Sri Vraja Navayuva Raja Ashtakam In Sanskrit

॥ Sri Vraja Navayuva Raja Ashtakam in Sanskrit ॥

॥ श्रीव्रजनवयुवराजाष्टकम् ॥
श्रीव्रजनवयुवराजाय नमः ।
मुदिरमदमुदारं मर्दयन्नङ्गकान्त्या
वसनरुचिनिरस्ताम्भोजकिञ्जल्कशोभः ।
तरुणिमतरणीक्षाविक्लवद्बाल्यचन्द्रो
व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ १ ॥

पितुरनिशमगण्यप्राणनिर्मन्थनीयः
कलिततनुरिवाद्धा मातृवात्सल्यपुञ्जः ।
अनुगुणगुरुगोष्ठीदृष्टिपीयूषवर्ति-
र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ २ ॥

अखिलजगति जाग्रन्मुग्धवैदग्ध्यचर्या
प्रथमगुरुरुदग्रस्थामविश्रामसौधः ।
अनुपमगुणराजीरञ्जिताशेषबन्धु-
र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ३ ॥

अपि मदनपराअर्धैर्दुष्करं विक्रियोर्मिं
युवतिषु निदधानो भ्रूधनुर्धूननेन ।
प्रियसहचरवर्गप्राणमीनाम्बुराशि-
र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ४ ॥

नयनशृणिम्विनोदक्षोभितानङ्गनागो
न्मथितगहनराधाचित्तकासारगर्भः ।
प्रणयरसमरन्दास्वादलीलाषडङ्घ्रि-
र्व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ५ ॥

अनुपदमुदयन्त्या राधिकासङ्गसिद्ध्या
स्थगितपृथुरथाङ्गद्वन्द्वरागानुबन्धः ।
मधुरिममधुधाराधोरणीनामुदन्वान्
व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ६ ॥

अलघुकुटिलराधादृष्टिवारीनिरुद्ध
त्रिजगदपरतन्त्रोद्दामचेतोगजेन्द्रः ।
सुखमुखरविशाखानर्मणा स्मेरवक्त्रो
व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ७ ॥

त्वयि रहसि मिलन्त्यां सम्भ्रमन्यासभुग्नाप्य्-
उषसि सखि तवालीमेखला पश्य भाति ।
इति विवृतरहस्यैर्ह्रेपयन्न् एव राधां
व्रजनवयुवराजः काङ्क्षितं मे कृपीष्ट ॥ ८ ॥

व्रजनवयुवराजस्याष्टकं तुष्टबुद्धिः
कलितवरविलासं यः प्रयत्नादधिते ।
परिजनगणनायां नाम तस्यानुरज्यन्
विलिखति किल् वृन्दारण्यराज्ञीरसज्ञः ॥ ९ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीव्रजनवयुवराजाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

Sri Vraja Navayuva Raja Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Shrigranthakartuh Prarthana In Sanskrit