Sri Shyamala Panchasathsvara Varna Maalikaa Stotram In Sanskrit

॥ Sri Shyamala Panchasathsvara Varna Maalikaa Stotram in Sanskritश्री श्यामलापञ्चाशत्स्वर वर्णमालिका स्तोत्रम् ॥

॥ श्री श्यामलापञ्चाशत्स्वर वर्णमालिका स्तोत्रम् ॥
वन्देहं वनजेक्षणां वसुमतीं वाग्देवि तां वैष्णवीं
शब्द ब्रह्ममयीं शशाङ्कवदनां शातोदरीं शाङ्करीम् ।
षड्बीजां सशिवां समञ्चितपदामाधारचक्रे स्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ १ ॥

बालां भास्करभासमप्रभयुतां भीमेश्वरीं भारतीं
माणिक्याञ्चितहारिणीमभयदां योनिस्थितेयम्पदां ।
ह्रां ह्रां ह्रीं कमयीं रजस्तमहरीं लम्बीजमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ २ ॥

डं ढं णं त थमक्षरीं तव कलान्ताद्याकृतीतुर्यगां
दं धं नं नवकोटिमूर्तिसहितां नादं सबिन्दूकलां ।
पं फं मन्त्रफलप्रदां प्रतिपदां नाभौसचक्रे स्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ३ ॥

कं खं गं घ मयीं गजास्यजननीं गानप्रिया मागमीं
चं छं जं झं झण क्वणि घणु घिणू झङ्कारपादां रमां ।
ञं टं ठं हृदये स्थितां किणिकिणी नादौ करौ कङ्कणां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ४ ॥

अं आं इं इमय़ीं इहैव सुखदामीकार उऊपमां
ऋं ॠं लुं सहवर्णपीठनिलये लूङ्कार एं ऐं सदा ।
ओं औं अन्नमये अः स्तवनुतां मानन्द मानन्दिनीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ५ ॥

See Also  Sri Mukambika Stotram In English

हं क्षं ब्रह्ममयीं द्विपत्रकमलाम्भ्रूमध्यपीठे स्थितां
य़ीला पिङ्गलमध्यदेशगमनामिष्टार्थसन्दायिनीं ।
आरोह प्रतिरोहयन्त्रभरितां साक्षात्सुषुम्ना कलां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ६ ॥

ब्रह्मेशादि समस्त मौनिऋषिभिर्देवैस्सदा ध्यायिनीं
ब्रह्मस्थाननिवेशिनीं तव कलां तारं सहस्राम्शके ।
खव्यं खव्यमयीं खगेशविनुतां खं रूपिमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ७ ॥

चक्राण्ये सतु सप्तमन्तरगते वर्णात्मिके तां श्रियं
नादं बिन्दुकलामयीम्श्चरहिते निश्शब्द निर्व्यापके ।
निर्व्यक्तां च निरञ्जनीं निरवयां श्रीयन्त्रमात्रां परां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ८ ॥

बालामालमनोहरां प्रतिदिनं वाञ्छन्ति वाच्यं पठेत्
वेदे शास्त्र विवादकालसमये स्थित्वा सभामध्यमे ।
पञ्चाशत्स्वरवर्णमालिकमियां जिह्वाग्र संस्था पठे-
द्धर्मार्थाखिलकामविक्षितकृपास्सिध्यन्ति मोक्षं तथा ॥ ९ ॥

इति श्यामलापञ्चाशत्स्वरवर्णमालिका स्तोत्रं

– Chant Stotra in Other Languages –

Sri Shyamala Panchasathsvara Varna Maalikaa Stotram in English – Hindi ।KannadaTeluguTamil