Yamunashtakam 4 In Sanskrit

॥ River Yamuna Ashtakam 4 Sanskrit Lyrics ॥

॥ श्रीयमुनाष्टकम् ४ ॥

यया तमीशवंशजः समापितो बृहद्धनं
मरुच्चलञ्जलप्रभूतवीचिविप्लुषां मिषात् ।
तदङ्घ्रिकञ्जभक्तियुक्तया सुदत्तमार्गया
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ १ ॥

यदम्बुपानमात्रतोऽतिभक्तियुक्तचेतसां
कृतैनसामहो निजस्वभावतः कृपायुता ।
प्रधाव्य धर्मराजतो महद्भयं निवर्त्य सा
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ २ ॥

यदीयनीरकेलितो दधार नन्दनन्दनः
समस्तसुन्दरीजने स्वभावमद्भुतं मुदा ।
परस्परावलोकनं विवर्धयन् सुदृष्टितः
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ३ ॥

यदङ्घ्रिफुल्लपङ्कजेऽवनप्रभावतः सदा
समस्तभक्तसङ्ग्रहं पुनाति सा जगत्त्रयम् ।
गिरीशधारिसङ्गमप्रबोधसत्सुखासदं
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ४ ॥

यथाऽऽपदश्च दूरतो ज्वलन्ति सम्पदः सदा
वसन्ति नन्दनन्दने दृढा रतिश्च जायते ।
महाष्टसिद्धिदाऽप्यशेषघोरपापसङ्क्षयः
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ५ ॥

यदङ्कतो विनिःसृतस्य पापिनोऽपि शोभया
जगत्त्रयं विमोहितं तदीयकान्तियुक्तया ।
प्रफुल्लसारसा प्रभूतरुद्रदेवसंस्तुता
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ६ ॥

यदीयभक्तसेवने कृते हरिः प्रसन्नता-
मवाप गोपिकापतिः समस्तकामदायिनी ।
तदम्बुमध्यखेलनप्रभूतभावलज्जितः
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ७ ॥

यदन्तिकस्थवालुकाः प्रयान्ति यत्र भूतले
गृहे गृहे वसन्त्यसौ हरिस्तदन्वगश्च सा ।
यदा तदा सदैव तत्र भक्तवृन्दवन्दिता
कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ७ ॥

See Also  Kalidasa Gangashtakam In Malayalam

हरिप्रिये तवाऽष्टकं सदा पठेत्स शुद्धधी-
र्य एव गोकुलाधिपस्य लेढि सङ्गमं शुभम् ।
पुनः प्रयाति तत्सुखं तटस्थरासमण्डल-
स्थितास्त्रिभङ्गिमोहनं दधाति तद्विचेष्टितम् ॥ ८ ॥

इति श्रीरघुनाथजीकृतं यमुनाष्टकं समाप्तम् ।

– Chant Stotra in Other Languages –

River Yamuna Stotram » Yamunashtakam 4 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil