Sri Vaishvanarashtakam In Sanskrit

॥ Sri Vaishvanarashtakam Sanskrit Lyrics ॥

॥ श्रीवैश्वानराष्टकम् ॥

समुद्भूतो भूमौ भगवदभिधानेन सदयः
समुद्धारं कर्तुं कृपणमनुजानां कलियुगे ।
चकार स्वं मार्गं प्रकटमतुलानन्दजननं
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ १ ॥

निजानन्दे मग्नः सततमथ लग्नश्च मनसा
हरौ भग्नासक्तिर्जगति जगदुद्धारकरणः ।
कृपापारावारः परहृदयशोकापहरणः
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ २ ॥

महामायामोहप्रशमनमना दोषनिचया-
प्रतीतः श्रीकृष्णः प्रकटपदविद्वेषसयुजाम् ।
मुखध्वंसं चक्रे निगमवचनैर्मायिकनृणां
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ३ ॥

प्रसिद्धैस्तैर्दोषैः सहजकलिदोषादिजनितो-
यतः स्वीयैर्धर्मैरपि च रहितः सर्वमनुजः ।
कृतः सम्बन्धेन प्रभुचरणसेवादिसहितः
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ४ ॥

विभेदं यश्चक्रे हरिभजनपूजादिविधिषु
स्वमार्गीयप्राप्यं फलमपि फलेभ्यः समधिकम् ।
विना वैराग्यादेरपि परममोक्षैकफलदः
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ५ ॥

परिक्रान्ता पृथ्वीचरणकमलैस्तीर्थमहिम-
प्रसिद्ध्यर्थं स्वीयस्मरणसमवाप्त्यै निजनृणाम् ।
तथा दैवाञ्जीवाञ्जगति च पृथक्कर्तुमखिलान्
स मे मूर्धन्यस्तां हरिवदनवैश्वानरविभुः ॥ ६ ॥

हरिं भावात्मानं तदखिलविहारानपि तथा
समस्तां सामग्रीं मनुजपशुपक्ष्यादिसहितान् ।
कृपामात्रेणात्र प्रकटयति दृक् पारकरुणः
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ७ ॥

परेषामासक्तिं सुतधनशरीरादिषु दृढां
द्रुतं भस्मीचक्रे बहुलमपि तूलं ज्वलन इव ।
स्वसान्निध्यादेव व्यसनमपि कृष्णोऽपि विदधत्
स मे मूर्धन्यास्तां हरिवदनवैश्वानरविभुः ॥ ८ ॥

See Also  Sri Kala Bhairava Ashtakam In Kannada

इति श्रीमत्प्रोक्तं हरिचरणदासेन हरिणा-
ऽष्टकं स्वाचार्यणां पठति परमप्रेमसहितः ।
जनस्तस्य स्याद्वै हरिवदनवैश्वानरपदे
परो भावस्तूर्णं सकलफलरूपस्तदधिकः ॥ ९ ॥

इति श्रीहरिरायजीविरचितं श्रीवैश्वानराष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vaishvanara Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil