Tara Shatanama Stotram In Sanskrit

॥ Sri Tara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीताराशतनामस्तोत्रम् ॥

श्रीशिव उवाच ॥

तारिणी तरला तन्वी तारा तरुणवल्लरी ।
तीररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १ ॥

तुरीया तरला तीव्रगमना नीलवाहिनी ।
उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥ २ ॥

तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी ।
उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३ ॥

द्वितीया शोभना नित्या नवीना नित्यनूतना ।
चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४ ॥

अट्टहास्या करालास्या चरास्या दितिपूजिता ।
सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५ ॥

रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।
बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६ ॥

बलप्रिया बलरता बलरामप्रपूजिता ।
अर्धकेशेश्वरी केशा केशवासविभूषिता ॥ ७ ॥

पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।
दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥ ८ ॥

वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।
माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९ ॥

इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।
गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥ १० ॥

तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।
तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥ ११ ॥

ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।
तालदानरता क्रूरतापिनी तरणिप्रभा ॥ १२ ॥

See Also  Agni Ashtottara Shatanama Stotram In Sanskrit

त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।
तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥ १३ ॥

शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।
ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४ ॥

बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी ।
रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५ ॥

इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।
श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६ ॥

य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् ।
सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥ १७ ॥

तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा ।
भवत्येव महामाये सत्यं सत्यं न संशयः ॥ १८ ॥

मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।
तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥ १९ ॥

श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् ।
सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २० ॥

सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।
एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ।
ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१ ॥

इति स्वर्णमालातन्त्रे ताराशतनामस्तोत्रं समाप्तम् ॥

– Chant Stotra in Other Languages –

Goddess Durga / Kali Slokam » Tara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil