Rangarajastavam In Sanskrit

॥ About Sri Parasara Battar’s Sri Rangaraja Stavam ॥

One of the dear most disciples of Sri Kurathazhwan was Pillaipillaiazhwan. He was living in Srirangam when the temple was administered by Sri Parasara Battar (more affectionately called Battar). The king who was ruling the province at that time was Veerasundaran. He was in the process of repairing the ramports of the Srirangam temple. At that stage, he noticed that the house of Pillai Pillai Azhwan was obstructing the reparing of the ramport. Hence he ordered to evict Pillai Pillai Azhwan. On hearing this, Battar intervened in vain. After this incident, friction developed between Battar and the king. The king gave constant troubles to Battar. One day Battar left Srirangam without informing anyone. He moved to Thirukoshtiyuur.

When Battar was residing at Thirukoshtiyuur, suffering due to the separation of Periyaperumal, Pillai pillai azhwan came to him. He carried a very happy message for Battar – king eerasundavan passed away. Battar immediately left Thirukoshtiyuur and came to Srirangam. When he returned, he describes the temple city starting from Cauvery, each of the streets, and finally falls at the lotus-feet of Sri Ranganatha. Thus the sloka beautifully describes Srirangam.

This sloka has two parts – poorva (first)and the uttara (concluding ) part. The poorva part has 147 slokas while the uttara part has 105 slokas. This sloka is said to explain the meaning of the dwaya mantra. The poorva part explains the first line of the dwayam while the uttara part explains the second line of the dwayam.

॥ Sri Rangaraja Stavam Sanskrit Lyrics ॥

श्रीरङ्गराजस्तवम्

श्रीरङ्गराजस्तवम् ॥

श्रीमते रामानुजाय नमः ।
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान्श्रेयसे मेऽस्तु भूयसे ।

अथ श्रीरङ्गराजस्तवे पूर्वशतकम् ।

श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १ ॥

रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी ।
तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २ ॥

रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः ।
कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३ ॥

विधाय वैदिकम्मार्गमकौतस्कुतकण्टकम् ।
नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४ ॥

नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे ।
वैराग्यभगवत्तत्त्वज्ञानभक्त्यभिवर्षुकम् ॥ ५ ॥

ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितं
सहस्रशाखां योऽद्राक्षीद्द्राविडीं ब्रह्मसंहिताम् ॥ ६ ॥

नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ ७ ॥

श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ८ ॥

अस्ति वस्त्विदमित्थं त्वप्रसङ्ख्यानपराङ्मुखम् ।
श्रीमत्यायतने लक्ष्मीपदलाक्षैकलक्षणम् ॥ ९ ॥

लक्ष्मीकल्पलतोत्तुङ्गस्तनस्तबकचञ्चलः ।
श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥ १० ॥

स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितोरसः ।
श्रीरङ्गराजाच्छरदश्शतमाशास्महेतमाम् ॥ ११ ॥

पातु प्रणतरक्षायां विलम्बमसहन्निव ॥

सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः ॥ १२ ॥

अमतं मतं मतमथामतं स्तुतं
परिनिन्दितं भवति निन्दितं स्तुतम् ।
इति रङ्गराजमुदजूघुषत्त्रयी
स्तुमहे वयम्किमिति तन्न शक्नुमः ॥ १३ ॥

यदि मे सहस्रवदनादिवैभवं
निजमर्पयेत्स किल रङ्गचन्द्रमाः ।
अथ शेषवन्मम च तद्वदेव वा
स्तुतिशक्त्यभावविभवेऽपि भागिता ॥ १४ ॥

सो अङ्ग वेद यदि वा न किलेति वेदः
सन्देग्ध्यनर्घविदमात्मनि रङ्गनाथम् ।
स्थाने तदेष खलु दोषमलीमसाभिः
मद्वाग्भिरैशमतिशायनमावृणोति ॥ १५ ॥

स्वं संस्कृतद्राविडवेदसूक्तैः
भान्तं मदुक्तैर्मलिनीकरोति ।
श्रीरङ्गकम्रः कलभं क एव
स्नात्वाऽपि धूलीरसिकं निषेद्धा ॥ १६ ॥

किन्तु प्रपत्तिबलतारितविष्णुमाय-
मद्वंश्यराजकुलदुर्ललितं किलैवम् ।
श्रीरङ्गराजकमलापदलालितत्वं
यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥ १७ ॥

नाथस्य च स्वमहिमार्णवपारदृश्व-
विज्ञानवाग्विलसितं सहते न वेदः ।
आपेक्षिकं यदि तदस्ति ममापि तेन
श्रीरङ्गिणः स्तुतिविधावहमध्यकार्षम् ॥ १८ ॥

अन्यत्रातद्गुणोक्तिर्भगवति न तदुत्कर्षचौर्यैः परेषां
स्तुत्यत्वाद्यावदर्था फणितिरपि तथा तस्य निस्सीमकत्वात् ।
आम्नायानामसीम्नामपि हरिविभवे वर्षबिन्दोरिवाऽब्धौ
सं बन्धात्स्वात्मलाभो न तु कबलनतः स्तोतुरेवं न किं मे ॥ १९ ॥

कावेरीमवगाहिषीय भगवद्भोगान्तरायी भवत्
कर्मक्लेशफलाशयप्रशमनोद्वेलामलस्रोतसम् ।
जन्तोस्सम्सरतोऽर्चिरादिसरणिव्यासङ्गभङ्गाय या
लोकेऽस्मिण् विरजेव वेल्लितजला श्रीरङ्गमालिङ्गति ॥ २० ॥

दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरः
श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला ।
चञ्चच्चामरचन्द्रचन्दनमहामाणिक्यमुक्तोत्करान्
कावेरी लहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ २१ ॥

तीर्थं शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति
स्नानीयार्हणपानवारि वहति स्नातः पुनीते जनान् ।
श्यामं वेदरहो व्यनक्ति पुलिने फेनैर्हसन्तीव तत्
गङ्गां विष्णुपदीत्वमात्रमुखरां हेमापगा हन्त्वघम् ॥ २२ ॥

अगणितगुणावद्यं सर्वं स्थिरत्रसमप्रति-
क्रियमपि पयः पूरैराप्याययन्त्यनुजाग्रती ।
प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया
शिशिरमधुराऽगाधा सा नः पुनातु मरुद्वृधा ॥ २३ ॥

तरळतनुतरङ्गैर्मन्दमान्दोल्यमान-
स्वतटविटपिराजीमञ्जरीसुप्तभृङ्गा ।
क्षिपतु कनकनाम्नी निम्नगा नारिकेल-
क्रमुकजमकरन्दैर्मांसलापा मदंहः ॥ २४ ॥

कदलवकुलजम्बूपूगमाकन्दकण्ठ-
द्वयससरसनीरामन्तरा सह्यकन्याम् ।
प्रबलजलपिपासालम्बमानाम्बुदौघ-
भ्रमकरतरुवृन्दं वन्द्यतामन्तरीपम् ॥ २५ ॥

यद्विष्णोः पदमतमः परोरजोऽग्र्यं
मुक्तानामनुविरजं विदीप्रमाहुः ।
तत्पुण्यं पुलिनमिदन्तयाऽद्य मध्ये
कावेरि स्फुरति तदीक्षिषीय नित्यम् ॥ २६ ॥

त्रय्यन्तप्रहतिमतीषु वैष्णवानां
प्राप्यासु प्रचुरभवश्रमापहासु ।
कावेरीपरिचरितासु पावनीषु
श्रीरङ्गोपवनतटीषु वर्तिषीय ॥ २७ ॥

स्फुरितशफरदीर्यन्नालिकेरीगुलुच्छ-
प्रसृमरमधुकुल्यावर्धितानोकहानि ।
रतिमविरति रङ्गारामरम्यस्थलानि
क्रमुकपदसमोचामेचकानि क्रियासुः ॥ २८ ॥

अधिपरमपदं पुरीमयोध्यां
अमृतवृतामपराजितामुशन्ति ।
पुलिनमुपरि रङ्गराजधानी
पिशितदृशामपि सा पुरश्चकास्ति ॥ २९ ॥

भवपदमपि दिव्यधाम कर्तुं
तदुभयतन्त्रितहर्म्यमालिकेव ।
भवनमणितलैर्विजृम्भमाणा
जयतितरामिह रङ्गराजधानी ॥ ३० ॥

मणिमकररुचीर्वितत्य पाशान्
विसृमरकेतुकरैर्मृगं हिमांशोः ।
श्रिय इव नवकेलये जिघृक्षुः
सुखयतु रङ्गपुरी चकासती नः ॥ ३१ ॥

जनपदसरिदन्तरीपपुष्यत्
पुरपरिपालननित्यजागरूकान् ।
प्रहरणपरिवारवाहनाढ्यान्
कुमुदमुखाण् गणनायकान् नमामि ॥ ३२ ॥

अहृतसहजदास्याः सूरयस्स्रस्तबन्धा
विमलचरमदेहा इत्यमी रङ्गधाम ।
महितमनुजयतिर्यक्स्थावरत्वाः श्रयन्ते
सुनियतमिति ह स्म प्राहुरेभ्यो नमः स्तात् ॥ ३३ ॥

श्रीरङ्गदिव्यभवनम्भुवि गोपुराणां
प्राकारितेन निकरेण गुरुत्मतेव ।
पार्श्वप्रसारितपतत्त्रपुटेन भक्त्या
नानातनूभिरूपगूढमुपघ्नयामः ॥ ३४ ॥

प्राकारमध्याजिरमण्डपोक्त्या
सद्वीपरत्नाकररत्नशैला ।
सर्वंसहा रङ्गविमानसेवां
प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५ ॥

जितबाह्यजिनादिमणिप्रतिमा
अपि वैदिकयन्निव रङ्गपुरे ।
मणिमण्डपवपगणन् विदधे
परकालकविः प्रनमेमहि तान् ॥ ३६ ॥

स्मेराननाक्षिकमलैर्नमतः पुनानान्
दंष्ट्रागदाभ्रुकुटिभिर्द्विषतो धुनानान् ।
चन्द्रप्रचण्डमुखतः प्रणमामि रङ्ग-
द्वारावलीषु चतसृष्वधिकारभाजः ॥ ३७ ॥

सर्वात्मसाधारणनाथगोष्ठी-
पूरेऽपि दुष्पूरमहावकाशम् ।
आस्थानमानन्दमयं सहस्र-
स्थूणादिनाऽऽम्नातमवाप्नवानि ॥ ३८ ॥

विहरति हरौ लक्ष्म्या लीलातपत्रपरिष्क्रिया-
विनिमयविधासूनासूनिक्रियासफलोत्पलाम् ।
अथ मुनिमनः पद्मेष्वब्जासहायविहारज-
श्रमहरतटीं यामस्तामैन्दवीमरविन्दिनीम् ॥ ३९ ॥

तापत्रयीमैन्दवपुष्करिण्यां
निमज्ज्य निर्वापयिताऽस्मि यस्याः ।
अभ्यासतोऽपामघमर्षणीनां
चन्द्रः सुधादीधितितामवाप ॥ ४० ॥

पूर्वेण तां तद्वदुदारनिम्न-
प्रसन्नशीताशयमग्ननाथाः ।
पराङ्कुशाद्याः प्रथमे पुमांसो
निषेदिवांसो दश मां दयेरन् ॥ ४१ ॥

आधारशक्तिमुपरि प्रकृतिं परेण
तां कूर्ममत्र फणिनं पृथिवीं फणासु ।
पृथ्व्यां पयोधिमधि तन्नलिनं निधाय
श्रीरङ्गधाम सुनिविष्टमभिष्टवानि ॥ ४२ ॥

परेण नाकं पुरि हेममय्यां
यो ब्रह्मकोशोऽस्त्यपराजिताख्यः ।
श्रीरङ्गनाम्ना तमपौरुषेयं
विमानराजं भुवि भावयानि ॥ ४३ ॥

अनाद्याम्नातत्वात्पुरुषरचनादोषरहितं
जने तांस्तान् कामाण् विदधदपि सायुज्यहृदयम् ।
असन्देहाध्यासं भगवदुपलम्भस्थलममी
प्रतीमः श्रीरङ्गं श्रुतिशतसमानर्द्धि शरणम् ॥ ४४ ॥

अपि फणिपतिभावाच्छुभ्रमन्तः शयालोः
मरकतसुकुमारैः रङ्गभर्तुर्मयूखैः ।
सकलजलधिपानश्यामजीमूतजैत्रं
पुलकयति विमानं पावनं लोचने नः ॥ ४५ ॥

व्यापि रूपमपि गोष्पदयित्वा
भक्तवत्सलतयोज्झितवेलम् ।
तद्विषन्तपनृकेसरिरूपं
गोपुरोपरि विजृम्भितमीडे ॥ ४६ ॥

अहमलमवलम्बः सीदतामित्यजस्रं
निवसदुपरिभागे गोपुरं रङ्गधाम्नः ।
क्वचन नृपरिपाटीवासितं क्वापि सिम्ह-
क्रमसुरभितमेकं ज्योतिरग्रे चकास्ति ॥ ४७ ॥

संशोध्य पावनमनोहरदृष्टिपातैः
देवाय मामपि निवेदयतां गुरूणाम् ।
सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षा-
पङ्क्तिं प्रपद्य परितः परितो भवेयम् ॥ ४८ ॥

श्रीरङ्गराजकरनम्रितशाखिकाभ्यो
लक्ष्म्या स्वहस्तकलितश्रवणवतंसम् ।
पुन्नागतल्लजमजस्रसहस्रगीति-
सेकोत्थदिव्यनिजसौरभमामनामः ॥ ४९ ॥

श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ।
यो निर्वहत्यनिशमङ्गुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियाम ॥ ५० ॥

सैन्यधुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् ।
श्रीपदलाक्षालाञ्छितसेवाप्रोतलसद्दोर्वल्लिविलासाम् ॥ ५१ ॥

See Also  Mahakala Shanimrityunjaya Stotram In Malayalam

विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः
करिमुखजयत्सेनौ कालाह्वसिंहमुखौ च नः ।
जगति भजतां तत्तत्प्रत्यूहतूलदवानलाः
दिशि दिशि दिवारात्रं श्रीरङ्गपालनकर्मठाः ॥ ५२ ॥

श्रुतिमयमतिहर्षप्रश्रयस्मेरवक्त्रं
मणिमुकुरमिवाग्रे मङ्गलं रङ्गधाम्नः ।
शरणमभिगताः स्मो यत्र रूपस्वरूप-
स्वगुणमहिमदर्शी मोदते रङ्गशायी ॥ ५३ ॥

तार्क्ष्यपक्षतिवदस्य वल्लभां
रुद्रया सह सुकीर्तिमर्चये ।
हर्षबाष्पमपि कीर्तिमर्थिनां
यन्मुखेन कमला कटाक्षयेत् ॥ ५४ ॥

स्वास्त्ररूपस्फुरन्मौलि मा शब्द इति
उद्धुनानां सुरास्तर्जनीमुद्रया ।
नाथनिद्रोचितोन्निद्रताम्रेक्षणां
सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥ ५५ ॥

अस्त्रग्रामाग्रेसरं नाथवीक्षा-
शीधुक्षीबोद्वेलनृत्ताभिरामम् ।
चक्रं दैत्यच्छेदकल्माषिताङ्गं
भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥ ५६ ॥

हनुभूषविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य ।
रघुनायकनिष्क्रयभूतं भुवि रङ्गधनं रमयेते ॥ ५७ ॥

इतो बहिः पञ्च पराञ्चि खानि प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् ।
औपाधिकेभ्यो निरुपाधिभोग्ये प्रत्याहरद्वेत्रधरं नमामि ॥ ५८ ॥

शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् ।
आलम्बमिवामोदस्तम्भद्वयमन्तरङ्गमभियामः ॥ ५९ ॥

श्रीरङ्गान्तर्मन्दिरं दीप्रशेषं श्रीभूमीतद्रम्यजामातृगर्भम् ।
पश्येम श्रीदिव्यमाणिक्यभूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥ ६० ॥

लीलालताकृपाणीभृङ्गारपतद्ग्रहार्पितकराग्राः ।
प्रोतावतंसितकुचाः पदाब्जसम्वाहिनीर्वयं स्तुमहे ॥ ६१ ॥

मुकुलितनलिनाः सकौमुदीका
इव सुनिशा विमलादिका नवापि ।
शिरसि कृतनमस्यदेकहस्ता
इतरकरोच्चलचामराः श्रयेयम् ॥ ६२ ॥

उत्फुल्लपङ्कजतटाकमिवाभियानि
श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः ।
लक्ष्मीं विहाररसिकामिव राजहम्सीं
छायामिवाभ्युदयिनीमवनीं च तस्याः ॥ ६३ ॥

पिब नयन पुरस्ते रङ्गधुर्याभिधानं
स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् ।
श्रियमपि विहरन्तीं राजहम्सीमिवास्मिन्
प्रतिफलनमिवास्याः पश्य विश्वम्भरां च ॥ ६४ ॥

सौशील्यशीतलमवेलकृपातरङ्ग-
सम्प्लाविताखिलमकृत्रिमभूम निम्नम् ।
लक्ष्म्या च वासितमभूम विगाहमानाः
श्रीरङ्गराजमिषपद्मसरः प्रसन्नम् ॥ ६५ ॥

सिंहासने कमलया क्षमया च विश्वं
एकातपत्रयितुमस्मदसून्निषण्णम् ।
लक्ष्मीस्वयम्वरसनाथितयौवनश्री-
सौन्दर्य सम्पदवलिप्तमिवालिहीय ॥ ६६ ॥

आपादमूलमणिमौलिसमुल्लसन्त्या
स्वातन्त्र्यसौहृदतरङ्गितयाऽङ्गभङ्ग्या ।
सख्यं समस्तजनचेतसि सन्दधानं
श्रीरङ्गराजमनिमेषमनुस्रियास्म ॥ ६७ ॥

क्षितिकमलनिवासाकल्पवल्लीसलीलो-
ल्लुठनदशदिशोद्यद्यौवनारम्भजृम्भः ।
श्रममपहरतां मे रङ्गधामेति तत्तद्-
वरमयफलनम्रः पत्रलः पारिजातः ॥ ६८ ॥

सम्भाषमाणमिव सर्ववशंवदेन
मन्दस्मितेन मधुरेण च वीक्षणेन ।
दिव्यास्त्रपुष्पितचतुर्भुजमत्युदारं
रङ्गास्पदं मम शुभाश्रयमाश्रयाणि ॥ ६९ ॥

एते शङ्खगदासुदर्शनभृतः क्षेमाङ्करा बाहवः
पादद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः ।
इत्यूचिष्यभयङ्करे करतले स्मेरेण वक्त्रेण तद्-
व्याकुर्वन्निव निर्वहेन्मम धुरं श्रीरङ्गसर्वंसहः ॥ ७० ॥

अङ्गैरहम्प्रथमिकाचरितात्मदानैः
आमोदमाननवयौवनसावलेपैः ।
है पारिजातमिव नूतनतायमान-
शाखाशतं हृदि दधीमहि रङ्गधुर्यम् ॥ ७१ ॥ वर्। कथमधीमहि
आलोका हृदयालवो रसवशादीशानमीषत्स्मितं
प्रच्छायानि वचांसि पद्मनिलया चेतः शरव्यं वपुः ।
चक्षुष्मन्ति गतागतानि त इमे श्रीरङ्गश‍ृङ्गार ते
भावा यौवनगन्धिनः किमपरं सिञ्चन्ति चेतांसि नः ॥ ७२ ॥

आयत्किरीटमलिकोल्लसदूर्ध्वपुण्ड्रं
आकर्णलोचनमनङ्कुशकर्णपाशम् ।
उत्फुल्लवक्षसमुदायुधबाहुमर्ह-
न्नीविं च रङ्गपदमब्जपदं भजामः ॥ ७३ ॥ वर्। पति
अब्जन्यस्तपदाब्जमञ्चितकटीसंवादिकौशेयकं
किञ्चित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् ।
चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं
श्रीरङ्गे शरदः शतं तत इतः पश्येम लक्ष्मीसखम् ॥ ७४ ॥

अग्रे तार्क्ष्येण पश्चादहिपतिशयनेनात्मना पार्श्वयोश्च
श्रीभूमिभ्यामतृप्त्या नयनचुलकनैः सेव्यमानामृतौघम् ।
वक्त्रेणाविःस्मितेन स्फुरदभयगदाशङ्खचक्रैर्भुजाग्रैः
विश्वस्मै तिष्ठमानं शरणमशरणा रङ्गराजं भजामः ॥ ७५ ॥

आर्तापाश्रयमार्थिकल्पकमसह्यागस्करक्ष्मातलं
सद्यः सम्श्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् ।
श्रीरङ्गेश्वरमाश्रयेम कमलाचक्षुर्महीजीवितं
श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च धत्तां मयि ॥ ७६ ॥

स्वफणवितानदीप्रमणिमालिसुदामरुचि-
म्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् ।
मदभरमन्थरोच्छ्वसितनिःश्वसितोत्तरलं
फणिपतिडोलिकातलिममाश्वसिमः प्रणताः ॥ ७७ ॥

वटदलदेवकीजठरवेदशिरः कमला-
स्तनशठकोपवाग्वपुषि रङ्गगृहे शयितम् ।
वरदमुदारदीर्घभुजलोचनसंहननं
पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८ ॥

उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालया-
विनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि ।
फणिपरिवृढस्फारप्रश्वासनिःश्वसितक्रम-
स्खलितनयनं तन्वन्मन्वीत नः परमः पुमान् ॥ ७९ ॥

जलधिमिव निपीतं नीरदेनाद्रिमब्धौ
निहितमिव शयानं कुञ्जरं वाद्रिकुञ्जे ।
कमलपदकराक्षं मेचकं धाम्नि नीले
फणिनमधिशयानं पूरुषं वन्दिषीय ॥ ८० ॥

श्रीरङ्गेशय इह शर्म निर्मिमीतामाताम्राधरपदपाणिविद्रुमो नः ।
कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८१ ॥

सिञ्चेदिमं च जनमिन्दिरया तटित्वान्
भूषामणिद्युतिभिरिन्द्रधनुर्दधानः ।
श्रीरङ्गधामनि दयारसनिर्भरत्वा-
दाद्रौ शयालुरिव शीतलकालमेघः ॥ ८२ ॥

आमौलिरत्नमकरात्पुनरा च पद्भ्यां
धामक्रमोन्नमदुदारमनोहराङ्गम् ।
श्रीरङ्गशेषशयनं नयनैः पिबामः
पश्यन्मनःप्रवणमोघमिवामृतस्य ॥ ८३ ॥

अरविन्दितमङ्घ्रिपाणिपद्मै-
रपि तापिञ्छितमञ्चिताङ्गकान्त्या ।
अधरेण स बन्धुजीवितं श्रीः
नियतं नन्दनयेत रङ्गचन्द्रम् ॥ ८४ ॥

अन्योन्यरञ्जकरुचोऽनुपमानशोभाः
दिव्यस्रगम्बरपरिष्करणाङ्गरागाः ।
संस्पर्शतः पुलकिता इव चिन्मयत्वात्
रङ्गेन्दुकान्तिमधिकामुपबृम्हयन्ति ॥ ८५ ॥

द्रुतकनकजगिरिपरिमिलदुदधि-
प्रचलितलहरिवदहमहमिकया ।
स्नपयति जनमिममपहरति तमः
फणिशयमरकतमणिकिरणगणः ॥ ८६ ॥

भोगीन्द्रनिःश्वसित सौरभवर्धितं श्री
नित्यानुषक्तपरमेश्वरभावगन्धि ।
सौरभ्यमाप्लुतदिशावधि रङ्गनेतुः
आनन्दसम्पदि निमज्जयते मनांसि ॥ ८७ ॥

रङ्गभर्तुरपि लोचनचर्चां साहसावलिषु लेखयमानम् ।
पुष्पहास इति नाम दुहानं सौकुमार्यमतिवाङ्मनसं नः ॥ ८८ ॥

एकैकस्मिन्परमवयवेऽनन्तसौन्दर्यमग्नं
सर्वं द्रक्ष्ये कथमिति मुधा मामथा मन्दचक्षुः ।
त्वां सौभ्रात्रव्यतिकरकरं रङ्गराजाङ्गकानां
तल्लावण्यं परिणमयिता विश्वपारीणवृत्ति ॥ ८९ ॥

वपुर्मन्दारस्य प्रथमकुसुमोल्लाससमयः
क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु ।
विकासः सौन्दर्यस्रजि रसिकताशीधुचुलको
युवत्वं रङ्गेन्दोः सुरभयति नित्यं सुभगताम् ॥ ९० ॥

किरीटचूडरत्नराजिराधिराज्यजल्पिका ।
मुखेन्दुकान्तिरुन्मुखं तरङ्गितेव रङ्गिणः ॥ ९१ ॥

शिखारत्नोद्दीप्रं दिशि दिशि च माणिक्यमकरी-
लसच्छृङ्गं रङ्गप्रभुमणिकिरीटं मनुमहे ।
समुत्तुङ्गस्फीतं चिदचिदधिराजश्रिय इव
प्रियाक्रीडं चूडामणिमपि नितम्बं तमभितः ॥ ९२ ॥

विहरतु मयि रङ्गिनश्चूलिकाभ्रमरकतिलकोर्ध्वपुण्ड्रोज्ज्वलम् ।
मुखममृततटाकचन्द्राम्बुजस्मयहरशुचिमुग्धमन्दस्मितम् ॥ ९३ ॥

मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाश्च केसरसमाः समौक्तिकाः ।
इह रङ्गभर्तुरभियन्मधुव्रतप्रकरश्रियं भ्रमरकाणि बिभ्रति ॥ ९४ ॥

हृदयं प्रसादयति रङ्गपतेर्मधुरोर्ध्वपुण्ड्रतिलकं ललितम् ।
अलिकार्धचन्द्रदलसंवलिताममृतस्रुतिं यदभिशङ्कयते ॥ ९५ ॥

सरसीरुहे समवनाम्य मदादुपरि प्रनृत्यदलिपङ्क्तिनिभे ।
स्फुरतो भ्रुवावुपरि लोचनयोः सविलासलास्यगति रङ्गभृतः ॥ ९६ ॥

स्मरशरनलिनभ्रमान्नेत्रयोः परिसरनमदिक्षुचापच्छवि ।
युगमुदयति रङ्गभर्तुर्भ्रुवोः गुरुकुलमिव शार्ङ्गनृत्तश्रियः ॥ ९७ ॥

कृपया परया करिष्यमाणे सकलाङ्गं किल सर्वतोऽक्षि नेत्रे ।
प्रथमं श्रवसी समास्तृणाते इति दैर्घ्येण विदन्ति रङ्गनेतुः ॥ ९८ ॥

श्रवोनासारोधात्तदवधिकडोलायितगते
विशालस्फीतायद्रुचिरशिशिराताम्रधवले ।
मिथो बद्धस्पर्धस्फुरितशफरद्वन्द्वललिते
क्रियास्तां श्रीरङ्गप्रणयिनयनाब्जे मयि दयाम् ॥ ९९ ॥

करुणामृतकूलमुद्वहैष प्रणमत्स्वागतिकी प्रसन्नशीता ।
मयि रङ्गधनोपकर्णिकाऽक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिः स्तात् ॥ १०० ॥

विलसति नासा कल्पकवल्ली मुग्धेव रङ्गनिलयस्य ।
स्मितमपि तन्नवकुसुमं चुबुककपोलं च पल्लवोल्लसितम् ॥ १०१ ॥

नयनशफरिविद्धौ कर्णपाशावरुद्धौ
रुष इव लुठतोऽर्चिर्मञ्जरीरुद्गिरन्तौ ।
परिमिलदलकालीशैवलामंसवेलां
अनुमणिमकरोद्धौ रङ्गधुर्यामृताब्धेः ॥ १०२ ॥

अधरमधुराम्भोजं तत्कर्णपाशमृणालिका-
वलयमभि मामास्तां रङ्गेन्दुवक्त्रसरश्चिरम् ।
नयनशफरं नासाशैवालवल्लरि कर्णिका-
मकरमलकश्रेणीपर्यन्तनीलवनावलि ॥ १०३ ॥

रमयतु स मां कण्ठः श्रीरङ्गनेतुरुदञ्चित-
क्रमुकतरुणग्रीवाकम्बुप्रलम्बमलिम्लुचः ।
प्रणयविलगल्लक्ष्मीविश्वम्भराकरकन्दली-
कनकवलयक्रीडासङ्क्रान्तरेख इवोल्लसन् ॥ १०४ ॥

अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमला-
करेणोरालाने अरिकरिघटोन्माथमुसलौ ।
फणीन्द्रस्फीतस्रग्व्यतिकरितसन्दिग्धविभवौ
भुजौ मे भूयास्तामभयमभि रङ्गप्रणयिनः ॥ १०५ ॥

प्रतिजलधितो वेलाशय्यां विभीषणकौतुकात्
पुनरिव पुरस्कर्तुं श्रीरङ्गिणः फणिपुङ्गवे ।
समुपदधतः कञ्चित्कञ्चित्प्रसारयतो भुज-
द्वयमपि सदा दानश्रद्धालु दीर्घमुपास्महे ॥ १०६ ॥

कुसुमभरालसौ स्फटिकवेदिशयौ विटपा-
वमरतरोः परं परिहसत्पृथु रङ्गभुजः ।
बहुमणिमुद्रिकाकनककङ्कणदोर्वलयैः
किसलयि दोर्द्वयं फणिनि निर्भरसुप्तमिमः ॥ १०७ ॥

मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे
शार्ङ्गज्याकिणकर्कशिम्नि सुमनस्स्रङ्मोहने मार्दवे ।
दोर्द्वन्द्वं बहुशः प्रलोभ्य कमलालीलोपधानं भवत्
तच्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसङ्गिनः ॥ १०८ ॥

भवार्तानां वक्त्रामृतसरसि मार्गं दिशदिव
स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव ।
कराम्भोजं पङ्केरुहवनरुषा पाटलमिव
श्रयामि श्रीरङ्गेशयितुरुपधानीकृतमहम् ॥ १०९ ॥

किरीटं श्रीरङ्गेशयितुरुपधानीकृतभुजः
विधीशाधीशत्वाद्धटत इति संस्पृश्य वदति ।
निहीनानां मुख्यं शरणमिति बाहुस्तदितरः
स्फुटं ब्रूते पादाम्बुजयुगलमाजानुनिहितः ॥ ११० ॥

मलयजशशिलिप्तं मालतीदामतल्पं
सुमणिसरवितानं कौस्तुभस्वस्तिदीपम् ।
दनुजवृषविषाणोल्लेखचित्रं च लक्ष्मी-
ललितगृहमुपासे रङ्गसर्वंसहोरः ॥ १११ ॥

हारस्फारितफेनमंशुलहरीमालर्द्धि मुक्ताफल-
श्रेणीशीकरदुर्दिनं तत इतो व्याकीर्णरत्नोत्करम् ।
आविःकौस्तुभलक्ष्मि रङ्गवसतेर्निस्सीमभूमाद्भुतं
वक्षो मन्दरमथ्यमानजलधिश्लाघं विलोकेमहि ॥ ११२ ॥

वक्षःस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती
सर्वेशत्वं कथयतितरां रङ्गधाम्नस्तदास्ताम् ।
कूर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदा-
नद्धा मौग्ध्याभरणमधिकं नः समाधिं धिनोति ॥ ११३ ॥

कियान्भरो मम जगदण्डमण्डली-
त्यतृप्तितः कृशितमिवोदरं विभोः ।
रिरक्षिषोचितजगतीपरम्परां
परामिव प्रथयति नाभिपङ्कजम् ॥ ११४ ॥

त्रिविधचिदचिद्वृन्दं तुन्दावलम्बिवलित्रयं
विगणयदिवैश्वर्यं व्याख्याति रङ्गमहेशितुः ।
प्रणतवशतां ब्रूते दामोदरत्वकरः किणः
तदुभयगुणाकृष्टं पट्टं किलोदरबन्धनम् ॥ ११५ ॥

त्रयो देवास्तुल्यास्त्रितयमिदमद्वैतमधिकं
त्रिकादस्मात्तत्त्वं परमिति वितर्कान् विघटयन् ।
विभोर्नाभीपद्मो विधिशिवनिदानं भगवतः
तदन्यद्भ्रूभङ्गीपरवदिति सिद्धान्तयति नः ॥ ११६ ॥

गर्भे कृत्वा गोप्तुमनन्तं जगदन्त-
र्मज्जद्भ्रम्या वाञ्छति साम्यं ननु नाभिः ।
उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्भ्रमिभूयं
नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७ ॥

मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकराभिरूप्यदर्पम् ।
स्फुटमिव परिभूय गर्वगुर्वोः किमुपमिमीमहि रङ्गकुञ्जरोर्वोः ॥ ११८ ॥

See Also  Vijnanashataka By Bhartrihari In Telugu

कटीकान्तिसंवादिचातुर्यनीवीलसद्रत्नकाञ्चीकलापानुलेपम् ।
महाभ्रं लिहन्मेरुमाणिक्यसानूरिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९ ॥

भर्मस्थलांशुपरिवेष इवाम्बुराशेः
सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य ।
शम्पाकदम्बकमिवाम्बुमुचो मना नः
पीताम्बरं पिबति रङ्गधुरन्धरस्य ॥ १२० ॥

वैभूषण्यां कान्तिराङ्गी निमग्ना विष्वद्रीची क्वापि सोन्मादवृत्तिः ।
जाने जानुद्वन्द्ववार्ताविवर्तो जातः श्रीमद्रङ्गतुङ्गालयस्य ॥ १२१ ॥

श्रीरङ्गेशयजङ्घे श्रीभूम्यामर्शहर्षकण्टकिते ।
तत्केलिनलिनमांसलनालद्वयललितमाचरतः ॥ १२२ ॥

वन्दारुवृन्दारकमौलिमालायुञ्जानचेतः कमलाकरेभ्यः ।
सङ्क्रन्तरागाविव पादपद्मौ श्रीरङ्गभर्तुर्मनवै नवै च ॥ १२३ ॥

यद्वृन्दावनपण्डितं दधिरवैर्यत्ताण्डवं शिक्षितं
यल्लक्ष्मीकरसौख्यसाक्षि जलजप्रस्पर्धमानर्द्धि यत् ।
यद्भक्तेष्वजलस्थलज्ञमपि यद्दूत्यप्रसङ्गोत्सुकं
तद्विष्णोः परमं पदं वहतु नः श्रीरङ्गिणो मङ्गलम् ॥ १२४ ॥

शिञ्जानश्रुतिशिञ्जिनीमणिरवैर्वज्रारविन्दध्वज-
च्छत्रीकल्पकशङ्खचक्रमुकुरैस्स्तैस्तैश्च रेखामयैः ।
ऐश्वर्येण जयं त्रिविक्रममुखं घुष्यद्भिराम्रेडितं
श्रीरङ्गेशयपादपङ्कजयुगं वन्दामहे सुन्दरम् ॥ १२५ ॥

पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गुली
झलज्झलितजाह्नवीलहरिवृन्दसन्देहदाः ।
दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुम-
प्रवालनवमञ्जरीः नखरुचीर्विगाहेमहि ॥ १२६ ॥

श्रीरङ्गेन्दोः पदकिसलये नीलमञ्जीरमैत्र्या
वन्दे वृन्तप्रणयिमधुपव्रातराजीवजैत्रे ।
नित्याभ्यर्चानतविधिमुखस्तोमसंशय्यमानैः
हेमाम्भोजैर्निबिडनिकटे रामसीतोपनीतैः ॥ १२७ ॥

इति श्रीरङ्गराजस्तवे पूर्वशतकं समाप्तम् ।

अथ श्रीरङ्गराजस्तवे उत्तरशतकम् ।

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः ।
श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥

हर्तुं तमस्सदसती च विवेक्तुमीशो
मानं प्रदीपमिव कारुणिको ददाति ।
तेनावलोक्य कृतिनः परिभुञ्जते तं
तत्रैव केऽपि चपलाश्शलभीभवन्ति ॥ १ ॥

या वेदबाह्याः स्मृतयोऽर्हदादेर्वेदेषु याः काश्च कुदृष्टयः ।
var कुदृष्टयस्ताः?
आगस्कृतां रङ्गनिधे त्वदध्वन्यन्धङ्करण्यः
स्मृतवान् मनुस्तत् ॥ २ ॥

प्रत्यक्षप्रमथनपश्यतोहरत्वा-
न्निर्दोषश्रुतिविमतेश्च बाह्यवर्त्म ।
दुस्तर्कप्रभवतया च वक्तृदोष-
स्पृष्ट्या च प्रजहति रङ्गविन्द वृद्धाः ॥ ३ ॥

अवयवितयेदङ्कुर्वाणैर्बहिष्करणैर्वपु-
र्निरवयवकोऽहङ्कारार्हः पुमान् करणातिगः ।
स्फुरति हि जनाः प्रत्यासत्तेरिमौ न विविञ्चते
तदधिकुरुतां शास्त्रं रङ्गेश ते परलोकिनि ॥ ४ ॥

प्रत्यक्षा श्रुतिरर्थधीश्च न तथा दोषस्तदर्थः
पुनर्धर्माधर्मपरावरेश्वरमुखः प्रत्यक्षबाध्यो न च ।
तच्चार्वाकमतेऽपि रङ्गरमण प्रत्यक्षवत् सा प्रमा
योगोन्मीलितधीस्तदर्थमथवा प्रत्यक्षमीक्षेत सः ॥ ५ ॥

न सदसदुभयं वा नोभयस्माद्बहिर्वा जगदिति
न किलैकां कोटिमाटीकते तत् ।
इति निरुपधि सर्वं सर्विकातो निषेधन्
वरद सुगतपाशश्चोरलावं विलाव्यः ॥ ६ ॥

प्रतीतिश्चेदिष्टा न निखिलनिषेधो यदि न को
निषेद्धाऽतो नेष्टो निरुपधिनिषेधस्सदुपधौ ।
निषेधेऽन्यत्सिध्येद्वरद घटभङ्गे शकलवत्
प्रमाशून्ये पक्षे श्रुतिरपि मतेऽस्मिन्विजयताम् ॥ ७ ॥

योगाचारो जगदपलपत्यत्र सौत्रान्तिकस्त-
द्धीवैचित्र्यादनुमितिपदं वक्ति वैभाषिकस्तु ।
प्रत्यक्षं तत्क्षणिकयति ते रङ्गनाथ त्रयोऽपि
ज्ञानात्मत्वक्षणभिदुरते चक्षते तान् क्षिपामः ॥ ८ ॥

जगद्भङ्कुरं भङ्गुरा बुद्धिरात्मेत्यसद्वेत्त्रभावे
तथा वेद्यवित्त्योः ।
क्षणध्वंसतश्च स्मृतिप्रत्यभिज्ञादरिद्रं
जगत्स्यादिदं रङ्गचन्द्र ॥ ९ ॥

अहमिदमभिवेद्मीत्यात्मवित्त्योर्विभेदे
स्फुरति यदि तदैक्यं बाह्यमप्येकमस्तु ।
प्रमितिरपि मृषा स्यान्मेयमिथ्यात्ववादे
यदि तदपि सहेरन् दीर्घमस्मन्मतायुः ॥ १० ॥

एतद्रामास्त्रं दलयतु कलिर्ब्रह्ममीमांसकांश्च
ज्ञप्तिर्ब्रह्मैतज्ज्वलदपि निजाविद्यया बम्भ्रमीति ।
तस्य भ्रान्तिं तां श्लथयति जिताद्वैतविद्यस्तु जीवो
यद्यद्दृश्यं तद्वितथमिति ये ज्ञापयाञ्चक्रुरज्ञाः ॥ ११ ॥

अङ्गीकृत्य तु सप्तभङ्गिकुसृतिं स्यादस्तिनास्त्यात्मिकां
विश्वं त्वद्विभवं जगज्जिनमते नैकान्तमाचक्षते ।
भिन्नाभिन्नमिदं तथा जगदुषे वन्ध्या ममाम्बेतिव-
न्नूत्नब्रह्मविदे रहः परमिदं रङ्गेन्द्र ते चक्षताम् ॥ १२ ॥

कणचरचरणाक्षौ भिक्षमाणौ कुतर्कैः
श्रुतिशिरसि सुभिक्षं त्वज्जगत्कारणत्वम् ।
अणुषु विपरिणाम्य व्योमपूर्वं च कार्यं
तव भवदनपेक्षं रङ्गभर्तर्ब्रुवाते ॥ १३ ॥

वेदे कर्त्राद्यभावाद्बलवति हि नयैस्त्वन्मुखे नीयमाने
तन्मूलत्वेन मानं तदितरदखिलं जायते रङ्गधामन्
तस्मात्साङ्ख्यं सयोगं सपशुपतिमतं कुत्रचित्पञ्चरात्रं
सर्वत्रैव प्रमाणं तदिदमवगतं पञ्चमादेव वेदात् ॥ १४ ॥

सञ्चष्टे नेश्वरं त्वां पुरुषपरिषदि न्यस्य यद्वाऽऽन्यपर्यात्
साङ्ख्यो योगी च काक्वा प्रतिफलनमिवैश्वर्यमूचे कयाचित् ।
भिक्षौ शैवस्सुराजम्भवमभिमनुते रङ्गराजातिरागात्
त्वां त्वामेवाभ्यधास्त्वं ननु परविभवव्यूहनाढ्यम्भविष्णुम् ॥ १५ ॥

इति मोहनवर्त्मना/वर्ष्मणा त्वयाऽपि ग्रथितं बाह्यमतं तृणाय मन्ये ।
अथ वैदिकवर्मवर्मितानां मनिताहे कुदृशां किमीश वर्त्म ॥ १६ ॥

संस्कारं प्रतिसञ्चरेषु निदधत्सर्गेसु तत्स्मारितं
रूपं नाम च तत्तदर्हनिवहे व्याकृत्य रङ्गास्पद ।
सुप्तोद्बुद्धविरिञ्चपूर्वजनतामध्याप्य तत्तद्धितं
शासन्नस्मृतकर्तृकान् वहसि यद्वेदाः प्रमाणं ततः ॥ १७ ॥

शीक्षायां वर्णशिक्षा पदसमधिगमो व्याक्रियानिर्वचोभ्यां
छन्दश्छन्दश्चितौ स्याद्गमयति समयं ज्यौतिषं रङ्गनाथ ।
कल्पेऽनुष्ठानमुक्तं ह्युचितगमितयोर्न्यायमीमांसयोस्स्यात्
अर्थव्यक्तिः पुराणस्मृतिषु तदनुगास्त्वां विचिन्वन्ति वेदाः ॥ १८ ॥

आदौ वेदाः प्रमाणं स्मृतिरुपकुरुते सेतिहासैः पुराणैः
न्यायैस्सार्धं त्वदर्चाविधिमुपरि परक्षीयते पूर्वभागः ।
ऊर्ध्वो भागत्स्वदीहागुणविभवपरिज्ञापनैस्त्वत्पदाप्तौ
वेद्यो वेदैश्च सर्वैरहमिति भगवन् स्वेन च व्याचकर्थ ॥ १९ ॥

क्रिया तच्छक्तिर्वा किमपि तदपूर्वं पितृसुर-
प्रसादो वा कर्तुः फलद इति रङ्गेश कुदृशः ।
त्वदर्चेष्टापूर्ते फलमपि भवत्प्रीतिजमिति
त्रयीवृद्धास्तत्तद्विधिरपि भवत्प्रेरणमिति ॥ २० ॥

आज्ञा ते सनिमित्तनित्यविधयः स्वर्गादिकाम्यद्विधिः
सोऽनुज्ञा शठचित्तशास्त्रवशतोपायोऽभिचारश्रुतिः ।
सर्वीयस्य समस्तशासितुरहो श्रीरङ्गसर्वस्व ते
रक्षाकूतनिवेदिनी श्रुतिरसौ त्वन्नित्यशास्तिस्ततः ॥ २१ ॥

अत्रास्ते निधिरितिवत्पुमर्थभूते सिद्धार्था अपि गुणरूपवृत्तवादाः ।
रङ्गेश त्वयि सकलास्समन्वयन्ते नोपासाफलविधिभिर्विशेष एषाम् ॥ २२ ॥

देहो देहिनि कारणे विकृतयो जातिर्गुणाः कर्म च
द्रव्ये निष्ठितरूपबुद्धिवचनास्तात्स्थ्यात् तथेदं जगत् ।
विश्वं त्वय्यभिमन्यसे जगदिषे तेनाद्वितीयस्ततः
मायोपाधिविकारसङ्करकथा का नाम रङ्गेश्वर ॥ २३ ॥

स्थित्युत्पत्तिप्रवृत्तिग्रसननियमनव्यापनैरात्मनस्ते
शेषोऽशेषः प्रपञ्चो वपुरिति भवतस्तस्य चाभेदवादाः ।
सर्वं खल्वैतदात्म्यं सकलमिदमहं तत्त्वमस्येवमाद्याः
व्याख्याता रङ्गधामप्रवण विजयिभिर्वैदिकैस्सार्वभौमैः ॥ २४ ॥

सराजकमराजकं पुनरनेकराजं तथा
यथाभिमतराजकं जगदिदं जजल्पुर्जडाः ।
जगाववशचित्रतातरतमत्वतर्काङ्गिका
श्रुतिश्चिदचिती त्वया वरद नित्यराजन्वती ॥ २५ ॥

ब्रह्माद्यास्सृज्यवर्गे भ्रुकुटिभटतयोद्घाटिता नावतार-
प्रस्तावे तेन न त्वं न च तव सदृशा विश्वमेकातपत्रम् ।
लक्ष्मीनेत्रा त्वयेति श्रुतिमुनिवचनैस्त्वत्परैरर्पयामः
श्रीरङ्गाम्भोधिचन्द्रोदय जलमुचितं वादिकौतस्कुतेभ्यः ॥ २६ ॥

दोषोपधावधिसमातिशयानसङ्ख्या
निर्लेपमङ्गलगुणौघदुघाष्षडेताः ।
ज्ञानैश्वरीशकनवीर्यबलार्चिषस्त्वां
रङ्गेश भास इव रत्नमनर्घयन्ति ॥ २७ ॥

युगपदनिशमक्षैः स्वैः स्वतो वाऽऽक्षकार्ये
नियममनियमं वा प्राप्य रङ्गाधिराज ।
करतलवदशेषं पश्यसि स्वप्रकाशं
तदवरणममोघं ज्ञानमाम्नासिषुस्ते ॥ २८ ॥

नयनश्रवणो दृशा श‍ृणोषि अथ ते रङ्गपते महेशितुः ।
करणैरपि कामकारिणः घटते सर्वपथीनमीक्षणम् ॥ २९ ॥

सार्वज्ञ्येनाज्ञमूलं जगदभिदधतो वारितास्साक्षिमात्रात्
साङ्ख्योक्तात्कारणं त्वां परयति भगवन्नैश्वरी रङ्गशायिन्
अप्रेर्योऽन्यैः स्वतन्त्रोऽप्रतिहति सदसत्कर्मचैत्र्या विचित्रं
यत्रेच्छालेशतस्त्वं युगपदगणयन् विश्वमाविश्चकर्थ ॥ ३० ॥

कार्येऽनन्ते स्वतनुमुखतस्त्वामुपादानमाहुः
सा ते शक्तिस्सुकरमितरच्चेति वेलां विलङ्घ्य ।
इच्छा यावद्विहरति सदा रङ्गराजानपेक्षा
सैवैशानादतिशयकरि सोर्णनाभौ विभाव्या ॥ ३१ ॥

स्वमहिमस्थितिरीश भृशक्रियोऽप्यकलितश्रम एव बिभर्षि यत् ।
वपुरिव स्वमशेषमिदं बलं तव पराश्रितकारणवारणम् ॥ ३२ ॥

मृगनाभिगन्ध इव यत्सकलार्थान् निजसन्निधेरविकृतो विकृणोषि ।
प्रियरङ्ग वीर्यमिति तत्तु वदन्ते सविकारकारणमितो विनिवार्यम् ॥ ३३ ॥

सहकार्यपेक्षमपि हातुमिह तदनपेक्षकर्तृता ।
रङ्गधन जयति तेज इति प्रणतार्तिजित् प्रतिभटाभिभावुकम् ॥ ३४ ॥

मर्त्यौत्थायं विरिञ्चावधिकमुपरि चोत्प्रेक्ष्य मीमांसमाना
रङ्गेन्द्रानन्दवल्ली तव गुणनिवहं यौवनानन्दपूर्वम् ।
न स्वार्थं स्प्रष्टुमीष्टे स्खलति पथि परं मूकलायं निलिल्ये
हन्तैवं त्वद्गुणानामवधिगणनयोः का कथा चित्तवाचोः ॥ ३५ ॥

न्यधायिषत ये गुणा निधिनिधायमारण्यकेष्वमी
म्रदिमचातुरीप्रणतचापलक्षान्तयः ।
दयाविजयसौन्दरीप्रभृतयोऽपि रत्नौघवत्
जगद्व्यवहृतिक्षमा वरद रङ्गरत्नापणे ॥ ३६ ॥

यमाश्रित्यैवात्मम्भरय इव ते सद्गुणगणाः
प्रथन्ते सोऽनन्तस्ववशघनशान्तोदितदशः ।
त्वमेव त्वां वेत्थ स्तिमितवितरङ्गं वरद भोः
स्वसंवेद्यस्वात्मद्वयसबहुलानन्दभरितम् ॥ ३७ ॥

आघ्रायेश्वरगन्धमीशसदृशं मन्यास्तवेन्द्रादयो
मुह्यन्ति त्वमनाविलो निरवधेर्भूम्नः कणेहत्य यत् ।
चित्रीयेमहि नात्र रङ्गरसिक त्वं त्वन्महिम्नः परः
वैपुल्यान्महितः स्वभाव इति वा किन्नाम सात्म्यं न ते ॥ ३८ ॥

षाड्गुण्याद्वासुदेवः पर इति स भवान् मुक्तभोग्यो बलाढ्यात्
बोधात् सङ्कर्षणस्त्वं हरति वितनुषे शास्त्रमैश्वर्यवीर्यात् ।
प्रद्युम्नस्सर्गधर्मौ नयसि च भगवञ्च्छक्तितेजोऽनिरुद्धः
बिभ्राणः पासि तत्त्वं गमयसि च तथा व्यूह्य रङ्गाधिराज ॥ ३९ ॥

जाग्रत्स्वप्नात्यलसतुरीयप्रायध्यातृक्रमवदुपास्यः ।
स्वामिंस्तत्तत्सहपरिबर्हः चातुर्व्यूहं वहसि चतुर्धा ॥ ४० ॥

अचिदविशेषितान् प्रलयसीमनि संसरतः
करणकळेबरैर्घटयितुं दयमानमनाः ।
वरद निजेच्छयैव परवानकरोः प्रकृतिं
महदभिमानभूतकरणावलिकोरकिणीम् ॥ ४१ ॥

निम्नोन्नतं च करुणं च जगद्विचित्रं
कर्म व्यपेक्ष्य स्र्जतस्तव रङ्गशेषिन् ।
वैषम्यनिर्घृणतयोर्न खलु प्रसक्तिः
तद्ब्रह्मसूत्रसचिवाः श्रुतयो गृणन्ति ॥ ४२ ॥

स्वाधीने सहकारिकारणगणे कर्तुश्शरीरेऽथवा
भोक्तुः स्वानुविधापराधविधयोः राज्ञो यथा शासितुः ।
दातुर्वाऽर्थिजने कटाक्षाणमिव श्रीरङ्गसर्वस्व ते
स्रष्टुस्सृज्यदशाव्यपेक्षणमपि स्वातन्त्र्यमेवावहेत् ॥ ४३ ॥

प्रलयसमयसुप्तं स्वं शरीरैकदेशं
वरद चिदचिदाख्यं स्वेच्छया विस्तृणानः ।
खचितमिव कलापं चित्रमातत्य धून्वन्
अनुशिखिनि शिखीव क्रीडसि श्रीसमक्षम् ॥ ४४ ॥

भूयो भूयस्त्वयि हितपरेऽप्युत्पथानात्मनीन-
स्रोतोमग्नानपि पथि नयंस्त्वं दुराशावशेन ।
रुग्णे तोके स्व इव जननि तत्कषायं पिबन्ती
तत्तद्वर्णश्रमविधिवशः क्लिश्यसे रङ्गराज ॥ ४५ ॥

See Also  Brihadambarya Shatakam In Tamil

सार्व त्वत्कं सकलचरितं रङ्गधामन् दुराशा-
पाशेभ्यस्स्यान्न यथि जगतां जातु मूर्खोत्तराणाम् ।
निस्तन्द्रालोस्तव नियमतो नर्तुलिङ्गप्रवाहा
सर्गस्थेमप्रभृतिषु सदाजागरा जाघटीति ॥ ४६ ॥

सुहृदिव निगलाद्यैरुन्मदिष्णुं नृशंसं
त्वमपि निरयपूर्वैर्दण्दयन् रङ्गनेतः ।
तदितरमपि बाधात्त्रायसे भोगमोक्ष-
प्रदिरपि तव दण्डापूपिकातस्सुहृत्त्वम् ॥ ४७ ॥

धृतिनियमनरक्षावीक्षणैश्शास्त्रदान-
प्रमृतिभिरचिकित्स्यान् प्राणिनः प्रेक्ष्य भूयः ।
सुरमनुजतिरश्चां सर्वथा तुल्यधर्मा
त्वमवतरसि देवोऽजोऽपि सन्नव्ययात्मा ॥ ४८ ॥

अनुजनुरनुरूपरूपचेष्टा न यदि समागममिन्दिराऽकरिष्यत् ।
असरसमथवाऽप्रियम्भविष्णु ध्रुवमकरिष्यत रङ्गराजनर्म ॥ ४९ ॥

गरीयस्त्वं परिजानन्ति धीराः परं भावं मनुजत्वादिभूष्णुम् ।
अजानन्तस्त्ववजानन्ति मूढाः जनिघ्नं ते भगवञ्जन्म कर्म ॥ ५० ॥

मध्येविरिञ्चगिरिशं प्रथमावतारः
तत्साम्यतः स्थगयितुं तव चेत्स्वरूपम् ।
किं ते परत्वपिशुनैरिह रङ्गधामन्
सत्त्वप्रवर्तनकृपापरिपालनाद्यैः ॥ ५१ ॥

मधुः कैटभश्चेति रोधं विधूय त्रयीदिव्यचक्षुर्विधातुर्विधाय ।
स्मरस्यङ्ग रङ्गिस्तुरङ्गावतारः समस्तं जगज्जीवयिष्यस्यकस्मात् ॥ ५२ ॥

रङ्गधे तिमिरघस्मरशीतस्वच्छहंसतनुरिन्दुरिवोद्यन् ।
वेदभाभिरनुजग्रहिथाऽऽर्तान् ज्ञानयज्ञसुधयैव समृद्ध्यन् ॥ ५३ ॥

वटदलमधिशय्य रङ्गधामन् शयित इवार्णवतर्णकः पदाब्जम् ।
अधिमुखमुदरे जगन्ति मातुं निदधिथ वैष्णवभोग्यलिप्सया वा ॥ ५४ ॥

उन्मूल्याहर मन्दराद्रिमहिना तं सम्बधानामुना
दोर्भिश्चञ्चलमालिकैश्च दधिनिर्माथं मथानाम्बुधिम् ।
श्रीरङ्गेश्वर चन्द्रकौस्तुभसुधापूर्वं गृहाणेति ते
कुर्वाणस्य फलेग्रहिर्हि कमलालाभेन सर्वः श्रमः ॥ ५५ ॥

देवीहस्ताम्बुजेभ्यश्चरणकिसलये संवहद्भ्योऽपहृत्य
प्रत्यस्यानन्तभोगं झतिति चलपुटे चक्षुषि विस्तृणानः ।
आक्षिप्योरश्च लक्ष्म्याः स्तनकलशकनत्कुङ्कुमस्तोमपङ्का-
द्देवः श्रीरङ्गधामा गजपतिघुषिते व्याकुलः स्तात् पुरो नः ॥ ५६ ॥

अतन्त्रितचमूपतिप्रहितहस्तमस्वीकृत
प्रणीतमणिपादुकं किमिति चाकुलान्तः पुरम् ।
अवाहनपरिष्क्रियं पतगराजमारोहतः
करिप्रवरबृम्हिते भगवतस्त्वरायै नमः ॥ ५७ ॥

यं पश्यन्विश्वधुर्यां धियमसकृदथो मन्थरां मन्यमानः
हुङ्कारास्फालनाङ्घ्रिप्रहतिभिरपि तं तार्क्ष्यमध्यक्षिपस्त्वम् ।
किञ्चोदञ्चन्नुदस्थास्तमथ गजपतेर्बृम्हिते जृम्भमाणे
देव श्रीरङ्गबन्धो प्रणमति हि जने कान्दिशीकी दशा ते ॥ ५८ ॥

श्रीरङ्गेशय शरणं ममासि वात्याव्यालोलत्कमलतटाकताण्डवेन ।
स्रग्भूषाम्बरमयथायथं दधानः धिङ्मामित्यनुगजगर्जमाजगन्थ ॥ ५९ ॥

मीनतनुस्त्वं नावि निधाय स्थिरचरपरिकरमनुमनु भगवन्
वेदसनाभिस्वोक्तिविनौदैरकलितलयभयलवममुमवहः ॥ ६० ॥

श्रीनयनाभोद्भासुरदीर्घप्रविपुलसुरुचिरशुचिशिशिरवपुः ।
पक्षनिगीर्णोद्गीर्णमहाब्धिस्थलजलविहरणरतगतिरचरः ॥ ६१ ॥

चकर्थ श्रीरङ्गिन्निखिलजगदाधारकमठो
भवन् धर्मान् कूर्मः पुनरमृतमन्थाचलधरः ।
जगन्थ श्रेयस्त्वं मरकतशिलापीठललितं
जलादुद्यल्लक्ष्मीपदकिसलयन्याससुलभम् ॥ ६२ ॥

हृदि सुररिपोर्दंष्ट्रोत्खाते क्षिपन् प्रलयार्णवं
क्षितिकुचतटीमर्चन् दैत्यास्रकुङ्कुमचर्चया ।
स्फुटधुतसटाभ्राम्यद्ब्रह्मस्तवोन्मुखबृम्हितः
शरणमसि मे रङ्गिस्त्वं मूलकोलतनुर्भवन् ॥ ६३ ॥

नृहरिदशयोः पश्यन्नौत्पत्तिकं घटनाद्भुतं
नरमुत हरिं दृष्ट्वैकैकं समुद्विजते जनः ।
इति किल सिताक्षीरन्यायेन सङ्गमिताङ्गकं
स्फुटसटमहादम्ष्ट्रं रङ्गेन्द्रसिम्हमुपास्महे ॥ ६४ ॥

द्विषाणद्वेषोद्यन्नयनवनवह्निप्रशमन
भ्रमल्लक्ष्मीवक्त्रप्रहितमधुगण्डूषसुषमैः
नखक्षुण्णारातिक्षतजपटलैराप्लुतसटा-
च्छटास्कन्धो रुन्धे दुरितमिह पुंस्पञ्चवदनः ॥ ६५ ॥

नखाग्रग्रस्तेऽपि द्विषति निजभक्तद्रुहि रूषः
प्रकर्षाद्विष्णुत्वद्विगुणपरिणाहोत्कटतनुः ।
विरुद्धे वैयग्रीसुघटितसमानाधिकरणे
नृसिंहत्वे बिभ्रद्वरद बिभरामासिथ जगत् ॥ ६६ ॥

दैत्यौदार्येन्द्रयाच्ञाविहतिमपनयन् वामनोऽर्थी त्वमासीः
विक्रान्ते पादपद्मे त्रिजगदणुसमं पांसुलीकृत्य लिल्ये ।
नाभीपद्मश्च मानक्षममिव भुवनग्राममन्यं सिसृक्षुः
तस्थौ रङ्गेन्द्र वृत्ते तव जयमुखरो दिण्डिमस्तत्र वेदः ॥ ६७ ॥

भवान् रामो भूत्वा परशुपरिकर्मा भृगुकुला-
दलावीद्भूपालान् पितृगणमतार्प्सीत्तदसृजा ।
भुवो भाराक्रान्तं लघु तलमुपाचीक्लृपदिति
द्विषामुग्रम्पश्योऽप्यनघ मम मा जीगणदघम् ॥ ६८ ॥

मनुजसमयं कृत्वा नाथावतेरिथ पद्मया
क्वचन विपिने सा चेदन्तर्धिनर्म विनिर्ममे ।
किमथ जलधिं बध्वा रक्षो विधीशवरोद्धतं
बलिमुखकुलोच्छिष्टं कुर्वन् रिपुं निरपत्रयः ॥ ६९ ॥ ॥ ॥।त्रपः?
यद्यूते विजयापदानगणना कालिङ्गदन्ताङ्कुरैः
यद्विश्लेषलवोऽपि कालियभुवे कोलाहलायाभवत् ।
दूत्येनापि च यस्य गोपवनिताः कृष्णागसां व्यस्मरन्
तं त्वां क्षेमकृषीबलं हलधरं रङ्गेश भक्तास्महे ॥ ७० ॥

आकण्ठवारिभरमन्थरमेघदेश्यं
पीताम्बरं कमललोचनपञ्चहेति ।
ब्रह्म स्तनन्धयमयाचत देवकी त्वां
श्रीरङ्गकान्त सुतकाम्यति काऽपरैवम् ॥ ७१ ॥

शैलोऽग्निश्च जलाम्बभूव मुनयो मूढाम्बभूवुर्जडाः
प्राज्ञामासुरगास्सगोपममृतामासुर्महाशीविषाः ।
गोव्याघ्रास्सहजाम्बभूवुरपरे त्वन्याम्बभूवुः प्रभो
त्वं तेष्वन्यतमाम्बभूविथ भवद्वेणुक्वणोन्माथने ॥ ७२ ॥

कल्कितनुर्धरणीं लघयिष्यन् कलिकलुषान् विलुनासि पुरा त्वम् ।
रङ्गनिकेत लुनीहि लुनीहीत्यखिलमरुन्तुदमद्य लुनीहि ॥ ७३ ॥

आस्तां ते गुणराशिवद्गुणपरीवाहात्मनां जन्मनां
सङ्ख्या भौमनिकेतनेष्वपि कुटीकुञ्जेशू रङ्गेश्वर ।
अर्च्यस्सर्वसहिष्णुरर्चकपराधीनाखिलात्मस्थितिः
प्रीणीषे हृदयालुभिस्तव ततश्शीलाज्जडीभूयते ॥ ७४ ॥

श्रीमद्व्योम नसीम वाङ्मनसयोस्सर्वेऽवताराः क्वचित्
काले विश्वजनीनमेतदितिधीः श्रीरङ्गधामन्यथ ।
आर्तस्वागतिकैः कृपाकलुषितैरालोकितैरार्द्रयन्
विश्वत्राणविमर्शनस्खलितया निद्रासि जागर्यया ॥ ७५ ॥

सर्गाभ्यासविशालया निजधिया जानन्ननन्तेशयं
भारत्या सहधर्मचाररतया स्वाधीनसङ्कीर्तनः ।
कल्पानेव बहून् कमण्डलुगलद्गङ्गाप्लुतोऽपूजय-
द्ब्रह्मा त्वां मुखलोचनाञ्जलिपुटैः पद्मैरिवाऽवर्जितैः ॥ ७६ ॥

मनुकुलमहीपालव्यानम्रमौलिपरम्परा-
मणिमकरिकारोचिर्नीराजिताङ्घ्रिसरोरुहः ।
स्वयमथ विभो स्वेन श्रीरङ्गधामनि मैथिली-
रमणवपुषा स्वार्हाण्याराधनान्यसि लम्भितः ॥ ७७ ॥

मन्वन्ववाये द्रुहिणे च धन्ये विभीषणेनैव पुरस्कृतेन ।
गुणैर्दरिद्राणमिमं जनं त्वं मध्येसरिन्नाथ सुखाकरोषि ॥ ७८ ॥

तेजः परं तत्सवितुर्वरेण्यं धाम्ना परेणाप्रणखात्सुवर्णाम् ।
त्वां पुण्डरीकेक्षणमामनन्ति श्रीरङ्गनाथं तमुपासिषीय ॥ ७९ ॥

आत्माऽस्य गन्तुः परितस्थुषश्च मित्रस्य चक्षुर्वरुणस्य चाग्नेः ।
लक्ष्म्या सहौत्पत्तिकगाढबन्धं पश्येम रङ्गे शरदश्शतं त्वाम् ॥ ८० ॥

यस्यास्मि पत्युर्न तमन्तरेमि श्रीरङ्गतुङ्गायतने शयानम् ।
स्वभावदास्येन च योऽहमस्मि स सन् यजे ज्ञानमयैर्मखैस्तम् ॥ ८१ ॥

आयुः प्रजानाममृतं सुराणां रङ्गेश्वरं त्वां शरणं प्रपद्ये ।
मां ब्रह्मणेऽस्मै महसे तदर्थं प्रत्यञ्चमेनं युनजै परस्मै ॥ ८२ ॥

आर्तिं तितीर्षुरथ रङ्गपते धनायन् आत्मम्भरिर्विविदिषुर्निजदास्यकाम्यन् ।
ज्ञानीत्यमून् सममथास्सममत्युदारान् गीतासु देव भवदाश्रयणोपकारान् ॥ ८३ ॥

नित्यं काम्यं परमपि कतिचित्त्वय्यध्यात्मस्वमतिभिरममाः ।
न्यस्यासङ्गा विदधति विहितं श्रीरङ्गेन्दो विदधति न च ते ॥ ८४ ॥

प्रत्यञ्चं स्वं पञ्चविंशं पराचस्सञ्चक्षाणास्तत्त्वराशेर्विविच्य ।
युञ्जानाश्चर्तम्भरायां स्वबुद्धौ स्वं वा त्वां वा रङ्गनाथाऽप्नुवन्ति ॥ ८५ ॥

अथ मृदितकषायाः केचिदाजानदास्य-
त्वरितशिथिलचित्ताः कीर्तिचिन्तानमस्याः ।
विदधति ननु पारं भक्तिनिघ्ना लभन्ते
त्वयि किल ततमे त्वं तेषु रङ्गेन्द्र किं तत् ॥ ८६ ॥

उपादत्ते सत्तास्थितिनियमनाद्यैश्चिदचितौ
स्वमुद्दिश्य श्रीमानिति वदति वागौपनिषदी ।
उपायोपेयत्वे तदिह तव तत्त्वं न तु गुणा-
वतस्त्वां श्रीरङ्गेशय शरणमव्याजमभजम् ॥ ८७ ॥

पटुनैकवराटिकेव क्लृप्ता स्थलयोः काकणिकासुवर्णकोट्योः ।
भवमोक्षणयोस्त्वयैव जन्तुः क्रियते रङ्गनिधे त्वमेव पाहि ॥ ८८ ॥

ज्ञानक्रियाभजनसम्पदकिञ्चनोऽह-
मिच्छाधिकारशकनानुशयानभिज्ञः ।
रङ्गेश पूर्णवृनश्शरणं भवेति
मौख्याद्ब्रवीमि मनसा विषयाकुलेन ॥ ८९ ॥

त्वयि सति पुरुसाहर्थे मत्परे चाहमात्म-
क्षयकरकुहनार्थाञ्छ्रद्दधद्रङ्गचन्द्र ।
जनमखिलमहम्युर्वञ्चयामि त्वदात्म-
प्रतिमभवदनन्यज्ञानिवद्देशिकस्सन् ॥ ९० ॥

अतिक्रामन्नाज्ञां तव विधिनिषेधेषु भवतेऽपि
अभिद्रुह्यन्वाग्धीकृतिभिरपि भक्ताय सततम् ।
अजानन् जानन् वा भवदसहनीयागसि रत-
स्सहिष्णुत्वाद्रङ्गप्रवण तव माभूवमभरः ॥ ९१ ॥

प्रकुपितभुजगफणानामिव विषयाणमहं छायाम् ।
सति तव भुजसुरविटपिप्रच्छाये रङ्गजीवित भजामि ॥ ९२ ॥

त्वत्सर्वशक्तेरधिकाऽस्मदादेः कीटस्य शक्तिर्बत रङ्गबन्धो ।
यत्त्वत्कृपामप्यतिकोशकारन्यायादसौ नश्यति जीवनाशम् ॥ ९३ ॥

श्रीरङ्गेश त्वद्गुणानामिवास्मद्दोषाणां कः पारदृश्वा यतोऽहम् ।
ओघे मोघोदन्यवत्त्वद्गुणानां तृष्णापूरं वर्षतां नास्मि पात्रम् ॥ ९४ ॥

त्वं चेन्मनुष्यादिषु जायमानस्तत्कर्मपाकं कृपयोपभुङ्क्षे ।
श्रीरङ्गशायिन् कुशलेतराभ्यां भूयोऽभिभूयेमहि कस्य हेतोः ॥ ९५ ॥

क्षमा सापरधेऽनुतापिन्युपेया कथं सापराधेऽपि दृप्ते मयि स्यात् ।
तथाप्यत्र रङ्गाधिनाथानुतापव्यपायं क्षमेतातिवेला क्षमा ते ॥ ९६ ॥

बलिभुजि शिशुपाले तादृगागस्करे वा
गुनलवसहवासात्त्वत्क्षमा सङ्कुचन्ती ।
मयि गुणपरमाणूदन्तचिन्तानभिज्ञे
विहरतु वरदासौ सर्वदा सार्वभौमी ॥ ९७ ॥

दया परव्यसनहरा भवव्यथा सुखायते मम तदहं दयातिगः ।
तथाऽप्यसौ सुखयति दुःखमित्यतः दयस्व मां गुणमय रङ्गमन्दिर ॥ ९८ ॥

गर्भजन्मजरामृतिक्लेशकर्मषडूर्मिगः ।
श्वेव देववषट्कृतं त्वां श्रियोऽर्हमकामये ॥ ९९ ॥

अनुकृत्य पूर्वपुम्सः रङ्गनिधे विनयडम्भतोऽमुष्मात् ।
शुन इव मम वरमृद्धेः उपभोगस्त्वद्वितीर्णायाः ॥ १०० ॥

सकृत्प्रपन्नाय तवाहमस्मीत्यायाचते चाभयदीक्षमाणम् ।
त्वामप्यपास्याहमहम्भवामि रङ्गेश विस्रम्भविवेकरेकात् ॥ १०१ ॥

तव भरोऽहमकारिषि धार्मिकैश्शरणमित्यपि वाचमुदैरिरम् ।
इति ससाक्षिकयन्निदमद्य मां कुरु भरं तव रङ्गधुरन्धर ॥ १०२ ॥

दयाऽन्येषां दुःखाप्रसहनमनन्योऽसि सकलैः
दयालुस्त्वं नातः प्रणमदपराधानविदुषः ।
क्षमा ते रङ्गेन्दो भवति न तरां नाथ न तमां
तवौदार्यं यस्मात्तव विभवमर्थिस्वममथाः ॥ १०३ ॥

गुणतुङ्गतया तव रङ्गपते भृशनिम्नमिमं जनमुन्नमय ।
यदपेक्ष्यमपेक्षितुरस्य हि तत्परिपूरणमीशितुरीश्वरता ॥ १०४ ॥

त्वं मीनपानीयनयेन कर्मधीभक्तिवैराग्यजुषो विभर्षि ।
रङ्गेश मां पासि मितम्पचं यत्पानीयशालं मरुभूषु तत्स्यात् ॥ १०५ ॥

इति श्री रङ्गराजस्तवे उत्तरशतकं समाप्तम् ।

इति श्रीपराशरभट्टविरचितं श्रीरङ्गराजस्तवं सम्पूर्णम् ।