1000 Names Of Sri Rama 3 In Sanskrit

॥ Sri Sahasranama Stotram 3 Sanskrit Lyrics ॥

॥ श्रीरामसहस्रनामस्तोत्रम् ॥
(अकारादिज्ञकारान्त)
॥श्रीः ॥

सङ्कल्पः –
यजमानः, आचम्य, प्राणानायम्य, हस्ते जलाऽक्षतपुष्पद्रव्याण्यादाय,
अद्येत्यादि-मास-पक्षाद्युच्चार्य एवं सङ्कल्पं कुर्यात् ।
शुभपुण्यतिथौ अमुकप्रवरस्य अमुकगोत्रस्य अमुकनाम्नो मम
यजमानस्य सकुटुम्बस्य श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं
त्रिविधतापोपशमनार्थं सकलमनोरथसिद्ध्यर्थं
श्रीसीतारामचन्द्रप्रीत्यर्थं च श्रीरामसहस्रनामस्तोत्रपाठं
करिष्ये । अथवा कौशल्यानन्दवर्द्धनस्य
श्रीभरतलक्ष्मणाग्रजस्य स्वमताभीष्टसिद्धिदस्य श्रीसीतासहितस्य
मर्यादापुरुषोत्तमश्रीरामचन्द्रस्य सहस्रनामभिः श्रीरामनामाङ्कित-
तुलसीदलसमर्पणसहितं पूजनमहं करिष्ये । अथवा सहस्रनमस्कारान्
करिष्ये ॥

विनियोगः –
ॐ अस्य श्रीरामचन्द्रसहस्रनामस्तोत्रमन्त्रस्य भगवान् शिव ऋषिः,
अनुष्टुप् छन्दः, श्रीरामसीतालक्ष्मणा देवताः,
चतुर्वर्गफलप्राप्त्ययर्थं पाठे (तुलसीदलसमर्पणे, पूजायां
नमस्कारेषु वा) विनियोगः ॥

करन्यासः –
श्रीरामचन्द्राय, अङ्गुष्ठाभ्यां नमः ।
श्रीसीतापतये, तर्जनीभ्यां नमः ।
श्रीरघुनाथाय, मध्यमाभ्यां नमः ।
श्रीभरताग्रजाय, अनामिकाभ्यां नमः ।
श्रीदशरथात्मजाय, कनिष्ठिकाम्यां नमः ।
श्रीहनुमत्प्रभवे, करतलकरपृष्ठाभ्यां नमः ॥

अङ्गन्यासः –
श्रीरामचन्द्राय, हृदयाय नमः ।
श्रीसीतापतये, शिरसे स्वाहा ।
श्रीरघुनाथाय शिखायै वषट् ।
श्रीभरताग्रजाय कवचाय हुम् ।
श्रीदशरथात्मजाय नेत्रत्रयाय वौषट् ।
श्रीहनुमत्प्रभवे, अस्त्राय फट् ॥

ध्यानम् –
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम् ।
वामाङ्कारूढसीतामुखकमलमिलल्लोचनं नीरदाभं
नानालङ्कारदीप्तं दधतमुरुजटामण्डनं रामचन्द्रम् ॥ १ ॥ var मण्डलं
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः ॥ २ ॥

मानस-पञ्चोपचार-पूजनम्-
१ ॐ लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
२ ॐ हं आकाशात्मने पुष्पं परिकल्पयामि ।
३ ॐ यं वाय्वात्मने धूपं परिकल्पयामि ।
४ ॐ रं वह्न्यात्मने दीपं परिकल्पयामि ।
५ ॐ वं अमृतात्मने नैवेद्यं परिकल्पयामि ।

अथ श्रीरामसहस्रनामस्तोत्रम् ।
ओं अनादिरधिवासश्चाच्युत आधार एव च ।
आत्मप्रचालकश्चादिरात्मभुङ्नामकस्तथा ॥ १ ॥

इच्छाचारीभबन्धारीडानाडीश्वर एव च ।
इन्द्रियेशश्चेश्वरश्च तथा चेतिविनाशकः ॥ २ ॥

उमाप्रिय उदारज्ञ उमोत्साहस्तथैव च ।
उत्साह उत्कटश्चैव उद्यमप्रिय एव च ॥ ३ ॥

ऊधाब्धिदानकर्ता च ऊनसत्त्वबलप्रदः ।
ऋणमुक्तिकरश्चाथ ऋणदुःखविमोचकः ॥ ४ ॥

एकपत्निश्चैकबाणधृट् तथा चैन्द्रजालिकः ।
ऐश्वर्यभोक्ता ऐश्वर्यमोषधीनां रसप्रदः ॥ ५ ॥

ओण्ड्रपुष्पाभिलाषी चौत्तानपादिसुखप्रियः ।
औदार्यगुणसम्पन्न औदरश्चौषधस्तथा ॥ ६ ॥

अंशांशिभावसम्पन्नश्चांसी चाङ्कुरपूरकः ।
काकुत्स्थः कमलानाथः कोदण्डी कामनाशनः ॥ ७ ॥

कार्मुकी काननस्थश्च कौसल्यानन्दवर्धनः ।
कोदण्डभञ्जनः काकध्वंसी कार्मुकभञ्जनः ॥ ८ ॥

कामारिपूजकः कर्ता कर्बूरकुलनाशनः ।
कबन्धारिः क्रतुत्राता कौशिकाह्लादकारकः ॥ ९ ॥

काकपक्षधरः कृष्णः कृष्णोत्पलदलप्रभः ।
कञ्जनेत्रः कृपामूर्तिः कुम्भकर्णविदारणः ॥ १० ॥

कपिमित्रं कपित्राता कपिकालः कपीश्वरः ।
कृतसत्यः कलाभोगी कलानाथमुखच्छविः ॥ ११ ॥

काननी कामिनीसङ्गी कुशतातः कुशासनः ।
कैकेयीकीर्तिसंहर्ता कृपासिन्धुः कृपामयः ॥ १२ ॥

कुमारः कुकुरत्राता करुणामयविग्रहः ।
कारुण्यं कुमूदानन्दः कौसल्यागर्भसेवनः ॥ १३ ॥

कन्दर्पनिन्दिताङ्गःश्च कोटिचन्द्रनिभाननः ।
कमलापूजितः कामः कमलापरिसेवितः ॥ १४ ॥

कौसल्येयः कृपाधाता कल्पद्रुमनिषेवितः ।
खङ्गहस्तः खरध्वंसी खरसैन्यविदारणः ॥ १५ ॥

खरषुत्रप्राणहर्ता खण्डितासुरजीवनः ।
खलान्तकः खस्थविरः खण्डितेशधनुस्तथा ॥ १६ ॥

खेदी खेदहरः खेददायकः खेदवारणः ।
खेदहा खरहा चैव खड्गी क्षिप्रप्रसादनः ॥ १७ ॥

खेलत्खञ्जननेत्रश्च खेलत्सरसिजाननः ।
खगचक्षुसुनासश्च खञ्जनेशसुलोचनः ॥ १८ ॥

खञ्जरीटपतिः खञ्जः खञ्जरीटविचञ्चलः ।
गुणाकरो गुणानन्दो गञ्जितेशधनुस्तथा ॥ १९ ॥

गुणसिन्धुर्गयावासी गयाक्षेत्रप्रकाशकः ।
गुहमित्रं गुहत्राता गुहपूज्यो गुहेश्वरः ॥ २० ॥

गुरुगौरवकर्ता च गरुगौरवरक्षकः ।
गुणी गुणप्रियो गीतो गर्गाश्रमनिषेवकः ॥ २१ ॥

गवेशो गवयत्राता गवाक्षामोददायकः ।
गन्धमादनपूज्यश्च गन्धमादनसेवितः ॥ २२ ॥

गौरभार्यो गुरुत्राता गरुयज्ञाधिपालकः ।
गोदावरीतीरवासी गङ्गास्नातो गणाधिपः ॥ २३ ॥

गरुत्मतरथी गुर्वी गुणात्मा च गुणेश्वरः ॥

गरुडी गण्डकीवासी गण्डकीतीरचारणः ॥ २४ ॥

गर्भवासनियन्ताऽथ गुरुसेवापरायणः ।
गीष्पतिस्तूयमानस्तु गीर्वाणत्राणकारकः ॥ २५ ॥

गौरीशपूजको गौरीहृदयानन्दवर्धनः ।
गीतप्रियो गीतरतस्तथा गीर्वाणवन्दितः ॥ २६ ॥

See Also  Sri Rama Pancharatnam In Sanskrit

घनश्यामो घनानन्दो घोरराक्षसघातकः ।
घनविघ्नविनाशो वै घनानन्दविनाशकः ॥ २७ ॥

घनानन्दो घनानादी घनगर्जिनिवारणः ।
घोरकाननवासी च घोरशस्त्रविनाशकः ॥ २८ ॥

घोरबाणधरो घोरधन्वी घोरपराक्रमः ।
घर्मबिन्दुमुखश्रीमान् घर्मबिन्दुविभूषितः ॥ २९ ॥

घोरमारीचहर्ता च घोरवीरविघातकः ।
चन्द्रवक्त्रश्चञ्चलाक्षश्चन्द्रमूर्तिश्चतुष्कलः ॥ ३० ॥

चन्द्रकान्तिश्चकोराक्षश्चकोरीनयनप्रियः ।
चण्डवाणश्चण्डधन्वा चकोरीप्रियदर्शनः ॥ ३१ ॥

चतुरश्चातुरीयुक्तश्चातुरीचित्तचोरक्रः ।
चलत्खड्गश्चलद्बाणश्चतुरङ्गबलान्वितः ॥ ३२ ॥

चारुनेत्रश्चारुवक्त्रश्चारुहासप्रियस्तथा ।
चिन्तामणिविभूषाङ्गश्चिन्तामणिमनोरथी ॥ ३३ ॥

चिन्तामणिसुदीपश्च चिन्तामणिमणिप्रियः ।
चित्तहर्ता चित्तरूपी चलच्चित्तश्चिताञ्चितः ॥ ३४ ॥

चराचरभयत्राता चराचरमनोहरः ।
चतुर्वेदमयश्चिन्त्यश्चिन्तासागरवारणः ॥ ३५ ॥

चण्डकोदण्डधारी च चण्डकोदण्डखण्डनः ।
चण्डप्रतापयुक्तश्च चण्डेषुश्चण्डविक्रमः ॥ ३६ ॥

चतुर्विक्रमयुक्तश्च चतुरङ्गबलापहः ।
चतुराननपूज्यश्च चतुःसागरशासिता ॥ ३७ ॥

चमूनाथश्चमूभर्ता चमूपूज्यश्चमूयुतः ।
चमूहर्ता चमूभञ्जी चमूतेजोविनाशकः ॥ ३८ ॥

चामरी चारुचरणश्चरणारुणशोभनः ।
चर्मी चर्मप्रियश्चारुमृगचर्मविभूषितः ॥ ३९ ॥

चिद्रूपी च चिदानन्दश्चित्स्वरूपी चराचरः ।
छत्ररूपी छत्रसङ्गी छात्रवृन्दविभूषितः ॥ ४० ॥

छात्रश्छत्रप्रियश्छत्री छत्रमोहार्तपालकः ।
छत्रचामरयुक्तश्च छत्रचामरमण्डितः ॥ ४१ ॥

छत्रचामरहर्ता च छत्रचामरदायकः ।
छत्रधारी छत्रहर्ता छत्रत्यागी च छत्रदः ॥ ४२ ॥

छत्ररूपी छलत्यागी छलात्मा छलविग्रहः ।
छिद्रहर्त्ता छिद्ररूपी छिद्रौघविनिषूदनः ॥ ४३ ॥

छिन्नशत्रुश्छिन्नरोगश्छिन्नधन्वा छलापहः ।
छिन्नछत्रप्रदाता च छन्दश्चारी छलापहा ॥ ४४ ॥

जानकीशो जितामित्रो जानकीहृदयप्रियः ।
जानकीपालको जेता जितशत्रुर्जितासुरः ॥ ४५ ॥

जानक्युद्धारको जिष्णुर्जितसिन्धुर्जयप्रदः ।
जानकीजीवनानन्दो जानकीप्राणवल्लभः ॥ ४६ ॥

जानकीप्राणभर्ता च जानकीदृष्टिमोहनः ।
जानकीचित्तहर्ता च जानकीदुःखभञ्जनः ॥ ४७ ॥

जयदो जयकर्ता च जगदीशो जनार्दनः ।
जनप्रियो जनानन्दो जनपालो जनोत्सुकः ॥ ४८ ॥

जितेन्द्रियो जितक्रोधो जीवेशो जीवनप्रियः ।
जटायुमोक्षदो जीवत्राता जीवनदायकः ॥ ४९ ॥

जयन्तारिर्जानकीशो जनकोत्सवदायकः ।
जगत्त्राता जगत्पाता जगत्कर्ता जगत्पतिः ॥ ५० ॥

जाड्यहा जाड्यहर्ता च जाड्येन्धनहुताशनः ।
जगत्स्थितिर्जगन्मूर्तिर्जगतां पापनाशनः ॥ ५१ ॥

जगच्चिन्त्यो जगद्वन्द्यो जगज्जेता जगत्प्रभुः ।
जनकारिविहर्ता च जगज्जाड्यविनाशकः ॥ ५२ ॥

जटी जटिलरूपश्च जटाधारी जटाबहः ।
झर्झरप्रियवाद्यश्च झञ्झावातनिवारकः ॥ ५३ ॥

झञ्झारवस्वनो झान्तो झार्णो झार्णवभूषितः ।
टङ्कारिष्टङ्कदाता च टीकादृष्टिस्वरूपधृट् ॥ ५४ ॥

ठकारवर्णनियमो डमरुध्वनिकारकः ।
ढक्कावाद्यप्रियो ढार्णो ढक्कावाद्यमहोत्सवः ॥ ५५ ॥

तीर्थसेवी तीर्थवासी तरुस्तीर्थनिवासकः ।
तालभेत्ता तालघाती तपोनिष्ठस्तपः प्रभुः ॥ ५६ ॥

तापसाश्रमसेवी च तपोधनसमाश्रयः ।
तपोवनस्थितश्चैव तपस्तापसपूजितः ॥ ५७ ॥

तन्वीभार्यस्तनूकर्ता त्रैलोक्यवशकारकः ।
त्रिलोकीशस्त्रिगुणकस्त्रैगुण्यस्त्रिदिवेश्वरः ॥ ५८ ॥

त्रिदिवेशस्त्रिसर्गेशस्त्रिमूर्तिस्त्रिगुणात्मकः ।
तन्त्ररूपस्तन्त्रविज्ञस्तन्त्रविज्ञानदायकः ॥ ५९ ॥

तारेशवदनोद्योती तारेशमुखमण्डलः ।
त्रिविक्रमस्त्रिपादूर्ध्वस्त्रिस्वरस्त्रिप्रवाहकः ॥ ६० ॥

त्रिपुरारिकृतभक्तिश्च त्रिपुरारिप्रपूजितः ।
त्रिपुरेशस्त्रिसर्गश्च त्रिविधस्त्रितनुस्तथा ॥ ६१ ॥

तूणी तूणीरयुक्तश्च तूणबाणधरस्तथा ।
ताटकावधकर्ता च ताटकाप्राणघातकः ॥ ६२ ॥

ताटकाभयकर्ता च ताटकादर्पनाशकः ।
थकारवर्णनियमस्थकारप्रियदर्शनः ॥ ६३ ॥

दीनबन्धुर्दयासिन्धुर्दारिद्रयापद्विनाशकः ।
दयामयो दयामूर्तिर्दयासागर एव च ॥ ६४ ॥

दिव्यमूर्तिर्दिव्यबाहुर्दीर्घनेत्रो दुरासदः ।
दुराधर्षो दुराराध्यो दुर्मदो दुर्गनाशनः ॥ ६५ ॥

दैत्यारिर्दनुजेन्द्रारिर्दानवेन्द्रविनाशनः ।
दूर्वादलश्याममूर्तिर्दूर्वादलघनच्छविः ॥ ६६ ॥

दूरदर्शी दीर्घदर्शी दुष्टारिबलहारकः ।
दशग्रीववधाकाङ्क्षी दशकन्धरनाशकः ॥ ६७ ॥

दूर्वादलश्यामकान्तो दूर्वादलसमप्रभः ।
दाता दानपरो दिव्यो दिव्यसिंहासनस्थितः ॥ ६८ ॥

दिव्यदोलासमासीनो दिव्यचामरमण्डितः ।
दिव्यच्छत्रसमायुक्तो दिव्यालङ्कारमण्डितः ॥ ६९ ॥

दिव्याङ्गनाप्रमोदश्च दिलीपान्वयसम्भवः ।
दूषणारिर्दिव्यरूपी देवो दशरथात्मजः ॥ ७० ॥

दिव्यदो दधिभुगू दानी दुःखसागरभञ्जनः ।
दण्डी दण्डधरो दान्तो दन्तुरो दनुजापहः ॥ ७१ ॥

धैर्यं धीरो धरानाथो धनेशो धरणीपतिः ।
धन्वी धनुष्मान् धेनुष्को धनुर्भक्ता धनाधिपः ॥ ७२ ॥

धार्मिको धर्मशीलश्च धर्मिष्ठो धर्मपालकः ।
धर्मपाता धर्मयुक्तो धर्मनिन्दकवर्जकः ॥ ७३ ॥

धर्मात्मा धरणीत्यागी धर्मयूपो धनार्थदः ।
धर्मारण्यकृतावासो धर्मारण्यनिषेवकः ॥ ७४ ॥

धरोद्धर्ता धरावासी धैर्यवान् धरणीधरः ।
नारायणो नरो नेता नन्दिकेश्वरपूजितः ॥ ७५ ॥

नायको नृपतिर्नेता नेयो नरपतिर्नटः ।
नटेशो नगरत्यागी नन्दिग्रामकृताश्रमः ॥ ७६ ॥

See Also  108 Names Of Budha Graha In Sanskrit

नवीनेन्दुकलाकान्तिर्नौपतिर्नृपतेः पतिः ।
नीलेशो नीलसन्तापी नीलदेहो नलेश्वरः ॥ ७७ ॥

नीलाङ्गो नीलमेघाभो नीलाञ्जनसमद्युतिः ।
नीलोत्पलदलप्रख्यो नीलोत्पलदलेक्षणः ॥ ७८ ॥

नवीनकेतकीकुन्दो नूत्नमालाविराजितः ।
नारीशो नागरीप्राणो नीलबाहुर्नदी नदः ॥ ७९ ॥

निद्रात्यागी निद्रितश्च निद्रालुर्नदबन्धकः ।
नादो नादस्वरूपच्च नादात्मा नादमण्डितः ॥ ८० ॥

पूर्णानन्दो परब्रह्म परन्तेजाः परात्परः ।
परं धाम परं मूर्तिः परहंसः परावरः ॥ ८१ ॥

पूर्णः पूर्णोदरः पूर्वः पूर्णारिविनिषूदनः ।
प्रकाशः प्रकटः प्राप्यः पद्मनेत्रः परोत्कटः ॥ ८२ ॥

पूर्णब्रह्म पूर्णमूर्तिः पूर्णतेजाः परंवषुः ।
पद्मबाहुः पद्यवक्त्रः पञ्चाननसुपूजितः ॥ ८३ ॥

प्रपञ्चः पञ्चपूतश्च पञ्चाम्नायः परप्रभूः ।
पद्मेशः पद्मकोशश्च पद्माक्षः पद्मलोचनः ॥ ८४ ॥

पद्मापतिः पुराणश्च पुराणषुरुषः प्रभुः ।
पयोधिशयनः पालः पालकः पृथिवीपतिः ॥ ८५ ॥

पवनात्मजवन्द्यश्च पवनात्मजसेवितः ।
पञ्चप्राणः पञ्चवायुः पञ्चाङ्गः पञ्चसायकः ॥ ८६ ॥

पञ्चबाणः पूरकश्च प्रपञ्चनाशकः प्रियः ।
पातालं प्रमथः प्रौढः पाशी प्रार्थ्यः प्रियंवदः ॥ ८७ ॥

प्रियङ्करः पण्डितात्मा पापहा पापनाशनः ।
पाण्ड्येशः पूर्णशीलश्च पद्मी पद्मसमर्चितः ॥ ८८ ॥

फणीशः फणिशायी च फणिपूज्यः फणान्वितः ।
फलमूलप्रभोक्ता च फलदाता फलेश्वरः ॥ ८९ ॥

फणिरूपः फणेर्भर्त्ता फणिभुग्वाहनस्तथा ।
फल्गुतीर्थसदास्नायी फल्गुतीर्थप्रकाशकः ॥ ९० ॥

फलाशी फलदः फुल्लः फलकः फलभक्षकः ।
बुधो बोधप्रियो बुद्धो बुद्धाचारनिवारकः ॥ ९१ ॥

बहुदो बलदो ब्रह्मा ब्रह्मण्यो ब्रह्मदायकः ।
भरतेशो भारतीशो भारद्वाजप्रपूजितः ॥ ९२ ॥

भर्ता च भगवान् भोक्ता भीतिघ्नो भयनाशनः ।
भवो भीतिहरो भव्यो भूपतिर्भूपवन्दितः ॥ ९३ ॥

भूपालो भवनं भोगी भावनो भुवनप्रियः ।
भारतारो भारहर्ता भारभृद्भरताग्रजः ॥ ९४ ॥

भूर्भुग्भुवनभर्ता च भूनाथो भूतिसुन्दरः ।
भेद्यो भेदकरो भेत्ता भूतासुरविनाशनः ॥ ९५ ॥

भूमिदो भूमिहर्ता च भूमिदाता च भूमिपः ।
भूतेशो भूतनाथश्च भूतेशपरिपूजितः ॥ ९६ ॥

भूधरो भूधराधीशो भूधरात्मा भयापहः ।
भयदो भयदाता च भयहर्ता भयावहः ॥ ९७ ॥

भक्षो भक्ष्यो भवानन्दो भवमूर्तिर्भवोदयः ।
भवाब्धिर्भारतीनाथो भरतो भूमिभूधरौ ॥ ९८ ॥

मारीचारिर्मरुत्त्राता माधवो मधुसूदनः ।
मन्दोदरीस्तूयमानो मधुगद्गदभाषणः ॥ ९९ ॥

मन्दो मन्दारुमन्तारौ मङ्गलं मतिदायकः ।
मायी मारीचहन्ता च मदनो मातृपालकः ॥ १०० ॥

महामायो महाकायो महातेजा महाबलः ।
महाबुद्धिर्महाशक्तिर्महादर्पो महायशाः ॥ १०१ ॥

महात्मा माननीयश्च मूर्तो मरकतच्छविः ।
मुरारिर्मकराक्षारिर्मत्तमातङ्गविक्रमः ॥ १०२ ॥

मधुकैटभहन्ता च मातङ्गवनसेवितः ।
मदनारिप्रभुर्मत्तो मार्तण्डकुलभूषणः ॥ १०३ ॥

मदो मदविनाशी च मर्दनो मुनिपूजकः ।
मुक्तिर्मरकताभश्च महिमा मननाश्रयः ॥ १०४ ॥

मर्मज्ञो मर्मघाती च मन्दारकुसुमप्रियः ।
मन्दरस्थो मुहूर्तात्मा मङ्गल्यो मङ्गलालकः ॥ १०५ ॥

मिहिरो मण्डलेशश्च मन्युर्मान्यो महोदधिः ।
मारुतो मारुतेयश्च मारुतीशो मरुत्तथा ॥ १०६ ॥

यशस्यश्च यशोराशिर्यादवो यदुनन्दनः ।
यशोदाहृदयानन्दो यशोदाता यशोहरः ॥ १०७ ॥

युद्धतेजा युद्धकर्ता योधो युद्धस्वरूपकः ।
योगो योगीश्वरो योगी योगेन्द्रो योगपावनः ॥ १०८ ॥

योगात्मा योगकर्ता च योगभृद्योगदायकः ।
योद्धा योधगणासङ्गी योगकृद्योगभूषणः ॥ १०९ ॥

युवा युवतिभर्ता च युवभ्राता युवार्जकः ।
रामभद्रो रामचन्द्रो राघवो रघुनन्दनः ॥ ११० ॥

रामो रावणहन्ता च रावणारी रमापतिः ।
रजनीचरहन्ता च राक्षसीप्राणहारकः ॥ १११ ॥

रक्ताक्षो रक्तपद्माक्षो रमणो राक्षसान्तकः ।
राघवेन्द्रो रमाभर्ता रमेशो रक्तलोचनः ॥ ११२ ॥

रणरामो रणासक्तो रणो रक्तो रणात्मकः ।
रङ्गस्थो रङ्गभूमिस्थो रङ्गशायी रणार्गलः ॥ ११३ ॥

रेवास्नायी रमानाथो रणदर्पविनाशनः ।
राजराजेश्वरो राजा राजमण्डलमण्डितः ॥ ११४ ॥

राज्यदो राज्यहर्ता च रमणीप्राणवल्लभः ।
राज्यत्यागी राज्यभोगी रसिकोऽथ रघूद्वहः ॥ ११५ ॥

See Also  1000 Names Of Sri Maha Tripura Sundari – Sahasranama Stotram In Kannada

राजेन्द्रो रधुनायश्च रक्षोहा रावणान्तकः ।
लक्ष्मीकान्तश्च लक्ष्मीपो लक्ष्मीशो लक्ष्मणाग्रजः ॥ ११६ ॥

लक्ष्मणत्राणकर्ता च लक्ष्मणप्रीतिपालकः ।
लीलावतारो लङ्कारिर्लङ्केशो लक्ष्मणेश्वरः ॥ ११७ ॥

लक्ष्मणत्राणकश्चैव लक्ष्मणप्रतिपालकः ।
लङ्गेशघातकश्चाथ लङ्गेशप्राणहारकः ॥ ११८ ॥

लङ्केशवीर्यहर्ता च लाक्षारसविलोचनः ।
लवङ्गकुसुमासक्तो लवङ्गकुसुमप्रियः ॥ ११९ ॥

ललनापालनो लक्षो लिङ्गरूपी लसत्तनुः ।
लावण्यरामो लावण्यं लक्ष्मीनारायणात्मकः ॥ १२० ॥

लवणाम्बुधिबन्धश्च लवणाम्बुधिसेतुकृत् ।
लीलामयो लवणजित् लोलो लवणजित्प्रियः ॥ १२१ ॥

वसुधापालको विष्णुर्विद्वान् विद्वज्जनप्रियः ।
वसुधेशो वासुकीशो वरिष्ठो वरवाहनः ॥ १२२ ॥

वेदो विशिष्टो वक्ता च वदान्यो वरदो विभुः ।
विधिर्विधाता वासिष्ठो वसिष्ठो वसुपालकः ॥ १२३ ॥

वसुर्वसुमतीभर्ता वसुमान् वसुदायकः ।
वार्ताधारी वनस्थश्च वनवासी वनाश्रयः ॥ १२४ ॥

विश्वभर्ता विश्वपाता विश्वनाथो विभावसुः ।
विभुर्विभुज्यमानश्च विभक्तो वधबन्धनः ॥ १२५ ॥

विविक्तो वरदो वन्यो विरक्तो वीरदर्पहा ।
वीरो वीरगुरुर्वीरदर्पध्वंसी विशाम्पतिः ॥ १२६ ॥

वानरारिर्वानरात्मा वीरो वानरपालकः ।
वाहनो वाहनस्थश्च वनाशी विश्वकारकः ॥ १२७ ॥

वरेण्यो वरदाता च वरदो वरवञ्चकः ।
वसुदो वासुदेवश्च वसुर्वन्दनमेव च ॥ १२८ ॥

विद्याधरो वेद्यविन्ध्यो तथा विन्ध्याचलाशनः ।
विद्याप्रियो विशिष्टात्मा वाद्यभाण्डप्रियस्तथा ॥ १२९ ॥

वन्द्यश्च वसुदेवश्च वसुप्रियवसुप्रदौ ।
श्रीदः श्रीशः श्रीनिवासः श्रीपतिः शरणाश्रयः ॥ १३० ॥

श्रीधरः श्रीकरः श्रीलः शरण्यः शरणात्मकः ।
शिवार्जितः शिवप्राणः शिवदः शिवपूजकः ॥ १३१ ॥

शिवकृत् शिवहर्ता च शिवात्मा शिववाञ्छकः ।
शायकी शङ्करात्मा च शङ्कःरार्चनतत्परः ॥ १३२ ॥

शङ्करेशः शिशुः शौरिः शाब्दिकः शब्दरूपकः ।
शब्दभेदी शब्दहर्ता शायकः शरणार्तिहा ॥ १३३ ॥

शर्वः शर्वप्रभुः शूली शूलपाणिप्रपूजितः ।
शार्ङ्गी च शङ्करात्मा च शिवः शकटभञ्जनः ॥ १३४ ॥

शान्तः शान्तिः शान्तिदाता शान्तिकृत् शान्तिकारकः ।
शान्तिकः शङ्खधारी च शङ्खी शङ्खध्वनिप्रियः ॥ १३५ ॥

षट्चक्रभेदनकरः षड्गुणश्च षडूर्मिकः ।
षडिन्द्रियः षडङ्गात्मा षोडशः षोडशात्मकः ॥ १३६ ॥

स्फुरत्कुण्डलहाराढ्यः स्फुरन्मरकतच्छविः ।
सदानन्दः सतीभर्ता सर्वेशः सज्जनप्रियः ॥ १३७ ॥

सर्वात्मा सर्वकर्ता च सर्वपाता सनातनः ।
सिद्धः साध्यः साधकेन्द्रः साधकः साधकप्रियः ॥ १३८ ॥

सिद्धेशः सिद्धिदः साधुः सत्कर्ता वै सदीश्वरः ।
सद्गतिः सञ्चिदानन्दः सद्ब्रह्मा सकलात्मकः ॥ १३९ ॥

सतीप्रियः सतीभार्यः स्वाध्यायश्च सतीपतिः ।
सत्कविः सकलत्राता सर्वपापप्रमोचकः ॥ १४० ॥

सर्वशास्त्रमयः सूर्यः सर्वाम्नायनमस्कृतः ।
सर्वदेवमयः साक्षी सर्वयज्ञस्वरूपकः ॥ १४१ ॥

सर्वः सङ्कटहर्ता च साहसी सगुणात्मकः ।
सुस्निग्धः सुखदाता च सत्त्वः सत्त्वगुणाश्रयः ॥ १४२ ॥

सत्यः सत्यव्रतश्चैव सत्यवान् सत्यपालकः ।
सत्यात्मा सुभगश्चैव सौभाग्यं सगरान्वयः ॥ १४३ ॥

सीतापतिः ससीतश्च सात्वतः सात्वताम्पतिः ।
हरिर्हली हलश्चैव हर-कोदण्ड-खण्डनः ॥ १४४ ॥

हुङ्कारध्वनिपूरश्च हुङ्कारध्वनिसम्भवः ।
हर्ता हरो हरात्मा च हारभूषणभूषितः ॥ १४५ ॥

हरकार्मुकभङ्क्ता च हरपूजापरायणः ।
क्षोणीशः क्षितिभुग् क्षोणीनेता चैव क्षमापरः ॥ १४६ ॥

क्षमाशीलः क्षमायुक्तः क्षोदी क्षोदविमोचनः ।
क्षेमङ्करस्तथा क्षेमदायको ज्ञानदायकः ॥ १४७ ॥

फलश्रुतिः –
नाम्नामेतत्सहस्रं तु श्रीरामस्य जगत्प्रभोः ।
रुद्रयामलतन्त्रेऽस्मिन् भुक्तिमुक्तिप्रदायकम् ॥ १४८ ॥

श्रीगौर्यै श्रावितं स्तोत्रं भक्त्या श्रीशस्मृना स्वयम् ।
रामसायुज्यलक्ष्मीकं सर्वसौख्यकरं नृणाम् ॥

पठन् श‍ृण्वन् गृणन् वापि ब्रह्मभूयाय कल्पते ॥ १४९ ॥

श्रीरामनाम्ना परमं सहस्रकं पापापहं पुण्यसुखावहं शुभम् ।
भक्तिप्रदं भक्तजनैकपालकं स्त्रीपुत्रपौत्रप्रदमिष्चदायकम् ॥ १५० ॥

॥ इति श्रीरामसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ ॐ तत्सत् श्रीसीतारामचन्द्रार्पणमस्तु ॥

– Chant Stotra in Other Languages –

1000 Names of Sri Rama » Sahasranama Stotram 3 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil