Sri Ruchir Ashtakam 1 In Sanskrit

॥ Sri Ruchirashtakam 1 Sanskrit Lyrics ॥

॥ श्रीरुचिराष्टकम् १ ॥

सर्वत्र यः प्रकटयन् भुवि सद्गुणान् स्वान्
श्रीविठ्ठलो हरिरिह स्वयमेव योऽभूत् ।
तं नित्यकान्तमथ सर्वगुणैकरूपं
श्रीवल्लभप्रभुमहं सततं स्मरामि ॥ १ ॥

रूपामृतानि निजसेविजनाय दातुं
यः सन्दधार स हि लौकिकचारुदेहम् ।
आनन्दमात्रनिखिलावयवस्वरूपं
भूयो भजामि सुभगं भुवि गोकुलेशम् ॥ २ ॥

पुष्पोचितस्मितलसल्ललनालताभि-
रालिङ्गितं निजजनेप्सितसत्फलाढ्यम् ।
शृङ्गारकल्पतरुमत्र कमप्यनल्पं
श्रीगोकुलोदितमहं सततं भजामि ॥ ३ ॥

योषिद्भिरद्भुतमशेषहृषीकपात्रैः
पेपीयमानपरिपूर्णरसस्वरूपम् ।
ब्रह्मादिदुर्लभमनन्यजनैकलभ्यं
श्रीवल्लभं तमनिशं सुभगं भजामि ॥ ४ ॥

सौभाग्यभूमिजनितं त्रिजगद्वधूनां
लावण्यसिन्धुलहरीपरिषिक्तगात्रम् ।
शृङ्गारशेखरमनन्तयशःस्वरूपं
श्रीगोकुलेश्वरमेव सदा भजामि ॥ ५ ॥

सौन्दर्यपद्ममधुवञ्चितमानसैस्तु
संसेवितं मधुकरैः क्षितिसुन्दरीणाम् ।
आनन्दकन्दमरविन्ददलायताक्षं
तं गोकुलावनिगतं निभृतं भजामि ॥ ६ ॥

शृङ्गारसारनिजरूपरसं पदाब्जं
भृङ्गायितेभ्य इह पाययितुं जनेभ्यः ।
सौन्दर्यसीमनिकषं दधतं स्ववेशं
श्रीगोकुलेशमनिशं तमहं भजामि ॥ ७ ॥

शृङ्गारमेव वनितोत्सवमूर्मिन्तं
भाग्येन केनचिदिहावतरन्तमुर्व्याम् ।
श्रीविठ्ठलाङ्गजनुपं स्वकुलावतंसे
सन्तं भजामि सततं प्रभुगोकुलेशम् ॥ ८ ॥

इत्थं प्रभोर्निजप्रभातुलमातुलस्य
श्रीवल्लभस्य रुचिराष्टकमादरेण ।
श्रीकृष्णरायकृतमिष्टदमेतदीय-
पादारविन्दयुगलस्मरणेन जप्यम् ॥ ९ ॥

इति श्रीकृष्णरायविरचितं रुचिराष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Ruchir Ashtakam 1 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Kantimatishvari Ashtakam In English