॥ Sri Vighneshwara Shodasha Nama Stotram Sanskrit Lyrics ॥
॥ श्री विघ्नेश्वर षोडशनाम स्तोत्रम् ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः
लम्बोदरश्च विकटो विघ्नराजो गणाधिपः ॥ १ ॥
धूमकेतुर्गणाध्यक्षः फालचन्द्रो गजाननः
वक्रतुण्डश्शूर्पकर्णो हेरम्बस्स्कन्दपूर्वजः ॥ २ ॥
षोडशैतानि नामानि यः पठेच्छृणुयादपि
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥ ३ ॥
– Chant Stotra in Other Languages –
Sri Vighneshwara Shodasha Nama Stotram in English – Hindi – Kannada – Telugu – Tamil