Sri Vallabha Bhava Ashtakam In Sanskrit

॥ Sri Vallabha Bhava Ashtakam Sanskrit Lyrics ॥

॥ वल्लभभावाष्टकम् ॥

पतिः श्रीवल्लभोऽस्माकं गतिः श्रीवल्लभः सदा ।
मतिः श्रीवल्लभे ह्यस्तां रतिः श्रीवल्लभेऽस्तु मे ॥ १ ॥

वृत्तिः श्रीवस्त्वभीयैव कृतिः श्रीवल्लभार्थिनी ।
दर्शनं श्रीवल्लभस्य स्मरणं वल्लभप्रभोः ॥ २ ॥

त्वत्प्रसादसुधाघ्राणं त्वदुच्छिष्टरसाग्रहः ।
श्रवणं त्वद्गुणानां हि स्मरणं त्वत्पदाब्जयोः ॥ ३ ॥

गृणनं तन्महित्वस्य सेवनं करयोर्भवेत् ।
त्वत्स्वरूपान्तरो भोगो गमनं तव सन्निधौ ॥ ४ ॥

त्वदग्रे सर्वदा स्थानं सङ्गस्त्वत्सेवकैः सदा ।
त्वद्वार्ताऽतिरुचिर्निष्ठा भूयात्त्वद्वाक्यमात्रगा ॥ ५ ॥

श्रद्धा त्वदेकसम्बधे विश्वासस्त्वत्पदाब्जयोः ।
दास्यं त्वदीयमेवास्तु भूयात्त्वच्चरणाश्रयः ॥ ६ ॥

मस्तके श्रीवल्लभोस्तु हृदि तिष्ठतु वल्लभः ।
अभितः श्रीवल्लभोऽस्तु सर्वं श्रीवल्लभो मम ॥ ७ ॥

नमः श्रीवल्लभायैव दैन्यं श्रीवल्लभे सदा ।
प्रार्थना श्रीवल्लभेऽस्तु तत्पदाधीनता मम ॥ ८ ॥

एतदष्टकपाठेन श्रीवल्लभपदाम्बुजे ।
भवेद्भावो विनाऽऽयासं भक्तिमार्गवतात्मनाम् ॥ ९ ॥

इति श्रीहरिदासोक्तं श्रीवल्लभभावाष्टकम् सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Sri Vallabha Bhava Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Gokulesh Advatrimshannama Ashtakam In Bengali