Sri Vallabha Ashtakam 2 In Sanskrit

॥ Sri Vallabhashtakam 2 Sanskrit Lyrics ॥

॥ श्रीवल्लभाष्टकम् २ ॥

प्रथयितुमच्युतचरणाम्बुजरसपानैकसंश्रयं वर्त्म ।
श्रीमल्लक्ष्मणतनुजो जगति श्रीवल्लभो जयति ॥ १ ॥

यदनुग्रहेण जन्तून् व्रजमतिरप्यात्मनो मनुते ।
निःसाधनानसाध्यो जगति श्रीवल्लभो जयति ॥ २ ॥

विश्वोद्धारविचारप्रकटितकरुणोत्तरङ्गपाथोभिः ।
दिशि दिशि विदितविभूतिर्जगति श्रीवल्लभो जयति ॥ ३ ॥

मायामताद्रिपक्षं सर्वं ब्रह्मेति वादवज्रेण ।
चिच्छेदाद्भुतवीर्यो जगति श्रीवल्लभो जयति ॥ ४ ॥

वितरति कृष्णकथामृतधनमविनाश्यं सुदुर्लभं बहुलम् ।
अर्थिषु तदुदितकीर्तिर्जगति श्रीवल्लभो जयति ॥ ५ ॥

कमलाकरयुगलालितविमलाशयसेविताङ्घ्रियुग्मः ।
अचलाचलबहुचरितो जगति श्रीवल्लभो जयति ॥ ६ ॥

नाशयति शब्दसृष्टेर्यत्तज्ज्ञनांशुमांस्तमोऽज्ञानम् ।
अघतूलराशिदहनो जगति श्रीवल्लभो जयति ॥ ७ ॥

सहजासुरजनताया दुःखोदर्काय वक्रतर्केण ।
अविदितमार्गदिगर्को जगति श्रीवल्लभो जयति ॥ ८ ॥

इति श्रीदेवकीनन्दनजीकृतं श्रीवल्लभाष्टकम् २ सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vallabha Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Lalita Ashtottara Shatanama Divya Stotram In Sanskrit