॥ Sri Venkatesha Mangala Ashtakam 2 Sanskrit Lyrics ॥
॥ श्रीवेङ्कटेशमङ्गलाष्टकम् २ ॥
जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः
तार्क्ष्याहीशमुखासनस्त्रिभुवनस्थाशेषलोकप्रियः
श्रीमत्स्वामिसरःसुवर्णमुखरीसंवेष्टितः सर्वदा
श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम् ॥ १ ॥
सन्तप्तामलजातरूपरचितागारे निविष्टः सदा
स्वर्गद्वारकवाटतोरणयुतः प्राकारसप्तान्वितः ।
भास्वत्काञ्चनतुङ्गचारुगरुडस्तम्भे पतत्प्राणिनां
स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम् ॥ २ ॥
अत्युच्चाद्रिविचित्रगोपुरगणैः पूर्णैः सुवर्णाचलैः
विस्तीर्णामलमण्टपायुतयुतैर्नानावनैर्निर्भयैः ।
पञ्चास्येभवराहखड्गमृगशार्दूलादिभिः श्रीपतिः
नित्यं वेदपरायणसुकृतिनां दद्यात् सदा मङ्गलम् ॥ ३ ॥
भेरीमङ्गलतुर्यगोमुखमृदङ्गादिस्वनैः शोभिते
तन्त्रीवेणुसुघोषशृङ्गकलहैः शब्दैश्च दिव्यैर्निजैः ।
गन्धर्वाप्सरकिन्नरोरगनृभिर्नृत्यद्भिरासेव्यते
नानावाहनगः समस्तफलदो दद्यात् सदा मङ्गलम् ॥ ४ ॥
यः श्रीभार्गववासरे नियमतः कस्तूरिकारेणुभिः
श्रीमत्कुङ्कुमकेसरामलयुतः कर्पूरमुख्यैर्जलैः ।
स्नातः पुण्यसुकञ्चुकेन विलसत्काञ्चीकिरीटादिभिः
नानाभूषणपूगशोभिततनुर्दद्यात् सदा मङ्गलम् ॥ ५ ॥
तीर्थं पाण्डवनामकं शुभकरं त्वाकाशगङ्गा परा
इत्यादीनि सुपुण्यराशिजनकान्यायोजनैः सर्वदा ।
तीर्थं तुम्बुरुनामकं त्वघहरं धारा कुमाराभिधा
नित्यानन्दनिधिर्महीधरवरो दद्यात् सदा मङ्गलम् ॥ ६ ॥
आर्तानामतिदुस्तरामयगणैर्जन्मान्तराघैरपि
सङ्कल्पात् परिशोध्य रक्षति निजस्थानं सदा गच्छताम् ।
मार्गे निर्भयतः स्वनामगृणतो गीतादिभिः सर्वदा
नित्यं शास्त्रपरायणैः सुकृतिनां दद्यात् सदा मङ्गलम् ॥ ७ ॥
नित्यं ब्राह्मणपुण्यवर्यवनितापूजासमाराधनैरत्नैः
पायसभक्ष्यभोज्यसुघृतक्षीरादिभिः सर्वदा ।
नित्यं दानतपःपुराणपठनैराराधिते वेङ्कटक्षेत्रे
नन्दसुपूर्णचित्रमहिमा दद्यात् सदा मङ्गलम् ॥ ८ ॥
इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै-
राख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।
माङ्गल्यं सकलार्थदं शुभकरं वैवाहिकादिस्थले
तेषां मङ्गलशंसतां सुमनसां दद्यात् सदा मङ्गलम् ॥ ९ ॥
॥ इति श्रीवादिराजतीर्थश्रीचरणकृतं श्रीवेङ्कटेशमङ्गलाष्टकम् ॥
– Chant Stotra in Other Languages –
Sri Vishnu Slokam » Venkatesha Mangalashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil