Yamuna Ashtapadi In Sanskrit

॥ Yamunashtapadi Sanskrit Lyrics ॥

॥ यमुनाष्टपदी ॥

नमो देवि यमुने नमो देवि यमुने
हर कृष्णमिलनान्तरायम् ।
निजनाथमार्गदायिनि कुमारी-
कामपूरिके कुरु भक्तिरायम् ॥ ध्रु० ॥

मधपकुलकलितकमलीवलीव्यपदेश-
धारितश्रीकृष्णयुतभक्तहृदये ।
सततमतिशयितहरिभावना-
जाततत्सारूप्यगदितहृदये ॥ १ ॥

निजकूलभवविविधतरुकुसुम-
युतनीरशोभया विलसदलिवृन्दे ।
स्मारयसि गोपीवृन्दपूजित-
सरसमीशवपुरानन्दकन्दे ॥ २ ॥

उपरि बलदमलकमलारुण-
द्युतिरेणुपरिमलितजलभरेणामुना ।
व्रजयुवतिकुचकुम्भकुङ्कुमारुण-
मुरः स्मारयामि मारपितुरधुना ॥ ३ ॥

अधिरजनि हरिविहृतिमीक्षितुं
कुवलयाभिधसुभगनयनान्युशति तनुषे ।
नयनयुगमल्पमिति बहुतराणि
च तानि रसिकतानिधितया कुरुषे ॥ ४ ॥

रजनिजागरजनितरागरञ्जित-
नयनपङ्कजैरहनि हरिमीक्षसे ।
मकरन्दरभरमिषेणानन्दपूरिता
सततमिह हर्षाश्रु मुञ्चसे ॥ ५ ॥

तटगतानेकशुकसारिकामुनि-
गणस्तुतविविधगुणसीधुसागरे ।
सङ्गता सततमिह भक्तजन-
तापहृदि राजसे रासरससागरे ॥ ६ ॥

रतिभरश्रमजलोदितकमल-
परिमलव्रजयुवतिमोदे ।
ताटङ्कचलनसुनिरस्तसङ्गीत-
युतमदमुदितमधुपकृतविनोदे ॥ ७ ॥

निजव्रजजनावनात्तगोवर्द्धने
राधिकाहृदयगतहृदयकमले ।
रतिमतिशयितरसविठ्ठलस्याशु
कुरु वेणुनिनदाह्वानसरले ॥ ८ ॥

श्लोकौ ।
व्रजपरिवृढवल्लभे कदा त्व-
च्चरणसरोरुहमीक्षणास्पदं मे ।
तव तटगतवालुकाः कदाहं
सकलनिजाङ्कगता मुदा करिष्ये ॥ १ ॥

वृन्दावने चारुबृहद्वने म-
न्मनोरथं पूरय सूरसूते ।
दृग्गोचरः कृष्णविहार एव
स्थितिस्त्वदीये तट एव भूयात् ॥ २ ॥

इति श्रीविठ्ठलेश्वरविरचिता यमुनाष्टपदी सामाप्त ।

– Chant Stotra in Other Languages –

Yamuna Ashtapadi Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Gopijana Vallabha Ashtakam 2 In Kannada