Sri Rama Mangalashtakam In Sanskrit

॥ Rama Mangala Ashtakam Sanskrit Lyrics ॥

॥ श्रीराममङ्गलाष्टकम् ॥

श्रीरामजयम्
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

नमः श्रीत्यागराजाय मदाचार्यवराय च ।
श्रीसीतारामभक्ताय गुरुदेवाय ते नमः ॥
ॐ सीतावराय विद्महे । त्यागगेयाय धीमहि ।
तन्नो रामः प्रचोदयात् ॥

अथ श्रीराममङ्गलाष्टकम् ।

सङ्गीतप्राणमूलाय सप्तस्वराधिवासिने ।
षड्जाधारश्रुतिस्थाय सद्गुरुस्वाय मङ्गलम् ॥ १ ॥

ऋषभारूढनूताय रिपुसूदनकीर्तये ।
ऋषिश्रेष्ठसुगीताय रिपुभीमाय मङ्गलम् ॥ २ ॥

गङ्गापावनपादाय गम्भीरस्वरभाषिणे ।
गान्धर्वगानलोलाय गभीराय सुमङ्गलम् ॥ ३ ॥

मङ्गलं क्षितिजापाय मङ्गलानन्दमूर्तये ।
मङ्गलश्रीनिवासाय माधवाय सुमङ्गलम् ॥ ४ ॥

पञ्चमस्वरगेयाय परिपूर्णस्वराब्धये ।
पाथोधिरागरङ्गाय परार्थाय सुमङ्गलम् ॥ ५ ॥

धन्याय धर्मपालाय धैवत्यधैर्यदायिने ।
ध्याताय ध्यानगम्याय ध्यातरूपाय मङ्गलम् ॥ ६ ॥

निषादगुहमित्राय निशाचरमदारये ।
निर्वाणफलदात्रे च नित्यानन्दाय मङ्गलम् ॥ ७ ॥

सप्तस्वराधिनाथाय सङ्गीतकृतिसेविने ।
सद्गुरुस्वामिगेयाय सीतारामाय मङ्गलम् ॥ ८ ॥

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया
अनुरागेण कृतं श्रीराममङ्गलाष्टकं गुरौ समर्पितम् ।

शुभमस्तु ।

– Chant Stotra in Other Languages –

Sri Vishnu Stotram » Sri Rama Mangalashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Shonadrinatha Ashtakam In Malayalam