॥ Svasva Yugala Ashtakam Sanskrit Lyrics ॥
॥ स्वस्वामियुगलाष्टकम् ॥
आसातामेकशरणे विहिताकरणे हृदि ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ १ ॥
कृपां प्रकुरुतां दीने स्वत एक कृपाकरौ ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ २ ॥
प्रसीदेतां मयि श्रीमद्व्रजेशचरणाश्रये ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ३ ॥
दास्यं प्रयच्छतां मह्यं समस्तफलमूर्धगम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ४ ॥
कदाऽपि मामनन्यं मा त्यजेतां निजसेवकम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ५ ॥
प्रमेयबलमात्रेण गृह्णीतां मत्करं दृढम् ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ६ ॥
आर्तिं निवारयेतां मे मस्तके हस्तधारणैः ।
स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ७ ॥
मन्मूर्धनि विराजेतां प्रभू लोकविलक्षणौ ।
स्वामिनौ वल्लभाधीशाविठ्ठलेशाभिधौ मम ॥ ८ ॥
इति श्रीमद्धरिदासोदितं स्वस्वामियुगलाष्टकं सम्पूर्णम् ।
– Chant Stotra in Other Languages –
Svasvamiyugala Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil