Sri Vasavi Kanyaka Parameshvari Ashtakam In Sanskrit

॥ Vasavi Kanyaka Parameshvariashtakam Sanskrit Lyrics ॥

 ॥ श्रीवासवीकन्यकाष्टकम् ॥ 
नमो देव्यै सुभद्रायै कन्यकायै नमो नमः ।

शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १ ॥

जयायै चन्द्ररूपायै चण्डिकायै नमो नमः ।
शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २ ॥

नन्दायैते नमस्तेऽस्तु गौर्यै देव्यै नमो नमः ।
पाहिनः पुत्रदारांश्च वासव्यै ते नमो नमः ॥ ३ ॥

अपर्णायै नमस्तेऽस्तु कौसुंभ्यै ते नमो नमः ।
नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४ ॥

चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः ।
सुमुखायै नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ५ ॥

कमलायै नमस्तेऽस्तु विष्णुनेत्र कुलालये ।
मृडान्यैते नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ६ ॥

नमश्शीतलपादायै नमस्ते परमेश्वरी ।
श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७ ॥

त्वत्पादपद्मविन्यासं चन्द्रमण्डलशीतलं ।
गृहेषु सर्वदाऽस्माकं देहि श्रीपरमेश्वरि ॥ ८ ॥

ॐ बालारूपिणि विद्महे परमेश्वरि धीमहि । तन्नः कन्या प्रचोदयात् ।

इति श्रीवासवीकन्यकाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Durga Slokam » Sri Vasavi Kanyaka Parameshvari Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ekashloki Durga In Tamil