Shankaraashtakam In Marathi

॥ Shankaraashtakam in Marathi ॥

॥ शङ्कराष्टकम ॥
शीर्षजटागणभारं गरळाहारं समस्तसंहारम ॥
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ 1 ॥

चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम ॥
कृतनरमस्तकमलं कालं कालस्य कोमलं वन्दे ॥ 2 ॥

कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम ॥
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ 3 ॥

कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम ॥
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ 4 ॥

त्रिपुरादिकदनुजान्तं सदैव संशान्तम ॥
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ॥ 5 ॥

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम ॥
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ 6 ॥

करतलकलितपिनाकं विगतजराकंसुकर्मणां पाकम ॥
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ 7 ॥

भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम ॥
प्रथमसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ 8 ॥

यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम ॥
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम ॥ 9 ॥

इति ब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं संपूर्णम ॥

– Chant Stotra in Other Languages –

Shankaraashtakam in GujaratiBengali – Marathi –  KannadaMalayalam ।  Telugu

See Also  Pancha Brahma Upanishad In Bengali