Sri Rudra Dwadasa Nama Stotram In Sanskrit

॥ Rudra Dwadasa Nama Sthothram Sanskrit Lyrics ॥

॥ श्रीरुद्रद्वादशनामस्तोत्रं ॥
प्रथमं तु महादेवं द्वितीयं तु महेश्वरं ।
तृतीयं शङ्करं प्रोक्तं चतुर्थं वृषभध्वजम् ॥ १ ॥

पञ्चमं कृत्तिवासं च षष्ठं कामाङ्गनाशनं ।
सप्तमं देवदेवेशं श्रीकण्ठं चाष्टमं तथा ॥ २ ॥

नवमं तु हरं देवं दशमं पार्वतीपतिं ।
रुद्रमेकादशं प्रोक्तं द्वादशं शिवमुच्यते ॥ ३ ॥

एतद्वादशनामानि त्रिसन्ध्यं यः पठेन्नरः ।
गोघ्नश्चैव कृतघ्नश्च भ्रूणहा गुरुतल्पगः ॥ ४ ॥

स्त्रीबालघातकश्चैव सुरापो वृषलीपतिः ।
सर्वं नाशयते पापं शिवलोकं स गच्छति ॥ ५ ॥

शुद्धस्फटिकसङ्काशं त्रिनेत्रं चन्द्रशेखरं ।
इन्दुमण्डलमध्यस्थं वन्दे देवं सदाशिवम् ॥ ६ ॥
॥ इति श्रीरुद्रद्वादशनामस्तोत्रं समाप्तम् ॥

– Chant Stotra in Other Languages –

Sri Rudra Dwaadasanaama Stotram in Sanskrit – English –  KannadaTelugu

See Also  Shatarudriyam In English