Sri Veda Vyasa Ashtakam In Sanskrit

॥ Sri Veda Vyasa Ashtakam Sanskrit Lyrics ॥

॥ श्रीवेदव्यासाष्टकम् ॥

कलिमलास्तविवेकदिवाकरं समवलोक्य तमोवलितं जनम् ।
करुणया भुवि दर्शितविग्रहं मुनिवरं गुरुव्यासमहं भजे ॥ १ ॥

भरतवंशसमुद्धरणेच्छया स्वजननीवचसा परिनोदितः ।
अजनयत्तनयत्रितयं प्रभुः शुकनुतं गुरुव्यासमहं भजे ॥ २ ॥

मतिबलादि निरीक्ष्य कलौ नृणां लघुतरं कृपया निगमाम्बुधेः ।
समकरोदिह भागमनेकधा श्रुतिपतिं गुरुव्यासमहं भजे ॥ ३ ॥

सकलधर्मनिरूपणसागरं विविधचित्रकथासमलङ्कृतम् ।
व्यरचयच्च पुराणकदम्बकं कविवरं गुरुव्यासमहं भजे ॥ ४ ॥

श्रुतिविरोधसमन्वयदर्पणं निखिलवादिमतान्ध्यविदारणम् ।
ग्रथितवानपि सूत्रसमूहकं मुनिसुतं गुरुव्यासमहं भजे ॥ ५ ॥

यदनुभाववशेन दिवङ्गतः समधिगम्य महास्त्रसमुच्चयम् ।
कुरूचमूमजयद्विजयो द्रुतं द्युतिधरं गुरुव्यासमहं भजे ॥ ६ ॥

समरवृत्तविबोधसमीहया कुरुवरेण मुदा कृतयाचनः ।
सपतिसूतमदादमलेक्षणं कलिहरं गुरुव्यासमहं भजे ॥ ७ ॥

वननिवासपरौ कुरुदम्पति सुतशुचा तपसा च विकर्शितौ ।
मृततनूजगणं समदर्शयन् शरणदं गुरुव्यासमहं भजे ॥ ८ ॥

व्यासाष्टकमिदं पुण्यं ब्रह्मानन्देन कीर्तितम् ।
यः पठेन्मनुजो नित्यं स भवेच्छास्त्रपारगः ॥

– Chant Stotra in Other Languages –

Guru Stotram » Sri Veda Vyasa Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Gayatri Ashtakam Vaa Stotram In Sanskrit