Sri Tarananda Gurvashtakam In Sanskrit

॥ Shri Tarananda Gurvashtakam Sanskrit Lyrics ॥

॥ श्रीतारानन्दगुर्वष्टकम् ॥

श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।

अथ श्रीतारानन्दगुर्वष्टकम् ।
गङ्गातीरसुवासं तं गङ्गालीनतपस्विनम् ।
श्रीदयानन्दशिष्यार्यं तारानन्दगुरुं भजे ॥ १ ॥

ब्रह्मसूत्रप्रबोधं तं ब्रह्मत्वतत्त्वबोधकम् ।
ब्रह्मप्रकाशरूपं तं तारानन्दगुरुं भजे ॥ २ ॥

ब्रह्मविद्यासुबोधं तं तारकज्ञानमार्गिणम् ।
ब्रह्मज्ञानस्वलीनं तं तारानन्दगुरुं भजे ॥ ३ ॥

ब्रह्मनिष्ठापरं शान्तं संयतं यतभाषिणम् ।
ब्रह्मलीनं तपस्तीर्थं तारानन्दगुरुं भजे ॥ ४ ॥

एकान्तं एकसद्ध्यानं एकान्तध्यानसुव्रतम् ।
एकवस्तुसदालीनं तारानन्दगुरुं भजे ॥ ५ ॥

मातृप्रेमपरीवाहं बुभुक्षाहरमातरम् ।
आत्मतृष्णाप्रशामं तं तारानन्दगुरुं भजे ॥ ६ ॥

स्वागतस्मेरवक्त्रं तं हितभाषश्रमापहम् ।
श्रुतश्लोकप्रमोदं तं तारानन्दगुरुं भजे ॥ ७ ॥

हिमगद्यरसानन्दं गङ्गासहस्रमोदितम् ।
आशीर्वाददयापूरं तारानन्दगुरुं भजे ॥ ८ ॥

त्यागराजगुरुस्वामिशिष्यापुष्पानुतिस्थिरम् ।
तारानन्दगुरुं वन्दे स्तोत्रमेतत्तदर्पणम् ॥


शुभमस्तु

इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीतारानन्दगुर्वष्टकं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।

– Chant Stotra in Other Languages –

Sri Tarananda Gurvashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Kala Bhairava Ashtakam In Kannada