Sri Varahi Anugraha Ashtakam In Sanskrit

॥ Sri Varahi Anugraha Stotram Sanskrit Lyrics ॥

॥ वाराह्यनुग्रहाष्टकम् ॥

ईश्वर उवाच
मातर्जगद्रचननाटकसूत्रधार-
स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् ।
ईशोऽप्यमीश्वरपदं समुपैति तादृक्-
कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १॥

नामानि किन्तु गृणतस्तव लोकतुण्डे
नाडम्बरं स्पृशति दण्डधरस्य दण्डः ।
यल्लेशलम्बितभवाम्बुनिधिर्यतो यत्-
त्वन्नामसंसृतिरियं ननु नः स्तुतिस्ते ॥ २॥

त्वच्चिन्तनादरसमुल्लसदप्रमेया-
ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः ।
मातर्नमामि सुदिनानि सदेत्यमुं त्वा-
मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३॥

इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न-
रोचिश्चयोज्ज्वलितपादसरोजयुग्मे ।
चेतो मतौ मम सदा प्रतिबिम्बिता त्वं
भूया भवानि विदधातु सदोरुहारे ॥ ४ ॥

लीलोद्धृतक्षितितलस्य वराहमूर्ते-
र्वाराहमूर्तिरखिलार्थकरी त्वमेव ।
प्रालेयरश्मिसुकलोल्लसितावतंसा
त्वं देवि वामतनुभागहरा रहस्य ॥ ५॥

त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त-
र्ये चिन्तयन्ति युवतीतनुमागलान्ताम् ।
चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां
तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६॥

त्वत्सेवनस्खलित पापचयस्य मात-
र्मोक्षोऽपि यत्र न सतां गणनामुपैति ।
देवासुरोरगनृपालनमस्य पाद-
स्तत्र श्रियः पटुगिरः कियदेवमस्तु ॥ ७॥

किं दुष्करं त्वयि मनोविषयं गतायां
किं दुर्लभं त्वयि विधानवदर्चितायाम् ।
किं दुष्करं त्वयि सकृत्स्मृतिमागतायां
किं दुर्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥ ८॥

॥ इति श्री वाराह्यनुग्रहाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Varahi Slokam » Sri Varahi Anugraha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Shrigranthakartuh Prarthana In English