
वन्दे चापकलम्बकोज्ज्वलकरं वन्दे जगन्मङ्गलं
वन्दे पङ्क्तिरथात्मजं मम गुरुं वन्दे सदा राघवम् ॥ १३३ ॥
वन्दे शौनकगौतमाद्यभिनुतं वन्दे घनश्यामलं
वन्दे तारकपीठमध्यनिलयं वन्दे जगन्नायकम् ।
वन्दे भक्तजनौघदेविवटपं वन्दे धनुर्वल्लभं
वन्दे तत्त्वमसीतिवाक्यजनकं वन्दे सदा राघवम् ॥ १३४ ॥
वन्दे सूर्यशशाङ्कलोचनयुगं वन्दे जगत्पावनं
वन्दे पत्रसहस्रपद्मनिलयं वन्दे पुरारिप्रियम् ।
वन्दे राक्षसवम्शनाशनकरं वन्दे सुधाशीतलं
वन्दे देवकपीन्द्रकोटिविनुतं वन्दे सदा राघवम् ॥ १३५ ॥
वन्दे सागरगर्वभङ्गविशिखं वन्दे जगज्जीवनं
वन्दे कौशिकयागरक्षणकरं वन्दे गुरुणां गुरुम् ।
वन्दे बाणशरासनोज्ज्वलकरं वन्दे जटावल्कलं
वन्दे लक्ष्मणभूमिजान्वितमहं वन्दे सदा राघवम् ॥ १३६ ॥
वन्दे पाण्डरपुण्डरीकनयनं वन्देऽब्जबिम्बाननं
वन्दे कम्बुगलं कराब्जयुगलं वन्दे ललाटोज्ज्वलम् ।
वन्दे पीतदुकूलमम्बुदनिभं वन्दे जगन्मोहनं
वन्दे कारणमानुषोज्ज्वलतनुं वन्दे सदा राघवम् ॥ १३७ ॥
वन्दे नीलसरोजकोमलरुचिं वन्दे जगद्वन्दितं
वन्दे सूर्यकुलाब्धिकौस्तुभमणिं वन्दे सुराराधितम् ।
वन्दे पातकपञ्चकप्रहरणं वन्दे जगत्कारणं
वन्दे विम्शतिपञ्चतत्त्वरहितं वन्दे सदा राघवम् ॥ १३८ ॥
वन्दे साधकवर्गकल्पकतरुं वन्दे त्रिमूर्त्यात्मकं
वन्दे नादलयान्तरस्थलगतं वन्दे त्रिवर्गात्मकम् ।
वन्दे रागविहीनचित्तसुलभं वन्दे सभानायकं
वन्दे पूर्णदयामृतार्णवमहं वन्दे सदा राघवम् ॥ १३९ ॥
वन्दे सात्त्विकतत्त्वमुद्रिततनुं वन्दे सुधादायकं
वन्दे चारुचतुर्भुजं मणिनिभं वन्दे षडब्जस्थितम् ।
वन्दे ब्रह्मपिपीलिकादिनिलयं वन्दे विराट्विग्रहं
वन्दे पन्नगतल्पशायिनमहं वन्दे सदा राघवम् ॥ १४० ॥
सिंहासनस्थं मुनिसिद्धसेव्यं
रक्तोत्पलालङ्कृतपादपद्मम् ।
सीतासमेतं शशिसूर्यनेत्रं
रामं भजे राघवरामचन्द्रम् ॥ १४१ ॥
श्रीरामभद्राश्रितसद्गुरूणां
पादारविन्दं भजतां नराणाम् ।
आरोग्यमैश्वर्यमनन्तकीर्ति-
रन्ते च विष्णोः पदमस्ति सत्यम् ॥ १४२ ॥
दशरथवरपुत्रं जानकीसत्कलत्रं
दशमुखहरदक्षं पद्मपत्रायताक्षम् ।
करधृतशरचापं चारुमुक्ताकलापं
रघुकुलनृवरेण्यं राममीडे शरण्यम् ॥ १४३ ॥
दशमुखगजसिंहं दैत्यगर्वातिरंहं
कदनभयदहस्तं तारकब्रह्म शस्तम् ।
मणिखचितकिरीटं मञ्जुलालापवाटं
दशरथकुलचन्द्रं रामचन्द्रं भजेऽहम् ॥ १४४ ॥
रामं रक्तसरोरुहाक्षममलं लङ्काधिनाथान्तकं
कौसल्यानयनोत्सुकं रघुवरं नागेन्द्रतल्पस्थितम् ।
वैदेहीकुचकुम्भकुङ्कुमरजोलङ्कारहारं हरिं
मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ १४५ ॥
रामं राक्षसमर्दनं रघुवरं दैतेयभिध्वंसिनं
सुग्रीवेप्सितराज्यदं सुरपतेर्भीत्यन्तकं शार्ङ्गिणम् ।
भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं
सामीरिस्तुतपादपद्मयुगलं सीतासमेतं भजे ॥ १४६ ॥
यत्पादाम्बुजरेणुना मुनिसती मुक्तिङ्गता यन्महः
पुण्यं पातकनाशनं त्रिजगतां भाति स्मृतं पावनम् ।
स्मृत्वा राघवमप्रमेयममलं पूर्णेन्दुमन्दस्मितं
तं रामं सरसीरुहाक्षममलं सीतासमेतं भजे ॥ १४७ ॥
वैदेहीकुचमण्डलाग्र-विलसन्माणिक्यहस्ताम्बुजं
चञ्चत्कङ्कणहारनूपुर-लसत्केयूरहारान्वितम् ।
दिव्यश्रीमणिकुण्डलोज्ज्वल-महाभूषासहस्रान्वितं
वीरश्रीरघुपुङ्गवं गुणनिधिं सीतासमेतं भजे ॥ १४८ ॥
वैदेहीकुचमण्डलोपरि-लसन्माणिक्यहारावली-
मध्यस्थं नवनीतकोमलरुचिं नीलोत्पलश्यामलम् ।
कन्दर्पायुतकोटिसुन्दरतनुं पूर्णेन्दुबिम्बाननं
कौसल्याकुलभूषणं रघुपतिं सीतासमेतं भजे ॥ १४९ ॥
दिव्यारण्ययतीन्द्रनामनगरे मध्ये महामण्टपे
स्वर्णस्तम्भसहस्रषोडशयुते मन्दारमूलाश्रिते ।
नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं
सीतालक्ष्मणसेवितं रघुपतिं सीतासमेतं भजे ॥ १५० ॥
कस्तूरीतिलकं कपीन्द्रहरणं कारुण्यवारांनिधिं
क्षीराम्भोधिसुतामुखाब्जमधुपं कल्याणसम्पन्निधिम् ।
कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं
कौमारप्रियमर्ककोटिसदृशं सीतासमेतं भजे ॥ १५१ ॥
विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालङ्कृतं
योगीन्द्रैस्सनकादिभिः परिवृतं कैलासनाथप्रियम् ।
मुक्तारत्नकिरीटकुण्डलधरं ग्रैवेयहारान्वितं
वैदेहीकुचसन्निवासमनिशं सीतासमेतं भजे ॥ १५२ ॥
मेघश्यामलमम्बुजातनयनं विस्तीर्णवक्षस्स्थलं
बाहुद्वन्द्वविराजितं सुवदनं शोणाङ्घ्रिपङ्केरुहम् ।
नानारत्नविचित्रभूषणयुतं कोदण्डबाणाङ्कितं
त्रैलोक्याऽप्रतिमानसुन्दरतनुं सीतासमेतं भजे ॥ १५३ ॥
वैदेहीयुतवामभागमतुलं वन्दारुमन्दारकं
वन्दे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् ।
वैदेहीकुचकुङ्कुमाङ्कितमहोरस्कं महाभूषणं
वेदान्तैरुपगीयमानमसकृत्सीतासमेतं भजे ॥ १५४ ॥
देवानां हितकारणेन भुवने धृत्वाऽवतारं ध्रुवं
रामं कौशिकयज्ञविघ्नदलनं तत्ताटकासंहरम् ।
नित्यं गौतमपत्निशापदलनश्रीपादरेणुं शुभं
शम्भोरुत्कटचापखण्डनमहासत्वं भजे राघवम् ॥ १५५ ॥
श्रीरामं नवरत्नकुण्डलधरं श्रीरामरक्षामणिं
श्रीरामं च सहस्रभानुसदृशं श्रीरामचन्द्रोदयम् ।
श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं
श्रीरामं रघुनन्दनं भयहरं श्रीरामचन्द्रं भजे ॥ १५६ ॥
राममिन्दीवरश्यामं राजीवायतलोचनम् ।
ज्याघोषनिर्जितारातिं जानकीरमणं भजे ॥ १५७ ॥
दीर्घबाहुमरविन्दलोचनं
दीनवत्सलमनाथरक्षकम् ।
दीक्षितं सकललोकरक्षणे
दैवतं दशरथात्मजं भजे ॥ १५८ ॥
प्रातस्स्मरामि रघुनाथमुखारविन्दं
मन्दस्मितं मधुरभाषि विशालफालम् ।
कर्णावलम्बिचलकुण्डलगण्डभागं
कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १५९ ॥
प्रातर्भजामि रघुनाथकरारविन्दं
रक्षोगणाय भयदं वरदं निजेभ्यः ।
यद्राजसंसदि विभिद्य महेशचापं
सीताकरग्रहणमङ्गलमाप सद्यः ॥ १६० ॥
प्रातर्नमामि रघुनाथपदारविन्दं
पद्माङ्कुशादिशुभरेखशुभावहं च ।
योगीन्द्रमानसमधुव्रतसेव्यमानं
शापापहं सपदि गौतमधर्मपत्न्याः ॥ १६१ ॥
प्रातर्वदामि वचसा रघुनाथनाम
वाग्दोषहारि सकलं कलुषं निहन्तृ ।
यत्पार्वती स्वपतिना सह भोक्तुकामा
प्रीत्या सहस्रहरिनामसमं जजाप ॥ १६२ ॥
प्रातः श्रये श्रुतिनुतं रघुनाथमूर्तिं
नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।
आमुक्तमौक्तिकविशेषविभूषणाढ्यां
ध्येयां समस्तमुनिभिर्निजभृत्यमुख्यैः ॥ १६३ ॥
रघुकुलवरनाथो जानकीप्राणनाथः
पितृवचनविधाता कीशराज्यप्रदाता ।
प्रतिनिशिचरनाशः प्राप्तराज्यप्रवेशो
विहितभुवनरक्षः पातु पद्मायताक्षः ॥ १६४ ॥
कुवलयदलनीलः पीतवासाः स्मितास्यो
विविधरुचिरभूषाभूषितो दिव्यमूर्तिः ।
दशरथकुलनाथो जानकीप्राणनाथो
निवसतु मम चित्ते सर्वदा रामचन्द्रः ॥ १६५ ॥
जयतु जयतु रामो जानकीवल्लभोऽयं
जयतु जयतु रामश्चन्द्रचूडार्चिताङ्घ्रिः ।
जयतु जयतु वाणीनाथनाथः परात्मा
जयतु जयतु रामोऽनाथनाथः कृपालुः ॥ १६६ ॥
वदतु वदतु वाणी रामरामेति नित्यं
जयतु जयतु चित्तं रामपादारविन्दम् ।
नमतु नमतु देहं सन्ततं रामचन्द्रं
न भवतु मम पापं जन्मजन्मान्तरेषु ॥ १६७ ॥
आनन्दरूपं वरदं प्रसन्नं
सिंहेक्षणं सेवकपारिजातम् ।
नीलोत्पलाङ्गं भुवनैकमित्रं
रामं भजे राघवरामचन्द्रम् ॥ १६८ ॥
लङ्काविरामं रणरङ्गभीमं
राजीवनेत्रं रघुवम्शमित्रम् ।
कारुण्यमूर्तिं करुणाप्रपूर्तिं
श्रीरामचन्द्रं शरणं प्रपद्ये ॥ १६९ ॥
सुग्रीवमित्रं परमं पवित्रं
सीताकलत्रं नवहेमसूत्रम् ।
कारुण्यपात्रं शतपत्रनेत्रं
श्रीरामचन्द्रं शिरसा नमामि ॥ १७० ॥
श्रीराघवेति रमणेति रघूद्वहेति
रामेति रावणहरेति रमाधवेति ।
साकेतनाथसुमुखेति च सुव्रतेति
वाणी सदा वदतु राम हरे हरेति ॥ १७१ ॥
श्रीरामनामामृतमन्त्रबीजं
सञ्जीवनं चेन्मनसि प्रतिष्ठम् ।
हालाहलं वा प्रलयानलं वा
मृत्योर्मुखं वा वितथीकरोति ॥ १७२ ॥
किं योगशास्त्रैः किमशेषविद्या
किं यागगङ्गादिविशेषतीर्थैः ।
किं ब्रह्मचर्याश्रमसञ्चरेण
भक्तिर्नचेत्ते रघुवम्शकीर्त्याम् ॥ १७३ ॥
इदं शरीरं श्लथसन्धिजर्झरं
पतत्यवश्यं परिणामपेशलम् ।
किमौषथं पृच्छसि मूढ दुर्मते
निरामयं रामकथामृतं पिब ॥ १७४ ॥
हे रामभद्राश्रय हे कृपालो
हे भक्तलोकैकशरण्यमूर्ते ।
पुनीहि मां त्वच्चरणारविन्दं
जगत्पवित्रं शरणं ममाऽस्तु ॥ १७५ ॥
नीलाभ्रदेह निखिलेश जगन्निवास
राजीवनेत्र रमणीयगुणाभिराम ।
श्रीदाम दैत्यकुलमर्दन रामचन्द्र
त्वत्पादपद्ममनिशं कलयामि चित्ते ॥ १७६ ॥
श्रीरामचन्द्र करुणाकर दीनबन्धो
सीतासमेत भरताग्रज राघवेश ।
पापार्तिभञ्जन भयातुरदीनबन्धो
पापाम्बुधौ पतितमुद्धर मामनाथम् ॥ १७७ ॥
इन्दीवरदलश्याम-मिन्दुकोटिनिभाननम् ।
कन्दर्पकोटिलावण्यं वन्देऽहं रघुनन्दनम् ॥ १७५ ॥
इति श्रीबोधेन्द्रसरस्वती कृत श्रीरामकर्णामृतम् ॥
– Chant Stotra in Other Languages –
Sri Rama Karnamrutham in Sanskrit – English – Kannada – Telugu – Tamil