Sri Venugopalasvaminah Mangalashtakam In Sanskrit

॥ Sri Venugopalasvaminah Mangalashtakam Sanskrit Lyrics ॥

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्
ॐ गं गणपतये नमः ।
ॐ श्री वागीश्वर्यै नमः ॥

अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम् ।
दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो!
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ १ ॥

वेणुभूषितहस्ताय वेणुगानप्रियात्मने ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ २ ॥

पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ३ ॥

भास्वत्कौस्तुभवत्साय भक्ताभीष्टप्रदायिने ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ४ ॥

धृतचक्रगदायास्मै हृतकंसादिरक्षसे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ५ ॥

आदिमध्यान्तहीनाय त्रिगुणात्मकरूपिणे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ६ ॥

परब्रह्मस्वरूपाय सच्चिदानन्दरूपिणे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ७ ॥

विश्वनाथनुतायास्मै विश्वरक्षणहेतवे ।
धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ८ ॥

इति कोरिडे विश्वनाथ शर्मणाविरचितं श्री वेणुगोपालस्वामिनः मङ्गळाष्टकं सम्पूर्णम् ।
भगवदाशीर्वादाभिलाषी कोरिडे विश्वनाथ शर्मा, धर्मपुरी

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Krishna » Sri Venugopalasvaminah Mangalashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Varahi Nigraha Ashtakam In Tamil