Hymn To Nitai Or Nityananda In Sanskrit

॥ Hymn to Nitai or Nityananda Sanskrit Lyrics ॥

॥ नित्यानन्दाष्टकम् ॥
शरच्चन्द्रभ्रान्तिं स्फुरदमलकान्तिं गजगतिं
हरिप्रेमोन्मत्तं धृतपरमसत्त्वं स्मितमुखम् ।
सदाघूर्णन्नेत्रं करकलितवेत्रं कलिभिदं
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ १ ॥

रसानामागारं स्वजनगणसर्वस्वमतुलं
तदीयैकप्राणप्रमितवसुधाजाह्नवपतिम् ।
सदाप्रेमोन्मादं परमविदितं मन्दमनसां
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ २ ॥

शचीसूनुप्रेष्ठं निखिलजगदिष्टं सुखमयं
कलौ मज्जज्जिवोद्धरणकरणोद्दामकरुणम् ।
हरेराख्यानाद्वा भवजलधिगर्वोन्नतिहरं
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ३ ॥

अये भ्रातर्नॄणां कलिकलुषिणां किं नु भविता
तथा प्रायश्चित्तं रचय यदनायासत इमे ।
व्रजन्ति त्वामित्थं सह भगवता मन्त्रयति यो
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ४ ॥

यथेष्ठं रे भ्रातः कुरु हरिहरिध्वानमनिशं
ततो वः संसाराम्बुधितरणदायो मयि लगेत् ।
इदं बाहुस्फोटैरटति रटयन् यः प्रतिगृहं
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ५ ॥

बलात् संसाराम्भोनिधिहरणकुम्भोद्भवमहो
सतां श्रेयःसिन्धून्नतिकुमुदबन्धुं समुदितं ।
खलश्रेणीस्फूर्जित्तिमिरहरसूर्यप्रभमहं
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ६ ॥

नटन्तं गायन्तं हरिमनुवदन्तं पथि पथि
व्रजन्तं पश्यन्तं स्वमपि न दयन्तं जनगणम् ।
प्रकुर्वन्तं सन्तं सकरुणदृगन्तं प्रकलनाद्-
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ७ ॥

सुबिभ्राणं भ्रातुः करसरसिजं कोमलतरं
मिथो वक्त्रालोकोच्छलितपरमानन्दहृदयम् ।
भ्रमन्तं माधुर्यैरहह मदयन्तं पुरजनान्
भजे नित्यानन्दं भजनतरुकन्दं निरवधि ॥ ८ ॥

See Also  Sri Ganesha Namashtaka Stotram In Bengali

रसानामाधारं रसिकवरसद्वैष्णवधनं
रसागारं सारं पतितततितारं स्मरणतः ।
परं नित्यानन्दाष्टकमिदमपूर्वं पठति यः
तदङ्घ्रिद्वन्द्वाब्जं स्फुरतु नितरां तस्य हृदये ॥ ९ ॥

इति वृन्दावनदासठाकूरविरचितं नित्यानन्दाष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Hymn to Nitai or Nityananda Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil