108 Names Of Airavatesvara In Sanskrit

॥ 108 Names of Airavatesvara Sanskrit Lyrics ॥

॥ श्रीऐरावतेश्वराष्टोत्तरशतनामवालिः ॥
ॐ श्रीगणेशाय नमः ।

ॐ गौरीप्राणवल्लभाय नमः ।
ॐ देव्यै कथितचरिताय नमः ।
ॐ हालाहलगृहीताय नमः ।
ॐ लोकशङ्कराय नमः ।
ॐ कावेरीतीरवासिने नमः ।
ॐ ब्रह्मणा सुपूजिताय नमः ।
ॐ ब्रह्मणो वरदायिने नमः ।
ॐ ब्रह्मकुण्डपुरस्थिताय नमः ।
ॐ ब्रह्मणा स्तुताय नमः ।
ॐ कैलासनाथाय नमः ॥ १० ॥

ॐ दिशां पतये नमः ।
ॐ सृष्टिस्थितिविनाशानां कर्त्रे नमः ।
ॐ गङ्गाधराय नमः ।
ॐ सोमाय नमः ।
ॐ रुद्राय नमः ।
ॐ अमिततेजसे नमः ।
ॐ पशूनां पतये नमः ।
ॐ पार्वतीपतये नमः ।
ॐ अन्तकारये नमः ।
ॐ नागाजिनधराय नमः ॥ २० ॥

ॐ पुरुषाय नमः ।
ॐ महेशाय नमः ।
ॐ पुष्टानां पतये नमः ।
ॐ साम्बाय नमः ।
ॐ गुरवे नमः ।
ॐ कैवल्यपददायिने नमः ।
ॐ भवाय नमः ।
ॐ शर्वाय नमः ।
ॐ सदसस्पतये नमः ।
ॐ शम्भवे नमः ॥ ३० ॥

ॐ गिरिशन्ताय नमः ।
ॐ नीलग्रीवाय नमः ।
ॐ कपर्दिने नमः ।
ॐ वरिष्ठाय नमः ।
ॐ महीयसे नमः ।
ॐ विश्वम्भराय नमः ।
ॐ विश्वाय नमः ।
ॐ जगतां पतये नमः ।
ॐ सच्चिदानन्दरूपाय नमः ।
ॐ समस्तव्यस्तरूपिणे नमः ॥ ४० ॥

See Also  Nirgunamanasa Pooja In English

ॐ सोमविभूषाय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ समस्तमुनिवन्द्याय नमः ।
ॐ देवदेवाय नमः ।
ॐ महादेवाय नमः ।
ॐ भर्गाय नमः ।
ॐ मायातीताय नमः ।
ॐ कर्पूरधवलाङ्गाय नमः ।
ॐ मेरुकोदण्डधारिणे नमः ।
ॐ कुबेरबन्धवे नमः ॥ ५० ॥

ॐ कुमारजनकाय नमः ।
ॐ भूतिभूषितगात्राय नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ भवरोगविनाशाय नमः ।
ॐ भक्ताभीष्टप्रदायिने नमः ।
ॐ पञ्चास्याय नमः ।
ॐ इन्द्रदोषनिवृत्तिदाय नमः ।
ॐ इन्द्रेण अमृताभिषिक्ताय नमः ।
ॐ सुधाकूपजलाभिषिक्ताय नमः ।
ॐ रम्भया सुपूजिताय नमः ॥ ६० ॥

ॐ रम्भालिङ्गितगात्राय नमः ।
ॐ इन्द्रेण स्तुताय नमः ।
ॐ कारणकारणाय नमः ।
ॐ पिनाकपाणये नमः ।
ॐ देवेशाय नमः ।
ॐ गिरीन्द्रशायिने नमः ।
ॐ अनन्तमूर्तये नमः ।
ॐ शिवया समेताय नमः ।
ॐ प्रपञ्चविस्तारविशेषशून्याय नमः ।
ॐ त्रयीमयेशाय नमः ॥ ७० ॥

ॐ सर्वप्रधानाय नमः ।
ॐ सतां मताय नमः ।
ॐ मृत्युञ्जयाय नमः ।
ॐ त्रिपुरान्तकाय नमः ।
ॐ जटाभारविभूषिताय नमः ।
ॐ अखिललोकसाक्षिणे नमः ।
ॐ सुसूक्ष्मरूपाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ शूलपाणये नमः ।
ॐ सुरवन्दिताय नमः ॥ ८० ॥

See Also  108 Names Of Kirata Sastha In Kannada

ॐ विष्णुसुपूजिताय नमः ।
ॐ अखिललोकवन्द्याय नमः ।
ॐ कल्याणरूपाय नमः ।
ॐ सदाशिवाय नमः ।
ॐ सर्वज्ञमूर्तये नमः ।
ॐ सकलागमाय नमः ।
ॐ भीमाय नमः ।
ॐ नित्याय नमः ।
ॐ कृपालवे नमः ।
ॐ भक्तपरायणाय नमः ॥ ९० ॥

ॐ समस्तार्तिहराय नमः ।
ॐ रम्भाशापविमोचकाय नमः ।
ॐ ऐरावतदोषनिवृत्तिकराय नमः ।
ॐ गजोत्तमवरदायिने नमः ।
ॐ पञ्चमुनिभिः प्रशस्तवैभवाय नमः ।
ॐ पञ्चमूर्तिस्वरूपाय नमः ।
ॐ पञ्चामृताभिषेकसुप्रीताय नमः ।
ॐ पञ्चपुष्पसुपूजिताय नमः ।
ॐ पञ्चाक्षरजपसिद्धिप्रदायकाय नमः ।
ॐ पञ्चपातकनाशकाय नमः ॥ १०० ॥

ॐ भक्तरक्षणदीक्षिताय नमः ।
ॐ दर्शनादेव भुक्तिमुक्तिदाय नमः ।
ॐ पञ्चानाम्ना प्रसिद्धवैभवाय नमः ।
ॐ पारिजातवनेशाय नमः ।
ॐ ब्रह्मेशाय नमः ।
ॐ इन्द्रपुरीशाय नमः ।
ॐ पुष्पवनेशाय नमः ।
ॐ श्रीअलङ्कारवल्लीसमेत श्रीऐरावतेश्वराय नमः ॥ १०८ ॥

– Chant Stotra in Other Languages –

Lord Indra Slokam » Airavatesvara Ashtottara Shatanamavali » 108 Names of Airavatesvara Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Shiva Ashtottarashatanama Stotram In Tamil