Vallabhasharana Ashtakam In Sanskrit

॥ Vallabhasharanashtakam Sanskrit Lyrics ॥

॥ वल्लभशरणाष्टकम् ॥

निःसाधनजनोद्धारकरणप्रकटीकृतः ।
गोकुलेशस्वरूपः श्रीवल्लभश्शरणं मम ॥ १ ॥

भजनानन्ददानार्थं पुष्टिमार्गप्रकाशकः ।
करुणावरणीयः श्रीवल्लभः शरणं मम ॥ २ ॥

स्वामिनीभावसंयुक्तभगवद्भावभावितः ।
अत्यलौकिकमूर्तिः श्रीवल्लभः शरणं मम ॥ ३ ॥

श्रीकृष्णवदनानन्दो वियोगानलमूर्तिमान् ।
भक्तिमार्गाब्जभानुः श्रीवल्लभः शरणं मम ॥ ४ ॥

रासलीलारसभरसमाक्रान्ताऽखिलाङ्गभृत् ।
भावरूपाखिलाङ्गः श्रीवल्लभः शरणं मम ॥ ५ ॥

श्रीभागवतभावार्थाविर्भावार्थानतारितः ।
स्वामिसन्तोषहेतुः श्रीवल्लभः शरणं मम ॥ ६ ॥

वल्लावीवल्लाभातःस्थलीलानुभववल्लभः ।
अन्यास्फुरणरूपः श्रीवल्लभः शरणं मम ॥ ७ ॥

जिताम्भोजपदाम्भोजविभूषितवसुन्धरः ।
सदा गोवर्धनस्थः श्रीवल्लभः शरणं मम ॥ ८ ॥

अनन्यस्तन्मना नित्यं पठेद्यः शरणाष्टकम् ।
स लभेत्साधनाभावयुक्तोऽप्येतत्पदाश्रयः ॥ ९ ॥

इति श्रीहरिरायजीविरचितं श्रीवल्लभशरणाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Vallabhasharana Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Subrahmanya Bhujanga Stotram 4 In Telugu