Tulaja Ashtakam In Sanskrit

॥ Tulaja Ashtakam Sanskrit Lyrics ॥

॥ तुलजाष्टकम् ॥
दुग्धेन्दु कुन्दोज्ज्वलसुन्दराङ्गीं
मुक्ताफलाहारविभूषिताङ्गीम् ।
शुभ्राम्बरां स्तनभरालसाङ्गीं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ १ ॥

बालार्कभासामतिचारुहासां
माणिक्यमुक्ताफलहारकण्ठीम् ।
रक्ताम्बरां रक्तविशालनेत्रीं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ २ ॥

श्यामाङ्गवर्णां मृगशावनेत्रां
कौशेयवस्त्रां कुसुमेषु पूज्याम् ॥
कस्तूरिकाचन्दनचर्चिताङ्गीं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ३ ॥

पीताम्बरां चम्पककान्तिगौरीं
अलङ्कृतामुत्तममण्डनैश्च ।
नाशाय भूतां भुवि दानवानां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ४ ॥

चन्द्रार्कताटङ्कधरां त्रिनेत्रां
शूलं दधानामतिकालरूपाम् ।
विपक्षनाशाय धृतायुधां तां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ५ ॥

ब्रह्मेन्द्र नारायणरुद्रपूज्यां
देवाङ्गनाभिः परिगीयमानाम् ।
स्तुतां वचोभिर्मुनिनारदाद्यैः
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ६ ॥

अष्टाङ्गयोगे सनकादिभिश्च
ध्यातां मुनीन्द्रैश्च समाधिगम्याम् ।
भक्तस्य नित्यं भुवि कामधेनुं
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ७ ॥

सिंहासनस्थां परिवीज्यमानां
देवैः समस्तैश्च सुचामरैश्च ।
छत्रं दधानामतिशुभ्रवर्णां
वन्देऽहमाद्यां तुलजाभवानीम् ॥ ८ ॥

पूर्णः कटाक्षोऽखिललोकमातु-
र्गिरीन्द्रकन्यां भजतां सुधन्याम् ।
दारिद्र्यकं नैव कदा जनानां
चिन्ता कुतः स्याद्भवसागरस्य ॥ ९ ॥

तुलजाष्टकमिदं स्तोत्रं त्रिकालं यः पठेन्नरः ।
आयुः कीर्तिर्यशो लक्ष्मी धनपुत्रानवाप्नुयात् ॥ १० ॥

॥ इति श्रीमच्छङ्कराचार्य विरचितं तुलजाष्टकम् सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Tulaja Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Tripura Sundari Ashtakam In Kannada