Surya Shatakam In Sanskrit – Sun God Shatakam

॥ Suryashatakam Sanskrit Lyrics ॥

॥ सूर्यशतकम् ॥
महाकविश्रीमयूरप्रणीतम्

॥ श्री गणेशाय नमः ॥

जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य । var सक्तैः
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै
भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥

भक्तिप्रह्वाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां
लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये ।
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥

गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः
प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।
निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा-
नूष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३ ॥

प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्दीक्ष्य वीतावृतीन्प्रा-
ग्जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।
ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालं
शश्वत्सम्पादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४ ॥

न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधीः प्रोषिताभा
भास्वद्ग्रावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन ।
पक्षच्छेदव्रणासृक्स्रुत इव दृषदो दर्शयन्प्रातरद्रे-
राताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५ ॥

शीर्णघ्राणाङ्घ्रिपाणीन्व्रणिभिरपघनैर्घर्घराव्यक्तघोषान्
दीर्घाघ्रातानघौघै पुनरपि घटयत्येक उल्लाघयन् यः ।
घर्मांशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-
र्दत्तार्घाः सिद्धसंघैर्विदधतु घृणयः शीघ्रमंहोविधातम् ॥ ६ ॥

बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः
क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।
ध्वान्तादाच्छिद्य देवद्विष इव बलितो विश्वमाश्वश्नुवानाः var देवद्रुह
कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥

उद्गाढेनारुणिम्ना विदधति बहुलं येऽरुणस्यारुणत्वं
मूर्धोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।
शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशन्तु var शिखरशिखाः
प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८ ॥

दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः var अक्लिष्टसृष्टैः
पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यह्नि संहारभाजः ।
दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो
गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥

बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां
लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।
युष्माकं ते स्वचित्तप्रथितपृथुतरप्रार्थनाकल्पवृक्षाः var प्रथिम
कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १० ॥

धारा रायो धनायापदि सपदि करालम्बभूताः प्रपाते
तत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।
निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा-
स्त्रायन्तां तीव्रभानोर्दिवसमुखसुखा रश्मयः कल्मषाद्वः ॥ ११ ॥

var तीव्रभासः var कश्मलाद्वः

प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणित्वं
मुञ्चन्त्यो रोचनाम्भः प्रचुरमिव दिशामुच्चकैश्चर्चनाय ।
चाटूत्कैश्चक्रनाम्नां चतुरमविचलैर्लोचनैरर्च्यमाना- var सुचिरं
श्चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२ ॥

एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि-
र्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।
युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो-
र्यान्ति प्राह्णे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥ १३ ॥ var ददतु

आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेव
ग्रीष्मे दावाग्नितप्ता इव रसमसकृद्ये धरित्र्या धयन्ति ।
ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमर्तौ
मार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीषवो वो भवन्तु ॥ १४ ॥

तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था-
मारुढप्रौढिलेशोत्कलितकपिलिमालंकृतिः केवलैव ।
उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किंचिदुद्भिद्यमाना
श्मश्रुश्रेणीव भासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १५ ॥

मौलीन्दोर्मैष मोषीद्द्युतिमिति वृषभाङ्केन यः शङ्किनेव
प्रत्यग्रोद्घाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा ।
कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्नुनेव स्तुतोऽलं
त्राणाय स्तात्तनीयानपि तिमिररिपोः स त्विषामुद्गमो वः ॥ १६ ॥

विस्तीर्णं व्योम दीर्घाः सपदि दश दिशो व्यस्तवेलाम्भसोऽब्धीन्
कुर्वद्भिर्दृश्यनानानगनगरनगाभोगपृथ्वीं च पृथ्वीम् ।
पद्मिन्युच्छ्वास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा-
मुस्रा विस्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥ १७ ॥ var विस्रावयन्तु

अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो
विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ।
दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां
यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥ १८ ॥

मागान्म्लानिं मृणाली मृदुरिति दययेवाप्रविष्टोऽहिलोकं
लोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव ।
ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्यो द्युसीम्नि
स्वेछावश्यावकाशावधिरवतु स वस्तापनो रोचिरोघः ॥ १९ ॥

अश्यामः काल एको न भवति भुवनान्तोऽपि वीतेऽन्धकारे var वीतान्धकारः
सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।
बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहाने
तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥

यत्कान्तिं पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां var प्रत्युतातीव रम्यां
नो धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव । var नाधत्ते
कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या-
श्चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महो वः ॥ २१ ॥

क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतरजलस्पर्शतर्षादृतेव
द्रागाशा नेतुमाशाद्विरदकरसरःपुष्कराणीव बोधम् ।
प्रातः प्रोल्लङ्घ्य विष्णोः पदमपि घृणयेवातिवेगाद्दवीय-
स्युद्दाम द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥

नो कल्पापायवायोरदयरयदलत्क्ष्माधरस्यापि गम्या var शम्या
गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो
वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ २३ ॥

निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीयस्वरूपा
पर्याप्तं नोदयादौ दिनगमसमयोपप्लवेऽप्युन्नतैव ।
अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुं
ब्रध्नस्येद्धा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोस्तु ॥ २४ ॥ var चिरुरस्य, रुचिरस्य

विभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वीं
कुर्वाणो लीलयाधः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।
आदध्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां var आदेयादीक्षणानां
बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ २५ ॥

ज्योत्स्नांशाकर्षपाण्डुद्युति तिमिरमषीशेषकल्माषमीष-
ज्जृम्भोद्भूतेन पिङ्गं सरसिजरजसा संध्यया शोणशोचिः ।
प्रातःप्रारम्भकाले सकलमपि जगच्चित्रमुन्मीलयन्ती
कान्तिस्तीक्ष्णत्विषोऽक्ष्णां मुदमुपनयतात्तूलिकेवातुलां वः ॥ २६ ॥

आयान्ती किं सुमेरोः सरणिररुणिता पाद्मरागैः परागै-
राहोस्वित्स्वस्य माहारजनविरचिता वैजयन्ती रथस्य ।
माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चामराली नु लोकै- var चामरालीव
राशङ्क्यालोकितैवं सवितुरघनुदे स्तात्प्रभातप्रभा वः ॥ २७ ॥

See Also  Nitishatak By Bhartrihari In Telugu

ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्ति
न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदह्नस्त्विषं यः । var न्यक्तामह्नि
स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा-
माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥

तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणु
प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।
यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति
ज्योतिस्तद्द्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥ २९ ॥

रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं
वह्नेर्दार्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।
यच्च त्रैलोक्यभूषाविधिरघदहनं ह्लादि वृष्ट्याशु तद्वो var यत्तु
बाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥ ३० ॥

मीलच्चक्षुर्विजिह्मश्रुति जडरसनं निघ्नितघ्राणवृत्ति
स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् ।
विस्रस्ताङ्गं पतित्वा स्वपदपहरतादश्रियं वोऽर्कजन्मा var अप्रियं
कालव्यालावलीढं जगदगद इवोत्थापयन्प्राक्प्रतापः ॥ ३१ ॥

निःशेषं नैशमम्भः प्रसभमपनुदन्नश्रुलेशानुकारि
स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।
दाता दृष्टिं प्रसन्नां त्रिभुवननयनस्याशु युष्मद्विरुद्धं
वध्याद्ब्रध्नस्य सिद्धाञ्जनविधिरपरः प्राक्तनोऽर्चिःप्रचारः ॥ ३२ ॥

भूत्वा जम्भस्य भेत्तुः ककुभि परिभवारम्भभूः शुभ्रभानो- var स्थित्वा
र्बिभ्राणा बभ्रुभावं प्रसभमभिनवाम्भोजजृम्भाप्रगल्भा ।
भूषा भूयिष्ठशोभा त्रिभुवनभवनस्यास्य वैभाकरी प्राग्-
विभ्रान्ता भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः ॥ ३३ ॥ var निर्भान्ति, विभ्रान्ति

संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या
यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।
अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-
दुद्यन्बालप्रवालप्रतिमरुचिरहःपादपप्राक्प्ररोहः ॥ ३४ ॥

भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव
त्वङ्न्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।
नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्ता-
दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः ॥ ३५ ॥

गन्धर्वैर्गद्यपद्यव्यतिकरितवचोहृद्यमातोद्यवाद्यै-
राद्यैर्यो नारदाद्यैर्मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य ।
var वीतवेद्यैर्विविद्य, वेदविद्भिर्विभिद्य
आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्य-
न्नुद्द्योतो द्योतितद्यौर्द्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥ ३६ ॥

आवानैश्चन्द्रकान्तैश्च्युततिमिरतया तानवात्तारकाणा- var आवान्तैः
मेणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन ।
आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशो-
राभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥ ३७ ॥

सानौ सा नौदये नारुणितदलपुनर्यौवनानां वनाना- var लसद्यौवनानां
मालीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।
भा वोऽभावोपशान्तिं दिशतु दिनपतेर्भासमाना समाना-
राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥

उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायै
पुष्णात्यालोकमात्रं न तु दिशति दृशां दृश्यमाना विधातम् ।
पूर्वाद्रेरेव पूर्वं दिवमनु च पुनः पावनी दिङ्मुखाना- var ततः
मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३९ ॥

वाचां वाचस्पतेरप्यचलभिदुचिताचार्यकाणां प्रपञ्चै-
र्वैरञ्चानां तथोच्चारितचतुरऋचां चाननानां चतुर्णाम् । var रुचिर
उच्येतार्चासु वाच्यच्युतिशुचिचरितं यस्य नोच्चैर्विविच्य var अर्चास्ववाच्य
प्राच्यं वर्चश्चकासच्चिरमुपचिनुतात्तस्य चण्डार्चिषो वः ॥ ४० ॥ var श्रियं

मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौघः समुद्रे
var – किसलयाद्विद्रुमौघात्समुद्रे
दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।
var विहितः, निहितात्सन्द्रसिन्दूरर्Eणोः
सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥ ४१ ॥

अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि तमःकालकूटे निपीते
याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युषःपारिजाते ।
उद्यन्त्यारक्तपीताम्बरविशदतरोद्वीक्षिता तीक्ष्णभानो-
var रुचिरतरोद्वीक्षिता var तीव्रभासः
र्लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपुटापाश्रया श्रेयसे वः ॥ ४२ ॥ var पुटोपाश्रय

नोदन्वाञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्या
यस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ।
तेजोरूपापरैव त्रिषु भुवनतलेष्वादधाना व्यवस्थां var त्रिभुवनभवने
सा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलाग्रोद्गता वः ॥ ४३ ॥

॥ इति द्युतिवर्णनम् ॥ var तेजोवर्णनम्

॥ अथ अश्ववर्णनम् ॥

रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः
पातङ्गाः पङ्ग्ववज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।
येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरा-
वुद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥

प्लुष्टाः पृष्ठेंऽशुपातैरतिनिकटतया दत्तदाहातिरेकै-
रेकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण ।
तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते-
रभ्याशाकाशगङ्गाजलसरलगलावाङ्नताग्रानना वः ॥ ४५ ॥ var गलवर्जिताग्राननाः

मत्वान्यान्पार्श्वतोऽश्वान् स्फटिकतटदृषद्दृष्टदेहा द्रवन्ती
व्यस्तेऽहन्यस्तसंध्येयमिति मृदुपदा पद्मरागोपलेषु ।
सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूता सुमेरो-
र्मूर्धन्यावृत्तिलब्धध्रुवगतिरवतु ब्रध्नवाहावलिर्वः ॥ ४६ ॥ var द्रुत

हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टा
स्वर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्यदेन ।
निर्व्याजं तायमाने हरितिमनि निजे स्फीतफेनाहितश्री- var स्फीतफेनास्मितश्रीः
रश्रेयांस्यश्वपङ्क्तिः शमयतु यमुनेवापरा तापनी वः ॥ ४७ ॥

मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये
वीक्ष्य व्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।
सूतेऽसूयत्यपीषज्जडगति वहतां कंधरार्धैर्वलद्भि- var कंधराग्रैः
र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ ४८ ॥

धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या-
स्तालूत्तानैः खलीनैः खचितमुखरुचश्च्योतता लोहितेन ।
उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः
क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥ ४९ ॥

॥ इत्यश्ववर्णनम् ॥

॥ अथ अरुणवर्णनम् ॥

प्रातः शैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मी-
र्विक्षिप्तापूर्वपुष्पाञ्जलिमुडुनिकरं सूत्रधारायमाणः ।
यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव जातप्रतिष्ठा- var यातः प्रतिष्ठां
मव्यात्प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥ ५० ॥

आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽग्र्यो हरीणां
भ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षी ।
शत्रुं नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि
स्थाम्नां धाम्नां निधिर्यः स भवदघनुदे नूतनः स्तादनूरुः ॥ ५१ ॥

दत्तार्घैर्दूरनम्रैर्वियति विनयतो वीक्षितः सिद्धसार्थैः var सिद्धसाध्यैः
सानाथ्यं सारथिर्वः स दशशतरुचेः सातिरेकं करोतु ।
आपीय प्रातरेव प्रततहिमपयःस्यन्दिनीरिन्दुभासो
यः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥ ५२ ॥

मुञ्चन्रश्मीन्दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र-
स्तोत्रप्रख्यातवीर्योऽविरतहरिपदाक्रान्तिबद्धाभियोगः । var वितत
कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन्यो द्विजानां
सेवाप्रीतेन पूष्णात्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥ ५३ ॥ var स्वसम

शातः श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चिः var दाहे दवाभः
प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ।
var प्राचीवाग्रे, ग्रहकुमुदरुचिं
ऐक्यं भिन्दन्द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधे
वाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥ ५४ ॥

See Also  Vijnanashataka By Bhartrihari Sequence 2 Pathak In Odia

पौरस्त्यस्तोयदर्तोः पवन इव पतत्पावकस्येव धूमो var पतन्
विश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः
संध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः
सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥ ५५ ॥ var स्यन्दनो वः

पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशा-
वासीदत्स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः । var अश्वानुकृतमरकते
यः सोत्कर्षां विभूषां कुरुत इव कुलक्ष्माभृदीशस्य मेरो-
रेनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेयद्विषो वः ॥ ५६ ॥

नीत्वाश्वान्सप्त कक्षा इव नियमवशं वेत्रकल्पप्रतोद- var कक्ष्या
स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि ।
पूर्वं प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व-
स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥ ५७ ॥

वज्रिञ्जातं विकासीक्षणकमलवनं भासि नाभासि वह्ने! var नो भासि
तातं नत्वाश्वपार्श्वान्नय यम! महिषं राक्षसा वीक्षिताः स्थ ।
सप्तीन्सिञ्च प्रचेतः! पवन! भज जवं वित्तपावेदितस्त्वं
वन्दे शर्वेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ ५८ ॥

पाशानाशान्तपालादरुण वरुणतो मा ग्रहीः प्रग्रहार्थं
तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।
योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रो- var त्वाष्ट्रशत्रोः
स्त्यक्तान्यापेक्षविश्वोपकृतिरिव रविः शास्ति यं सोऽवताद्वः ॥ ५९ ॥

नो मूर्च्छाच्छिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी
पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।
यः संश्रित्य त्रिलोकीमटति पटुतरैस्ताप्यमानो मयूखै-
रारादारामलेखामिव हरितमणिश्यामलामश्वपङ्क्तिम् ॥ ६० ॥ var हरिततृण

सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः
स्कन्दन्तः कन्दरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।
दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः
पूष्णोऽश्वाः पूरयंस्तैस्तदवतु जवनैर्हुंकृतेनाग्रगो वः ॥ ६१ ॥ var प्रेरयन् हुंकृतैरग्रणीः

॥ इत्यरुणवर्णनम् ॥ var सूतवर्णनम्

॥ अथ रथवर्णनम् ॥

पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-
वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।
उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः
प्राह्णे श्रेयो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥ var प्रेयो

ध्वान्तौघध्वंसदीक्षाविधिपटु वहता प्राक्सहस्रं कराणा- var विधिगुरु द्राक्सहस्रं
मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।
स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं
स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भास्वतः स्यन्दनोऽस्तु ॥ ६३ ॥

योक्त्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशूकान्दधानो
द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।
सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः-
क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥

एकाहेनैव दीर्घां त्रिभुवनपदवीं लङ्घयन् यो लघिष्ठः var कृस्त्नां
पृष्ठे मेरोर्गरीयान् दलितमणिदृषत्त्विंषि पिंषञ्शिरांसि ।
सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ताद्रिमूर्न्धि
ब्रध्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ॥

धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि दूरं var दूरात्
राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।
श्रान्ताश्वश्वासहेलाधुतविबुधधुनीनिर्झराम्भांसि भद्रं
देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥ ६६ ॥

अक्षे रक्षां निबध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रं
धूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य ।
चर्चाश्चक्रे चरन्त्यो मलयजपयसा सिद्धवध्वस्त्रिसंध्यं var चर्चां
वन्दन्ते यं द्युमार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ॥

उत्कीर्णस्वर्णरेणुद्रुतखुरदलिता पार्श्वयोः शश्वदश्वै- var रेणुर्द्रुत
रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ।
मेरोर्मूर्धन्यघं वो विघटयतु रवेरेकवीथी रथस्य
स्वोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीव ॥ ६८ ॥ var स्वोष्मोदस्ताम्बु

नन्तुं नाकालयानामनिशमनुयतां पद्धतिः पङ्क्तिरेव var उपयतां
क्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ।
हेषह्लादो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो var नादो
यस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥ ६९ ॥

निःस्पन्दानां विमानावलिविततदिवां देववृन्दारकाणां var वलितदिशा
वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।
मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मन्दिराभे var मन्दराभे
मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥

चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजान्ता-
नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।
रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य
स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥ var रुच

नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः
पादोपान्ते स्तुतोऽलं बलिहरिरभसाकर्षणाबद्धवेगः ।
भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वो
दिश्याल्लक्ष्मीमपारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ॥ var अतुल्यां

॥ इति रथवर्णनम् ॥

॥ अथ मण्डलवर्णनम् ॥

यज्ज्यायो बीजमह्नामपहततिमिरं चक्षुषामञ्जनं य- var ज्यायो यद्बीजमह्नामपहृत
द्द्वारं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।
यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-
द्दिश्यादीशस्य भासां तदधीकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥ var देवस्य
भानोः तदधिकममलं मण्डलं मङ्गलं

वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्य्रग्रहोडु
स्तोकोद्भिन्नस्वचिह्नप्रसवमिव मधोरास्यमस्यन्मनांसि । var महांसि
प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः
पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४ ॥

प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचलः पद्मरागेण येन
ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।
कालव्यालस्य चिह्नं महिततममहोमूर्न्धि रत्नं महद्य-
द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥

कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-
र्विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।
वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो
मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मृष्णन्महांसि ॥ ७६ ॥

यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-
दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।
यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो
विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥

शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां
येनोत्तप्ताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रा युगान्ते । var चटिति
तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृच्छात् var कृत्स्नं
संहृत्यालोकमात्रं प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥ var आहृत्यालोकमात्रं प्रतनु

See Also  Gorakshashatakam 1 In Sanskrit – Gorakhnath

उद्यद्द्यूद्यानवाप्यां बहुलतमतमःपङ्कपूरं विदार्य var बहल
प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।
कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चण्डभानो- var चण्डरश्मेः
रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥

चक्षुर्दक्षद्विषो यन्न तु दहति पुरः पूरयत्येव कामं var न दहति नितरां पुनः
नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।
यद्वीतश्रान्ति शश्वद्भ्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति
ब्रध्नस्याख्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥

॥ इति मण्डलवर्णनम् ॥

॥ अथ सूर्यवर्णनम् ।

सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भं
गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।
सार्धं साध्यैर्मुनीन्द्रैर्मुदितमतमनो मोक्षिभिः पक्षपाता- var मोक्षुभिः
त्प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥ ८१ ॥

भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापा-
च्छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कैः । var न्यस्त
निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रिप्रकारं var त्रिप्रकारैः
तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन्हाटकाद्रिम् ॥ ८२ ॥

नो शुष्कं नाकनद्या विकसितकनकाम्भोजया भ्राजितं तु var कनकाम्भोरुहा
प्लुष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः ।
नो श‍ृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता-
नीद्धं धाम द्युमार्गे म्रदयति दयया यत्र सोऽर्कोऽवताद्वः ॥ ८३ ॥

ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि
प्राक्पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।
कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां
सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥ ८४ ॥

लोटँल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः
संदेही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।
निःश्वासायासनिष्ठः परमपरवशो जायते जीवलोकः var चिरतरवशो
शोकेनेवान्यलोकानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥ var लोकाभ्युदय

क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं
नॄणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।
यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी
भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥

व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा
नैष्टैस्तृप्यन्ति देवा न हि वहति मरुन्निर्मलाभानि भानि ।
आशाः शान्ता न भिन्दन्त्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां
यस्मिंस्त्रैलोक्यमेवं न चलति तपति स्तात्स सूर्यः श्रिये वः ॥ ८७ ॥

कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः
श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।
योगोद्योगैकतानो गमयति सकलं वासरं स्वं स्वयम्भू-
र्भूरित्रैलोक्याचिन्ताभृति भुवनविभौ यत्र भास्वान्स वोऽव्यात् ॥ ८८ ॥

एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चींषि यानि
द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।
एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो
वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥ ८९ ॥

नाकौकःप्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां
सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।
येनादित्याभिधानं निरतिशयगुणैरात्मनि न्यस्तमस्तु var गुणेनात्मनि
स्तुत्यस्त्रैलोक्यवन्द्यैस्त्रिदशमुनिगणैः सोंऽशुमान् श्रेयसे वः ॥ ९० ॥

भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव- var धाम्नोऽथ
प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानां यथाप्रार्थितार्थैः । var यजमानात्मिकां
लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-
ण्वेवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत्स्वमूर्तिम् ॥ ९१ ॥

प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।
सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलं
देवैर्देवः स पायादपर इव मुरारातिरह्नां पतिर्वः ॥ ९२ ॥

यः स्रष्टाऽपां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेको
लोकानां यस्त्रयाणां स्थित उपरि परं दुर्विलङ्घ्येन धाम्ना । var च त्रयाणां
सद्यः सिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखः स्ताद्विभक्तो var शुचि
द्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥ ९३ ॥

साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राग्दृशो यः var द्राक् दृशो
सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।
दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा
शं शास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥ ९४ ॥

तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनां
नोदन्वन्तो नुदन्ति प्रतिभयमशुभश्वभ्रपातानुबन्धि ।
आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र var स्वर्गापगायाः
त्रातुं यातेऽन्यलोकान् स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९५ ॥ var लोकं

एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी-
दप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।
यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेव
त्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ॥

द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि-
र्या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सा ।
यद्वश्यौ देशकालाविति नियमयतो नो तु यं देशकाला- var नु
वव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः ॥ ९७ ॥

व्यग्रैरग्र्यग्रहेन्दुग्रसनगुरु भरैर्नो समग्रैरुदग्रैः var गुरुतरैः
प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन् गाम् ।
उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्ना-
मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥

योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शंकरोऽसौ
मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।
इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ता-
स्तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥ var गणैः

देवः किं बान्धवः स्यात्प्रियसुहृदथवाऽऽचार्य आहोस्विदर्यो var आर्यः
रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।
एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदाऽसौ var सर्वदाः
सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥ १०० ॥

श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षं
विद्यामैश्वर्यमर्थं सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥

इति श्रीमयूरकविप्रणीतं सूर्यशतकं समाप्तम् ।