Sri Vidyatirtha Ashtakam In Sanskrit

॥ Sri Vidya Atirtha Ashtakam Sanskrit Lyrics ॥

॥ श्रीविद्यातीर्थाष्टकम् ॥
वर्णचतुष्टयमेतद्विद्यातीर्थेति यस्य जिह्वाग्रे ।

विलसति सदा स योगी भोगी च स्यान्न तत्र सन्देहः ॥ १ ॥

लम्बिकायोगनिरतमम्बिकापतिरूपिणम् ।
विद्याप्रदं नतौघाय विद्यातीर्थमहेश्वरम् ॥ २ ॥

पापगधकारसूर्यं तापाम्भोधिप्रवृद्धबडवाग्निम् ।
नतहृन्मानसहंसं विद्यातीर्थं नमामि योगीशम् ॥ ३ ॥

पद्यावलिर्मुखाब्जादयत्नतो निःसरेच्छीघ्रम् ।
हृद्या यत्कृपया तं विद्यातीर्थं नमामि योगीशम् ॥ ४ ॥

भक्त्या यत्पदपद्मं भजतां योगः षडङ्गयुतः ।
सुलभस्तं करुणाब्धिं विद्यातीर्थं नमामि योगीशम् ॥ ५ ॥

हृद्या विद्या वृणुते यत्पदनम्रं नरं शीघ्रम् ।
तं कारुण्यपयोधिं विद्यातीर्थं नमामि योगीशम् ॥ ६ ॥

विद्यां दत्त्वाविद्यां क्षिप्रं वारयति यः प्रणम्राणाम् ।
दयया निसर्गया तं विद्यातीर्थं नमामि योगीशम् ॥

विद्यारण्यप्रमुखैर्विद्यापारङ्गतैः सेव्यम् ।
अद्यापि योगनिरतं विद्यातीर्थं नमामि योगीशम् ॥ ८ ॥

विद्यातीर्थाष्टकमिदं पठन्भक्तिपुरःसरम् ।
विद्यामनन्यसामान्यां प्राप्य मोदमवाप्नुयात् ॥ ९ ॥

इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीविद्यातीर्थाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Vidyatirtha Slokam » Sri Vidyatirtha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Ganeshastavanam Or Ganeshashtakam By Valmiki In Kannada