Sri Vishnu Rakaradya Ashtottara Shatanama Stotram In Sanskrit

॥ Sri Vishnu Rakaradya Ashtottara Shatanama Stotram Sanskrit Lyrics ॥

॥ श्रीविष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रम् ॥

(श्रीविष्णुसहस्रनामावल्यन्तर्गतं)
(सभाष्यम्)
ओक्षरोऽजोऽच्युतोऽमोघोऽनिरुद्धोऽनिमिषोऽग्रणीः ।
अव्ययोऽनादिनिधनोऽमेयात्माऽसम्मितोऽनिलः ॥ १ ॥

अप्रमेर्योऽव्ययोऽग्राह्योऽमृतोऽव्यङ्गोऽच्युतोऽतुलः ।
अतीन्द्रोऽतीन्द्रियोऽदृश्योऽनिर्देश्यवपुरन्तकः ॥ २ ॥

अनुत्तमोऽनघोऽमोघोऽप्रमेयात्माऽमिताशनः ।
अहःसवर्तकोऽनन्तजिदभूरजितोऽच्युतः ॥ ३ ॥

असङ्ख्येयोऽमृतवपुरर्थोऽनर्थोऽमितविक्रमः ।
अविज्ञाताऽरविन्दाक्षोऽनुकूलोऽहरपान्निधिः ॥ ४ ॥

अमृतांशूद्भवोऽमृत्युरमरप्रभुरक्षरः ।
अभोनिधिरनन्तात्माऽजोऽनलोऽसदधोक्षजः ॥ ५ ॥

अशोकोऽमृतपोऽनीशोऽनिरुद्धोऽमितविक्रमः ।
अनिर्विण्णोऽनयोऽनन्तोऽविधेयात्माऽपराजितः ॥ ६ ॥

अधिष्ठानमनन्तश्रीरप्रमत्तोऽप्ययोऽग्रजः ।
अयोनिजोऽनिवर्त्यर्कोऽनिर्देश्यवपुरर्चितः ॥ ७ ॥

अर्चिष्मानप्रतिरथोऽनन्तरूपोऽपराजितः ।
अनामयोऽनलोऽक्षोभ्योऽनेकमूर्तिरमूर्तिमान् ॥ ८ ॥

अमृताशोऽचलोऽमान्यधृतोऽणुरनिलोऽद्भुतः ।
अमूर्तिरर्होऽभिप्रायोऽचिन्त्योऽनिर्विण्ण एव च ॥ ९ ॥

अनादिरन्नमन्नादोऽजोऽव्यक्तोऽक्रूर एव च ।
अमेयात्माऽनधोऽश्वत्थोऽक्षोभ्योऽरौद्र एव च ॥ १० ॥

अधाताऽनन्त इत्येवं नाम्रामष्टोत्तरं शतम् ।
विष्णोः सहस्रनामभ्योऽकारादि समुद्धृतम् ॥ ११ ॥

स्मृतं श्रुतमधीतं तत्प्रसादादघनाशनम् ।
ध्यातं चिराय तद्भावप्रदं सर्वार्थसाधकम् ॥ १२ ॥

इति विष्णोरकाराद्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Vishnu Rakaradya Ashtottara Shatanama Stotram Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Dhanvantarya Ashtottara Shatanama Stotram In Telugu