300 Names Of Ganapathy – Sri Ekarna Ganesha Trishati In Sanskrit

The following is a very rare Trishati / 300 names on Lord Ekarna Ganesha taken from Vinayaka Tantram. The brief Phalashruti mentions that whoever recites this hymn on Sri Vinayaka with devotion three times in Chaturthi (fourth lunar day) or Tuesday will get all rightful wishes fulfilled. a good spouse, progeny, wealth, knowledge and liberation.

॥ Ekarnaganesha Trishati Sanskrit Lyrics ॥

॥ श्रीएकार्णगणेशत्रिशती ॥

श्रीदेव्युवाच –
एकार्णस्य त्रिंशतीं ब्रूहि गणेशस्य महेश्वर ॥

श्रीशिव उवाच –

॥ विनियोगः ॥

हरिः ॐ । अस्य श्रीएकार्णगणेशत्रिशतीस्तोत्रमहामन्त्रस्य
श्रीगणको ऋषिः । अनुष्टुप्छन्दः । ब्रह्मणस्पतिर्देवता । गं बीजं ।
श्र्यों शक्तिः । श्रीएकार्णगणेशप्रसादसिद्ध्यर्थे जपे विनियोगः ॥

॥ ध्यानम् ॥

ध्यायेन्नित्यं गणेशं परमगुणयुतं ध्यानसंस्थं त्रिनेत्रं
एकं देवं त्वनेकं परमसुखयुतं देवदेवं प्रसन्नम् ।
शुण्डादण्डप्रचण्डगलितमदजलोल्लोलमत्तालिजालं
श्रीमन्तं विघ्नराजं सकलसुखकरं श्रीगणेशं नमामि ॥

॥ पञ्चपूजा ॥

ॐ लं पृथिव्यात्मने गन्धं समर्पयामि ।
ॐ हं आकाशात्मने पुष्पैः पूजयामि ।
ॐ यं वाय्वात्मने धूपमाघ्रापयामि ।
ॐ रं वह्न्यात्मने दीपं दर्शयामि ।
ॐ वं अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
ॐ सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

॥ अथ एकार्णगणेशत्रिशती ॥

गंबीजमन्त्रनिलयो गंबीजो गंस्वरूपवान् ॥ १ ॥

गंकारबीजसंवेद्यो गंकारो गंजपप्रियः ॥ २ ॥

गंकाराख्यपरंब्रह्म गंकारशक्तिनायकः ।
गंकारजपसन्तुष्टो गंकारध्वनिरूपकः ॥ ३ ॥

गंकारवर्णमध्यस्थो गंकारवृत्तिरूपवान् ।
गंकारपत्तनाधीशो गंवेद्यो गंप्रदायकः ॥ ४ ॥

गंजापकधर्मदाता गंजापीकामदायकः ।
गंजापीनामर्थदाता गंजापीभाग्यवर्द्धनः ॥ ५ ॥

गंजापकसर्वविद्यादायको गंस्थितिप्रदः ।
गंजापकविभवदो गंजापकजयप्रदः ॥ ६ ॥

See Also  Vinayaka Stavaraja In Telugu

गंजपेनसन्तुष्ट्य भुक्तिमुक्तिप्रदायकः ।
गंजापकवश्यदाता गंजापीगर्भदोषहा ॥ ७ ॥

गंजापकबुद्धिदाता गंजापीकीर्तिदायकः ।
गंजापकशोकहारी गंजापकसुखप्रदः ॥ ८ ॥

गंजापकदुःखहर्ता गमानन्दप्रदायकः ।
गंनामजपसुप्रीतो गंजापीजनसेवितः ॥ ९ ॥

गंकारदेहो गंकारमस्तको गंपदार्थकः ।
गंकारशब्दसन्तुष्टो गन्धलुभ्यन्मधुव्रतः ॥ १० ॥

गंयोगैकसुसंलभ्यो गंब्रह्मतत्त्वबोधकः ।
गंभीरो गन्धमातङ्गो गन्धाष्टकविराजितः ॥ ११ ॥

गन्धानुलिप्तसर्वाङ्गो गन्धपुण्ड्रविराजितः ।
गर्गगीतप्रसन्नात्मा गर्गभीतिहरः सदा ॥ १२ ॥

गर्गारिभञ्जको नित्यं गर्गसिद्धिप्रदायकः ।
गजवाच्यो गजलक्ष्यो गजराट् च गजाननः ॥ १३ ॥

गजाकृतिर्गजाध्यक्षो गजप्राणो गजाजयः ।
गजेश्वरो गजेशानो गजमत्तो गजप्रभुः ॥ १४ ॥

गजसेव्यो गजवन्द्यो गजेन्द्रश्च गजप्रभुः ।
गजानन्दो गजमयो गजगञ्जकभञ्जकः ॥ १५ ॥

गजात्मा गजमन्त्रात्मा गजज्ञानप्रदायकः ।
गजाकारप्राणनाथो गजानन्दप्रदायकः ॥ १६ ॥

गजको गजयूथस्थो गजसायुज्यकारकः ।
गजदन्तो गजसेतुः गजदैत्यविनाशकः ॥ १७ ॥

गजकुंभो गजकेतुः गजमायो गजध्वनिः ।
गजमुख्यो गजवरो गजपुष्टिप्रदायकः ॥ १८ ॥

गजमयो गजोत्पत्तिः गजामयहरः सदा ।
गजहेतुर्गजत्राता गजश्रीः गजगर्जितः ॥ १९ ॥

गजास्यश्च गजाधीशो गजासुरजयोद्धुरः ॥ २० ॥

गजब्रह्मा गजपतिः गजज्योतिर्गजश्रवाः ।
गुणेश्वरो गुणातीतो गुणमायामयो गुणी ॥ २१ ॥

गुणप्रियो गुणांभोधिः गुणत्रयविभागकृत् ।
गुणपूर्णो गुणमयो गुणाकृतिधरः सदा ॥ २२ ॥

गुणभाग्गुणमाली च गुणेशो गुणदूरगः ।
गुणज्येष्ठोऽथ गुणभूः गुणहीनपराङ्मुखः ॥ २३ ॥

गुणप्रवणसन्तुष्टो गुणश्रेष्ठो गुणैकभूः ।
गुणप्रविष्टो गुणराट् गुणीकृतचराचरः ॥ २४ ॥

गुणमुख्यो गुणस्रष्टा गुणकृद्गुणमण्डितः ।
गुणसृष्टिजगत्सङ्घो गुणभृद्गुणपारदृक् ॥ २५ ॥

गुणाऽगुणवपुर्गुणो गुणेशानो गुणप्रभुः ।
गुणिप्रणतपादाब्जो गुणानन्दितमानसः ॥ २६ ॥

गुणज्ञो गुणसंपन्नो गुणाऽगुणविवेककृत् ।
गुणसञ्चारचतुरो गुणप्रवणवर्द्धनः ॥ २७ ॥

See Also  Manoratha Siddhiprada Ganesha Stotram In Kannada

गुणलयो गुणाधीशो गुणदुःखसुखोदयः ।
गुणहारी गुणकलो गुणतत्त्वविवेचकः ॥ २८ ॥

गुणोत्कटो गुणस्थायी गुणदायी गुणप्रभुः ।
गुणगोप्ता गुणप्राणो गुणधाता गुणालयः ॥ २९ ॥

गुणवत्प्रवणस्वान्तो गुणवद्गौरवप्रदः ।
गुणवत्पोषणकरो गुणवच्छत्रुसूदनः ॥ ३० ॥

गुरुप्रियो गुरुगुणो गुरुमायो गुरुस्तुतः ।
गुरुवक्षा गुरुभुजो गुरुकीर्तिर्गुरुप्रियः ॥ ३१ ॥

गुरुविद्यो गुरुप्राणो गुरुयोगप्रकाशकः ।
गुरुदैत्यप्राणहरो गुरुबाहुबलोच्छ्रयः ॥ ३२ ॥

गुरुलक्षणसंपन्नो गुरुमान्यप्रदायकः ।
गुरुदैत्यगळच्छेत्ता गुरुधार्मिककेतनः ॥ ३३ ॥

गुरुजङ्घो गुरुस्कन्धो गुरुशुण्डो गुरुप्रदः ।
गुरुपालो गुरुगळो गुरुप्रणयलालसः ॥ ३४ ॥

गुरुशास्त्रविचारज्ञो गुरुधर्मधुरन्धरः ।
गुरुसंसारसुखदो गुरुमन्त्रफलप्रदः ॥ ३५ ॥

गुरुतन्त्रो गुरुप्रज्ञो गुरुदृग्गुरुविक्रमः ।
ग्रन्थगेयो ग्रन्थपूज्यो ग्रन्थग्रन्थनलालसः ॥ ३६ ॥

ग्रन्थकेतुर्ग्रन्थहेतुर्ग्रन्थाऽनुग्रहदायकः ।
ग्रन्थान्तरात्मा ग्रन्थार्थपण्डितो ग्रन्थसौहृदः ॥ ३७ ॥

ग्रन्थपारङ्गमो ग्रन्थगुणविद्ग्रन्थविग्रहः ।
ग्रन्थकेतुर्ग्रन्थसेतुर्ग्रन्थसन्देहभञ्जकः ॥ ३८ ॥

ग्रन्थपारायणपरो ग्रन्थसन्दर्भशोधकः ।
गीतकीर्तिर्गीतगुणो गीतातत्त्वार्थकोविदः ॥ ३९ ॥

गीतासंशयसंछेत्ता गीतासङ्गीतशासनः ।
गताहङ्कारसञ्चारो गतागतनिवारकः ॥ ४० ॥

गतासुहृद्गताज्ञानो गतदुष्टविचेष्टितः ।
गतदुःखो गतत्रासो गतसंसारबन्धनः ॥ ४१ ॥

गतगल्पनिर्गतभवो गततत्त्वार्थसंशयः ।
गयानाथो गयावासो गयासुरवरप्रदः ॥ ४२ ॥

गयातीर्थफलाध्यक्षो गयावासीनमस्कृतः ।
गयामयो गयाक्षेत्रो गयायात्राफलप्रदः ॥ ४३ ॥

गयावासीस्तुतगुणो गयाक्षेत्रनिवासकृत् ।
गायकप्रणयी गाता गायकेष्टफलप्रदः ॥ ४४ ॥

गायको गायकेशानो गायकाऽभयदायकः ।
गायकप्रवणस्वान्तो गायकोत्कटविघ्नहा ॥ ४५ ॥

गन्धानुलिप्तसर्वाङ्गो गन्धर्वसमरक्षमः ।
गच्छधाता गच्छभर्ता गच्छप्रियकृतोद्यमः ॥ ४६ ॥

गीर्वाणगीतचरितो गृत्समाऽभीष्टदायकः ।
गीर्वाणसेवितपदो गीर्वाणफलदायकः ॥ ४७ ॥

गीर्वाणगणसंपत्तिः गीर्वाणगणपालकः ।
ग्रहत्राता ग्रहासाध्यो ग्रहेशानो ग्रहेश्वरः ॥ ४८ ॥

गदाधरार्चितपदो गदायुद्धविशारदः ।
गुहाग्रजो गुहाशायी गुहप्रीतिकरः सदा ॥ ४९ ॥

See Also  Ganesha Shodasha Namavali In Tamil And English

गिरिव्रजवनस्थायी गिरिराजजयप्रदः ।
गिरिराजसुतासूनुः गिरिराजप्रपालकः ॥ ५० ॥

गर्गगीतप्रसन्नात्मा गर्गानन्दकरः सदा ।
गर्गवर्गपरित्राता गर्गसिद्धिप्रदायकः ॥ ५१ ॥

गणकप्रवणस्वान्तो गणकप्रणयोत्सुकः ।
गळलग्नमहानादो गद्यपद्यविवेचकः ॥ ५२ ॥

गळकुष्ठव्यधाहर्ता गळत्कुष्ठिसुखप्रदः ।
गर्भसन्तोषजनको गर्भामयनिवारकः ॥ ५३ ॥

गुरुसन्तापशमनो गुरुराज्यसुखप्रदः ।
॥ फलश्रुतिः ॥

इत्थं देवी गजास्यस्य नाम्नां त्रिशतमीरितम् ॥ ५४ ॥

गकारादिजगीवन्द्यं गोपनीयं प्रयत्नतः ।
नास्तिकाय न वक्तव्यं शठाय गुरुविद्विषे ॥ ५५ ॥

वक्तव्यं भक्तियुक्ताय शिष्याय गुणशालिने ।
चतुर्थ्यां भौमवारे वा यः पठेद्भक्तिभावतः ॥ ५६ ॥

यं यं कामं समुद्दिश्य त्रिसन्ध्यं वा सदा पठेत् ।
तं तं काममवाप्नोति सत्यमेतन्न संशयः ॥ ५७ ॥

नारी वा पुरुषो वापि सायं प्रातर्दिने दिने ।
पठन्ति नियमेनैव दीक्षिता गाणपोत्तमाः ॥ ५८ ॥

तेभ्यो ददाति विघ्नेशः पुरुषार्थचतुष्टयम् ।
कन्यार्थी लभते रूपगुणयुक्तां तु कन्यकाम् ॥ ५९ ॥

पुत्रार्थी लभते पुत्रान् गुणिनो भक्तिमत्तरान् ।
वित्तार्थी लभते राजराजेन्द्र सदृशं धनम् ॥ ६० ॥

विद्यार्थी लभते विद्याश्चतुर्दशमितावराः ।
निष्कामस्तु जपेन्नित्यं यदि भक्त्या दृढव्रतः ॥ ६१ ॥

स तु स्वानन्दभवनं कैवल्यं वा समाप्नुयात् ॥ ६२ ॥

॥ इति श्रीविनायकतन्त्रे ईश्वरपार्वतीसंवादे
श्रीएकार्णगणेशत्रिशतीस्तोत्रं सम्पूर्णम् ॥

– Chant Stotra in Other Languages -Sri Ekarna Ganesha Trishati:

300 Names of Ganapathy – Sri Ekarna Ganesha Trishati in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil