Shachinandana Vijaya Ashtakam In Sanskrit

॥ Shachinandana Vijaya Ashtakam Sanskrit Lyrics ॥

श्रीशचीनन्दनविजयाष्टकम्
गदाधर यदा परः स किल कश्चनालोकितो
मया श्रितगयाध्वना मधुरमूर्तिरेकस्तदा ।
नवाम्बुद इव ब्रुवन् धृतनवाम्बुदो नेत्रयो-
र्लुठन् भुवि निरुद्धवाग्विजयते शचीनन्दनः ॥ १ ॥

अलक्षितचरीं हरीत्युदितमात्रतः किं दशां
असावतिबुधाग्रणीरतुलकम्पसम्पादिकाम् ।
व्रजन्नहह मोदते न पुनरत्र शास्त्रेष्विति
स्वशिष्यगणवेष्टितो विजयते शचीनन्दनः ॥ २ ॥

हा हा किमिदमुच्यते पठ पठात्र कृष्णं मुहु-
र्विना तमिह साधुतां दधति किं बुधा धातवः ।
प्रसिद्ध इह वर्णसङ्घटितसम्यगाम्नायकः
स्वनाम्नि यदिति ब्रुवन्विजयते शचीनन्दनः ॥ ३ ॥

नवाम्बुजदले यदीक्षणसवर्णतादीर्घते
सदा स्वहृदि भाव्यतां सपदि साध्यतां तत्पदम् ।
स पाठयति विस्मितान् स्मितमुखः स्वशिष्यानिति
प्रतिप्रकरणं प्रभुर्विजयते शचीनन्दनः ॥ ४ ॥

क्व यानि करवाणि किं क्व नु मया हरिर्लभ्यतां
तमुद्दिशतु कः सखे कथय कः प्रपद्येत माम् ।
इति द्रवति घूर्णते कलितभक्तकण्ठः शुचा
स मूर्च्छयति मातरं विजयते शचीनन्दनः ॥ ५ ॥

स्मरार्बुददुरापया तनुरुचिच्छटाच्छायया
तमः कलितमःकृतं निखिलमेव निर्मूलयन् ।
नृणां नयनसौभगं दिविषदां मुखैस्तारयन्
लसन्नधिधरः प्रभुर्विजयते शचीनन्दनः ॥ ६ ॥

अयं कनकभूधरः प्रणयरत्नमुच्चैः किरन्
कृपातुरतया व्रजन्नभवदत्र विश्वम्भरः ।
यदक्षि पथसञ्चरत्सुरधुनीप्रवाहैर्निजं
परं च जगदार्द्रयन्विजयते शचीनन्दनः ॥ ७ ॥

See Also  Sri Devarajashtakam In English

गतोऽस्मि मधुरां मम प्रियतमा विशाखा सखी
गता नु बत किं दशां वद कथं नु वेदानि ताम् ।
इतीव स निजेच्छया व्रजपतेः सुतः प्रापित-
स्तदीयरसचर्वणां विजयते शचीनन्दनः ॥ ८ ॥

इदं पठति योऽष्टकं गुणनिधे शचीनन्दन
प्रभो तव पदाम्बुजे स्फुरदमन्दविश्रम्भवान् ।
तमुज्ज्वलमतिं निजप्रणयरूपवर्गानुगं
विधाय निजधामनि द्रुतमुरीकुरुष्व स्वयम् ॥ ९ ॥

इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां
श्रीशचीनन्दनविजयाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Shachinandana Vijaya Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Odia » Telugu » Tamil