Sri Venkatesha Ashtakam 2 In Sanskrit

॥ Sri Venkatesha Ashtakam 2 Sanskrit Lyrics ॥

॥ श्रीवेङ्कटेशाष्टकम् २ ॥

ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।
अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १ ॥

नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।
प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २ ॥

मोहादिषडरिव्यूहग्रहाकुलमहार्णवे ।
मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३ ॥

नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् ।
श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४ ॥

राजद्राजीवपत्रश्रीमदमोचनलोचनम् ।
मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥ ५ ॥

यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् ।
विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम् ॥ ६ ॥

नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः ।
ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥ ७ ॥

यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी ।
तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥ ८ ॥

वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् ।
यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥

॥ इति श्री वट्टेपल्ले नरकण्ठीरव शास्त्रि विरचितम्
श्री वेङ्कटेशाष्टकं समाप्तम् ॥

– Chant Stotra in Other Languages –

Sri Vishnu Slokam » Sri Venkatesha Ashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Bhavabandha Muktya Ashtakam In Malayalam