Sri Sarasvatya Ashtakam In Sanskrit

॥ Sri Saraswati Ashtakam Sanskrit Lyrics ॥

॥ सरस्वत्यष्टकम् ॥
श्रीगणेशाय नमः ।
शतानीक उवाच ।
महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १ ॥

मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २ ॥

शौनक उवाच ।
इदमेव महाराज पृष्टवांस्ते पितामहः ।
भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः ॥ ३ ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
बृहस्पतिस्तुता देवी वागीशाय महात्मने ।
आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् ॥ ४ ॥

सरस्वत्युवाच ।
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
बृहस्पतिरुवाच ।
यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे ॥ ५ ॥

देव्युवाच ।
हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः ॥ ६ ॥

बृहस्पतिरुवाच ।
लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ७ ॥

सरस्वत्युवाच ।
त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८ ॥

इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम् ॥

See Also  Svarupanusandhana Ashtakam In Malayalam

– Chant Stotra in Other Languages –

Sri Saraswati Devi Slokam » Sri Saraswati Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil