॥ Bhavabhanjana Stotram in Marathi ॥
॥ भवभञ्जन स्तोत्रम ॥
रदच्छदाधः कृतबिम्बगर्वः पदप्रणम्राहितसर्वविद्यः ।
कैलासश्रृङ्गादृतनित्यवासो धुनोतु शीघ्रं भवबन्धमीशः ॥ 1 ॥
राकाशशाङ्कप्रतिमानकन्तिः कोकाहितप्रोल्लसदुत्तमाङ्ग ।
शैलेन्द्रजालिङ्गितवामभागी धुनोतु शीघ्रं भवबन्धमीशः ॥ 2 ॥
य इदं परमं स्तोत्रं भवभञ्जननामकम ।
संपठेत प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ 3 ॥
भवदुःखविनिर्मुक्तो जायते सुरपूजितः ।
न पुनर्लभते जन्म भुवि शंभुप्रसादतः ॥ 4 ॥
इति भवभञ्जन स्तोत्रं संपूर्णम ॥
– Chant Stotra in Other Languages –
Bhavabhanjana Stotram in Marathi – Gujarati । Bengali – Kannada – Telugu