Agastya Gita In Sanskrit

॥ Agastyageetaa in ॥

॥ अगस्त्यगीता ॥ (Varahapurana 51-67)
श्रीवराह उवाच ।
श्रुत्वा दुर्वाससो वाक्यं धरणीव्रतमुत्तमम् ।
ययौ सत्यतपाः सद्यो हिमवत्पार्श्वमुत्तमम् ॥ ५१.१॥

पुष्पभद्रा नदी यत्र शिला चित्रशिला तथा ।
वटो भद्रवटो यत्र तत्र तस्याश्रमो बभौ ।
तत्रोपरि महत् तस्य चरितं संभविष्यति ॥ ५१.२॥

धरण्युवाच ।
बहुकल्पसहस्राणि व्रतस्यास्य सनातन ।
मया कृतस्य तपसस्तन्मया विस्मृतं प्रभो ॥ ५१.३॥

इदानीं त्वत्प्रसादेन स्मरणं प्राक्तनं मम ।
जातं जातिस्मरा चास्मि विशोका परमेश्वर ॥ ५१.४॥

यदि नाम परं देव कौतुकं हृदि वर्तते ।
अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् ।
यच्चकार स राजा च तन्ममाचक्ष्व भूधर ॥ ५१.५॥

श्रीवराह उवाच ।
प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः ।
वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः ।
अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ॥ ५१.६॥

भद्राश्व उवाच ।
भगवन् कर्मणा केन छिद्यते भवसंसृतिः ।
किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ॥ ५१.७॥

अगस्त्य उवाच ।
श‍ृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् ।
दृश्यादृश्यविभागोत्थां समाहितमना नृप ॥ ५१.८॥

नाहो न रात्रिर्न दिशोऽदिशश्च
न द्यौर्न देवा न दिनं न सूर्यः ।
तस्मिन् काले पशुपालेति राजा
स पालयामास पशूननेकान् ॥ ५१.९॥

तान् पालयन् स कदाचिद् दिदृक्षुः
पूर्वं समुद्रं च जगाम तूर्णम् ।
अनन्तपारस्य महोदधेस्तु
तीरे वनं तत्र वसन्ति सर्पाः ॥ ५१.१०॥

अष्टौ द्रुमाः कामवहा नदी च
तुर्यक् चोद्र्ध्वं बभ्रमुस्तत्र चान्ये ।
पञ्च प्रधानाः पुरुषास्तथैकां
स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ॥ ५१.११॥

साऽपि स्त्री स्वे वक्षसि धारयन्ती
सहस्रसूर्यप्रतिमं विशालम् ।
तस्याधरस्त्रिर्विकारस्त्रिवर्ण-
स्तं राजानं पश्य परिभ्रमन्तम् ॥ ५१.१२॥

तूष्णींभूता मृतकल्पा इवासन्
नृपोऽप्यसौ तद्वनं संविवेश ।
तस्मिन् प्रविष्टे सर्व एते विविशु-
र्भयादैक्यं गतवन्तः क्षणेन ॥ ५१.१३॥

तैः सर्पैः स नृपो दुर्विनीतैः
संवेष्टितो दस्युभिश्चिन्तयानः ।
कथं चैतेन भविष्यन्ति येन
कथं चैते संसृताः संभवेयुः ॥ ५१.१४॥

एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः ।
श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ॥ ५१.१५॥

स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि ।
एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ॥ ५१.१६॥

तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् ।
एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ॥ ५१.१७॥

मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् ।
संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ॥ ५१.१८॥

ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् ।
संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ॥ ५१.१९॥

रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः ।
मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ॥ ५१.२०॥

तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् ।
अन्येषामपि पापानां कोटिः साग्राभवन्नृप ॥ ५१.२१॥

गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः ।
सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ॥ ५१.२२॥

एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता ।
एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ॥ ५१.२३॥

तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे ।
त्रिवर्णः पुरुषो राजन्नब्रवीद् राजसत्तमम् ॥ ५१.२४॥

त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते ।
अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ॥ ५१.२५॥

यदि नाम कृताः सर्वे वयं देव पराजिताः ।
एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ॥ ५१.२६॥

मर्य्येके तव पुत्रत्वं गते सर्वेषु संभवः ।
एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ॥ ५१.२७॥

पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम ।
युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ॥ ५१.२८॥

एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् ।
तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ॥ ५१.२९॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकपञ्चाशोऽध्यायः ॥ ५१॥

अगस्त्य उवाच ।
स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव ।
अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ॥ ५२.१॥

तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी ।
सा तु विज्ञानदं पुत्रं मनोह्वं विससर्ज ॥ ५२.२॥

तस्यापि सर्वरूपाः स्युस्तनयाः पञ्चभोगिनः ।
यथासंख्येन पुत्रास्तु तेषामक्षाभिधानकाः ॥ ५२.३॥

एते पूर्वं दस्यवः स्युस्ततो राज्ञा वशीकृताः ।
अमूर्त्ता इव ते सर्वे चक्रुरायतनं शुभम् ॥ ५२.४॥

नवद्बारं पुरं तस्य त्वेकस्तम्भं चतुष्पथम् ।
नदीसहस्रसंकीर्ण जलकृत्य समास्थितम् ॥ ५२.५॥

तत्पुरं ते प्रविविशुरेकीभूतास्ततो नव ।
पुरुषो मूर्त्तिमान् राजा पशुपालोऽभवत् क्षणात् ॥ ५२.६॥

ततस्तत्पुरसंस्थस्तु पशुपालो महानृपः ।
संसूच्य वाचकाञ्छब्दान् वेदान् सस्मार तत्पुरे ॥ ५२.७॥

आत्मस्वरूपिणो नित्यास्तदुक्तानि व्रतानि च ।
नियमान् क्रतवश्चैव सर्वान् राजा चकार ह ॥ ५२.८॥

स कदाचिन्नृपः खिन्नः कर्मकाण्डं प्ररोचयन् ।
सर्वज्ञो योगनिद्रायां स्थित्वा पुत्रं ससर्ज ह ॥ ५२.९॥

चतुर्वक्त्रं चतुर्बाहुं चतुर्वेदं चतुष्पथम् ।
तस्मादारभ्य नृपतेर्वशे पश्वादयः स्थिताः ॥ ५२.१०॥

तस्मिन् समुद्रे स नृपो वने तस्मिंस्तथैव च ।
तृणादिषु नृपस्सैव हस्त्यादिषु तथैव च ।
समोभवत् कर्मकाण्डादनुज्ञाय महामते ॥ ५२.११॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वापञ्चाशोऽध्यायः ॥ ५२॥

भद्राश्व उवाच ।
मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया ।
तस्या विभूतिरभवत् कस्य केन कृतेन ह ॥ ५३.१॥

अगस्त्य उवाच ।
आगतेयं कथा चित्रा सर्वस्य विषये स्थिता ।
त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ॥ ५३.२॥

तस्यां संभूतिमिच्छन् यस्तस्योपायं स्वयं परम् ।
पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ॥ ५३.३॥

स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः ।
तस्य पुत्रः स्वरो नाम सप्तमूर्तिंरसौ स्मृतः ॥ ५३.४॥

तेन प्रोक्तं तु यत्किंचित् चतुर्णां साधनं नृप ।
ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ॥ ५३.५॥

चतुर्णां प्रथमो यस्तु चतुःश‍ृङ्गसमास्थितः ।
वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः ।
चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्या सुतं व्रजेत् ॥ ५३.६॥

सप्तमूर्त्तेस्तु चरितं शुश्रुंवुः प्रथमं नृप ।
ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ॥ ५३.७॥

ततो भृत्यादिभरणं वृषभारोहणं त्रिषु ।
वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ॥ ५३.८॥

अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा ।
भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ॥ ५३.९॥

नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः ।
चिन्तयामास जनकं कथं पश्याम्यहं नृप ॥ ५३.१०॥

मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः ।
न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ॥ ५३.११॥

पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् ।
एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ॥ ५३.१२॥

क्वापि सम्पत्स्यते भावो द्रष्टव्यश्चापि ते पिता ।
एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ॥ ५३.१३॥

तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ ।
तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ॥ ५३.१४॥

तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् ।
नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ॥ ५३.१५॥

तच्चावृतं प्रधानेन दशधा संवृतो बभौ ।
चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ॥ ५३.१६॥

प्रकामं तिलसंच्छिन्ने तदमूलौ न मे बभौ ।
अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ॥ ५३.१७॥

तस्मिन् छिन्ने तदस्यांसे ह्रस्वमन्यमवेक्षत ।
अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ॥ ५३.१८॥

तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत ।
कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ॥ ५३.१९॥

तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् ।
तस्मिंच्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ॥ ५३.२०॥

पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत ।
तद्वद् ह्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ॥ ५३.२१॥

एवं कृते शरीरं तु ददर्श स पुनः प्रभुः ।
स्वकीयमेवाकस्यान्तः पितरं नृपसत्तम ॥ ५३.२२॥

त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु ।
समं दृष्ट्वा परं हर्षं उभे विसस्वरार्त्तवित् ॥ ५३.२३॥

एवंविधोऽसौ पुरुषः स्वरनामा महातपाः ।
मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ॥ ५३.२४॥

एतस्मादेव तस्याशु कथया राजसत्तम ।
संभूतिरभवद् राजन् विवृत्तेस्त्वेष एव तु ॥ ५३.२५॥

एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् ।
य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ॥ ५३.२६॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिपञ्चाशोऽध्यायः ॥ ५३॥

भद्राश्व उवाच ।
विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद् द्विज ।
कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ॥ ५४.१॥

अगस्त्य उवाच ।
विष्णुरेव सदाराध्यः सर्वदेवैरपि प्रभुः ।
तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥ ५४.२॥

रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा ।
नारायणः परो देवस्तं प्रणम्य न सीदति ॥ ५४.३॥

श्रूयते च पुरा राजन् नारदेन महात्मना ।
कथितं तुष्टिदं विष्णोर्व्र्तमप्सरसां तथा ॥ ५४.४॥

नारदस्तु पुरा कल्पे गतवान् मानसं सरः ।
स्नानार्थं तत्र चजापश्यत् सर्वमप्सरसां गणम् ॥ ५४.५॥

तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् ।
अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ॥ ५४.६॥

देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् ।
ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ॥ ५४.७॥

अप्सरस ऊचुः ।
भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज ।
नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ॥ ५४.८॥

नारद उवाच ।
प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः ।
स च मे न कृतो गर्वाद् युष्माभिर्यौवनस्मयात् ॥ ५४.९॥

तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् ।
भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः ।
तन्नामोच्चारणादेव कृतं सर्वं न संशयः ॥ ५४.१०॥

इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् ।
वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ॥ ५४.११॥

नारद उवाच ।
वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा ।
तस्यामुपोष्य विधिवन् निशायां हरिमर्च्चयेत् ॥ ५४.१२॥

पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् ।
तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ॥ ५४.१३॥

तस्योपरि ततः पुष्पैर्मण्डपं कारयेद् बुधः ।
नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ॥ ५४.१४॥

मनोभवायेति शिर अनङ्गायेति वै कटिम् ।
कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ॥ ५४.१५॥

See Also  Shrimad Bhagavad Gita Shankara Bhashya In Sanskrit

मन्मथायेति पादौ तु हरयेति च सर्वतः ।
पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस्तथा ॥ ५४.१६॥

पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् ।
चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ॥ ५४.१७॥

एवं कृत्वा प्रभाते तु प्रदद्याद् ब्राह्मणाय वै ।
वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ॥ ५४.१८॥

ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् ।
एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ॥ ५४.१९॥

अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः ।
अवमानस्य तस्यायं विपाको वो भविष्यति ॥ ५४.२०॥

एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः ।
तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ॥ ५४.२१॥

व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः ।
अवमानेऽपहरणं गोपालैर्वो भविष्यति ।
पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ॥ ५४.२२॥

अगस्त्य उवाच ।
एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् ।
ता अप्येतद् व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ॥ ५४.२३॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशोऽध्यायः ॥ ५४॥

अगस्त्य उवाच ।
श‍ृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् ।
येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥ ५५.१॥

मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् ।
एकभक्तं सिते पक्षे यावत् स्याद् दशमी तिथिः ॥ ५५.२॥

ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च ।
भक्त्या संकल्पयेत् प्राग्वद् द्वादशीं पक्षतो नृप ॥ ५५.३॥

तामप्येवमुषित्वा च यवान् विप्राय दापयेत् ।
कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ॥ ५५.४॥

चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम ।
चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः ।
सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ॥ ५५.५॥

श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् ।
त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ॥ ५५.६॥

तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः ।
अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ॥ ५५.७॥

संकल्पं पूर्ववद् भक्त्या द्वादश्यां संयतेन्द्रियः ।
एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ॥ ५५.८॥

काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् ।
भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ॥ ५५.९॥

सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् ।
सम्पूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ॥ ५५.१०॥

जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् ।
आमन्त्र्यं संख्यया राजंश्चतुर्विंशति यावतः ॥ ५५.११॥

तेषां एकैकशो गां च अनड्वाहं च दापयेत् ।
एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ॥ ५५.१२॥

कटकानि च सौवर्णकर्णाभरणकानि च ।
एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ॥ ५५.१३॥

तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् ।
स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ॥ ५५.१४॥

यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा ।
वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ॥ ५५.१५॥

गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् ।
एवं कृते तथा कृष्णशुक्लद्वादश्यमेव च ॥ ५५.१६॥

रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः ।
दापयेद् ब्राह्मणानां तु तथा तेषां च भोजनम् ।
उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥ ५५.१७॥

एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम ।
प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ॥ ५५.१८॥

दाने च भोजने चैव कृत्वा यत् फलमाप्यते ।
तन्न शक्यं सहस्रेण वर्षाणामपि कीर्तितुम् ॥ ५५.१९॥

तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ ।
व्रतस्यास्य पुरा वृत्तं शुभान्यस्य श‍ृणुष्व तत् ॥ ५५.२०॥

आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः ।
स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् ।
तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ॥ ५५.२१॥

तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ ।
तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ॥ ५५.२२॥

राजोवाच ।
पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् ।
याजकं यजनासक्तं कीर्त्या युक्तं चिराभुषम् ।
असंख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ॥ ५५.२३॥

एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् ।
ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर ।
यतन्मुनिपदं नाम यत्र गत्वा न शोचति ॥ ५५.२४॥

एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः ।
तस्यापि राज्ञः पुत्रोऽभूद् वत्सप्रीर्नाम नामतः ॥ ५५.२५॥

वेदवेदाङ्गसम्पन्नो यज्ञयाजी बहुश्रुतः ।
तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ॥ ५५.२६॥

राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् ।
जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ॥ ५५.२७॥

आराधयामास हरिं निराहारो जितेन्द्रियः ।
हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ॥ ५५.२८॥

भद्राश्व उवाच ।
कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः ।
किं च तस्याभवद् देवं स्तुवतः पुरुषोत्तमम् ॥ ५५.२९॥

दुर्वासा उवाच ।
हिमवन्तं समाश्रित्य राजा तद्गतमानसः ।
स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ॥ ५५.३०॥

राजोवाच ।
क्षराक्षरं क्षीरसमुद्रशायिनं
क्षितीधरं मूर्तिमतां परं पदम् ।
अतीन्द्रियं विश्वभुजां पुरः कृतं
निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ ५५.३१॥

त्वमादिदेवः परमार्थरूपी
विभुः पुराणः पुरुषोत्तमश्च ।
अतीन्द्रियो वेदविदां प्रधानः
प्रपाहि मां शङ्खगदास्त्रपाणे ॥ ५५.३२॥

कृतं त्वया देव सुरासुराणां
संकीर्त्यतेऽसौ च अनन्तमूर्ते ।
सृष्ट्यर्थमेतत् तव देव विष्णो
न चेष्टितं कूटगतस्य तत्स्यात् ॥ ५५.३३॥

तथैव कूर्मत्वमृगत्वमुच्चै –
स्त्वया कृतं रूपमनेकरूप ।
सर्वज्ञभावादसकृच्च जन्म
संकीर्त्त्यते तेऽच्युत नैतदस्ति ॥ ५५.३४॥

नृसिंह नमो वामन जमदग्निनाम
दशास्यगोत्रान्तक वासुदेव ।
नमोऽस्तु ते बुद्ध कल्किन् खगेश
शंभो नमस्ते विबुधारिनाशन ॥ ५५.३५॥

नमोऽस्तु नारायण पद्मनाभ
नमो नमस्ते पुरुषोत्तमाय ।
नमः समस्तामरसङ्घपूज्य
नमोऽस्तु ते सर्वविदां प्रधान ॥ ५५.३६॥

नमः करालास्य नृसिंहमूर्त्ते
नमो विशालाद्रिसमान कूर्म ।
नमः समुद्रप्रतिमान मत्स्य
नमामि त्वां क्रोडरूपिननन्त ॥ ५५.३७॥

सृष्ट्यर्थमेतत् तव देव चेष्टितं
न मुख्यपक्षे तव मूर्त्तिता विभो ।
अजानता ध्यानमिदं प्रकाशितं
नैभिर्विना लक्ष्यसे त्वं पुराण ॥ ५५.३८॥

आद्यो मखस्त्वं स्वयमेव विष्णो
मखाङ्गभूतोऽसि हविस्त्वमेव ।
पशुर्भवान् ऋत्विगिज्यं त्वमेव
त्वां देवसङ्घा मुनयो यजन्ति ॥ ५५.३९॥

यदेतस्मिन् जगध्रुवं चलाचलं
सुरादिकालानलसंस्थमुत्तमम् ।
न त्वं विभक्तोऽसि जनार्दनेश
प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ ५५.४०॥

नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे ।
शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ ५५.४१॥

एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना ।
विशालाम्रतलस्थेन तुतोष परमेश्वरः ॥ ५५.४२॥

कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् ।
तस्मिन्नागतमात्रे तु सीप्याम्रः कुब्जकोऽभवत् ॥ ५५.४३॥

तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः ।
विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ॥ ५५.४४॥

तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति ।
अनेनागतमात्रेण कृतमेतन्न संशयः ॥ ५५.४५॥

तस्मादेषैव भविता भगवान् पुरुषोत्तमः ।
एवमुक्त्वा नमश्चक्रे तस्य विप्रस्य स नृपः ॥ ५५.४६॥

अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः ।
आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ॥ ५५.४७॥

एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः ।
बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ॥ ५५.४८॥

वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते ।
मयि प्रसन्ने त्रैलोक्य तिलमात्रमिदं नृप ॥ ५५.४९॥

एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः ।
मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किंचन ॥ ५५.५०॥

एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह ।
मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः ।
यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ॥ ५५.५१॥

तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणान्ता यदि स्वकम् ।
कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च ।
विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ॥ ५५.५२॥

एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः ।
पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ॥ ५५.५३॥

तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज ।
येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ॥ ५५.५४॥

य इदं श‍ृणुयान्नित्यं प्रातरुत्थाय मानवः ।
पठेद् यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ॥ ५५.५५॥

शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर ।
स सर्वसम्पदं चेह भुक्त्वेते तल्लयं व्रजेत् ॥ ५५.५६॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चपञ्चाशोऽध्यायः ॥ ५५॥

अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् ।
येन सद्यो भवेद् धन्य अधन्योऽपि हि यो भवेत् ॥ ५६.१॥

मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर्भवेत् ।
तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ॥ ५६.२॥

वैश्वानराय पादौ तु अग्नयेत्युदरं तथा ।
हविर्भुंजाय च उरो द्रविणोदेति वै भुजो ॥ ५६.३॥

संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः ।
अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥ ५६.४॥

तस्यैव पुरतः कुण्डं कारयित्वा विघानतः ।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ॥ ५६.५॥

ततः संयावकं चान्नं भुञ्जीयाद् घृतसंयुतम् ।
कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ॥ ५६.६॥

चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः ।
श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ॥ ५६.७॥

समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः ।
रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥ ५६.८॥

कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च ।
सर्वावयवसम्पूर्णं ब्राह्मणं प्रियदर्शनम् ॥ ५६.९॥

पूजयित्वा विधानेन रक्तवस्त्रयुगेन च ।
पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ॥ ५६.१०॥

धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् ।
धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥ ५६.११॥

एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः ।
सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ॥ ५६.१२॥

इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् ।
अनेन कृतमात्रेण जायते नात्र संशयः ॥ ५६.१३॥

प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह ।
दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ॥ ५६.१४॥

योऽपीदं श‍ृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः ।
उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ॥ ५६.१५॥

श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना ।
धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ॥ ५६.१६॥

See Also  Vichakhnu Gita In Gujarati

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्पञ्चाशोऽध्यायः ॥ ५६॥

अगस्त्य उवाच ।
अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् ।
यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ॥ ५७.१॥

यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः ।
एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ॥ ५७.२॥

द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने ।
नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ॥ ५७.३॥

बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् ।
एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ॥ ५७.४॥

परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् ।
तस्यार्घं दापयेद् धीमान् मन्त्रेण परमेष्ठिनः ॥ ५७.५॥

नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च ।
यज्ञलोकाधिपतये सोमाय परमात्मने ॥ ५७.६॥

अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः ।
रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ॥ ५७.७॥

फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः ।
शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ॥ ५७.८॥

आषाढादिचतुष्के तु तिलहोमं तु कारयेत् ।
तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥ ५७.९॥

ततः संवत्सरे पूर्णे शशिनं कृतराजतम् ।
सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् ।
एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ॥ ५७.१०॥

कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः ।
त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ॥ ५७.११॥

अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः ।
दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ॥ ५७.१२॥

आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप ।
तस्य व्रतान्ते संतुष्टः स्वयमेव जनार्दनः ।
यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ॥ ५७.१३॥

तां कलां सोमराजाऽसौ तपसा लब्धवानिति ।
सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ॥ ५७.१४॥

द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप ।
तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ॥ ५७.१५॥

न विष्णोर्व्यतिरिक्तं स्याद् दैवतं नृपसत्तम ।
नामभेदेन सर्वत्र संस्थितः परमेश्वरः ॥ ५७.१६॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः ॥ ५७॥

अगस्त्य उवाच ।
अतः परं महाराज सौभाग्यकरणं व्रतम् ।
श‍ृणु येनाशु सौभाग्यं स्त्रीपुंसामुपजायते ॥ ५८.१॥

फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः ।
उपासितव्या नक्तेन शुचिना सत्यवादिना ॥ ५८.२॥

सश्रीकं च हरिं पूज्य रुद्रं वा चोमया सह ।
या श्रीः सा गिरिजा प्रोक्ता यो हरिः स त्रिलोचनः ॥ ५८.३॥

एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते ।
एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥ ५८.४॥

रुद्रो जनानां मर्त्यानां काव्यं शास्त्रं न तद्भवेत् ।
विष्णुं रुद्रकृतं ब्रूयात् श्रीर्गौरी न तु पार्थिव ।
तन्नास्तिकानां मर्त्यानां काव्यं ज्ञेयं विचक्षणैः ॥ ५८.५॥

एवं ज्ञात्वा सलक्ष्मीकं हरिं सम्पूज्य भक्तितः ।
मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥ ५८.६॥

गम्भीरायेति पादौ तु सुभगायेति वै कटिम् ।
उदरं देवदेवेति त्रिनेत्रायेति वै मुखम् ।
वाचस्पतये च शिरो रुद्रायेति च सर्वतः ॥ ५८.७॥

एवमभ्यर्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् ।
हरं वा गौरिसंयुक्तं गन्धपुष्पादिभिः क्रमात् ॥ ५८.८॥

ततस्तस्याग्रतो होमं कारयेन्मधुसर्पिषा ।
तिलैः सह महाराज सौभाग्यपतयेति च ॥ ५८.९॥

ततस्त्वक्षारविरसं निस्नेहं धरणीतले ।
गोधूमान्नं तु भुञ्जीत कृष्णेप्येवं विधिः स्मृतः ।
आषाढादिद्वितीयां तु पारणं तत्र भोजनम् ॥ ५८.१०॥

यवान्नं तु ततः पश्चात् कार्त्तिकादिषु पार्थिव ।
श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः शुचिः ॥ ५८.११॥

ततो माघसिते पक्षे तृतीयायां नराधिप ।
सौवर्णां कारयेद् गौरीं रुद्रं चैकत्र बुद्धिमान् ॥ ५८.१२॥

सलक्ष्मीकं हरिं चापि यथाशक्त्या प्रसन्नधीः ।
ततस्तं ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥ ५८.१३॥

अन्नेन हीने वेदानां पारगे साधुवर्तिनि ।
सदाचारेति वा दद्यादल्पवित्ते विशेषतः ॥ ५८.१४॥

षड्भिः पात्रैरुपेतं तु ब्राह्मणाय निवेदयेत् ।
एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥ ५८.१५॥

तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् ।
पञ्चमं लवणैः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥ ५८.१६॥

एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् ।
सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥ ५८.१७॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टपञ्चाशोऽध्यायः ॥ ५८॥

अगस्त्य उवाच ।
अथाविघ्नकरं राजन् कथयामि श‍ृणुष्व मे ।
येन सम्यक् कृतेनापि न विघ्नमुपजायते ॥ ५९.१॥

चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् ।
नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ।
तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद् भवेत् ॥ ५९.२॥

चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा ।
सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ॥ ५९.३॥

पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा ।
एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ॥ ५९.४॥

हयमेधस्य विघ्ने तु संजाते सगरः पुरा ।
एतदेव चरित्वा तु हयमेधं समाप्तवान् ॥ ५९.५॥

तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा ।
एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् ।
मया समुद्रं पिबता एतदेव कृतं व्रतम् ॥ ५९.६॥

अन्यैरपि महीपालैरेतदेव कृतं पुरा ।
तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परंतप ॥ ५९.७॥

शूराय धीराय गजाननाय
लम्बोदरायैकदंष्ट्राय चैव ।
एवं पूज्यस्तद्दिने तत् पुनश्च
होमं कुर्याद् विघ्नविनाशहेतोः ॥ ५९.८॥

अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते ।
विनायकस्य कृपया कृतकृत्यो नरो भवेत् ॥ ५९.९॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवपञ्चाशोऽध्यायः ॥ ५९॥

अगस्त्य उवाच ।
शान्तिव्रतं प्रवक्ष्यामि तव राजन् श‍ृणुष्व तत् ।
येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥ ६०.१॥

पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत ।
आरभेद् वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ॥ ६०.२॥

नक्तं देवं तु सम्पूज्य हरिं शेषोपरि स्थितम् ।
अनन्तायेति पादौ तु वासुकायेति वै कटिम् ॥ ६०.३॥

तक्षकायेति जठरमुरः कर्कोटकाय च ।
पद्माय कण्ठं सम्पूज्य महापद्माय दोर्युगम् ॥ ६०.४॥

शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः ।
एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ॥ ६०.५॥

क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः ।
तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥ ६०.६॥

एवं संवत्सरस्यान्ते कुर्याद् ब्राह्मणभोजनम् ।
नागं तु काञ्चनं कुर्याद् ब्राह्मणाय निवेदयेत् ॥ ६०.७॥

एवं यः कुरुते भक्त्या व्रतमेतन्नराधिपः ।
तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ॥ ६०.८॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः ॥ ६०॥

अगस्त्य उवाच ।
कामव्रतं महाराज श‍ृणु मे गदतोऽधुना ।
येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ॥ ६१.१॥

षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् ।
पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ॥ ६१.२॥

षष्ठ्यां तु पारयेद् धीमान् प्रथमं तु फलं नृप ।
ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥ ६१.३॥

ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः ।
तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ॥ ६१.४॥

अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् ।
पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ॥ ६१.५॥

षड्वक्त्र कार्त्तिक गुह सेनानी कृत्तिकासुत ।
कुमार स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ॥ ६१.६॥

समाप्तौ तु व्रतस्यास्य कुर्याद् ब्राह्मणभोजनम् ।
षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥ ६१.७॥

सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक ।
त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र माचिरम् ॥ ६१.८॥

अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् ।
ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ॥ ६१.९॥

अपुत्रो लभते पुत्रमधनो लभते धनम् ।
भ्रष्टराज्यो लभेद् राज्यं नात्र कार्या विचारणा ॥ ६१.१०॥

एतद् व्रतं पुरा चीर्णं नलेन नृपसत्तम ।
ऋतुपर्णस्य विषये वसता व्रतचर्यया ॥ ६१.११॥

तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः ।
पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ॥ ६१.१२॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकषष्टितमोऽध्यायः ॥ ६१॥

अगस्त्य उवाच ।
अथापरं महाराज व्रतमारोग्यसंज्ञितम् ।
कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥ ६२.१॥

तस्यैव माघमासस्य सप्तम्यां समुपोषितः ।
पूजयेद् भास्करं देवं विष्णुरूपं सनातनम् ॥ ६२.२॥

आदित्य भास्कर रवे भानो सूर्य दिवाकर ।
प्रभाकरेति सम्पूज्य एवं सम्पूज्यते रविः ॥ ६२.३॥

षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् ।
अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ॥ ६२.४॥

अनेन वत्सरं पूर्णं विधिना योऽर्चयेद् रविम् ।
तस्यारोग्यं धनं धान्यमिह जन्ममि जायते ।
परत्र च शुभं स्थानं यद् गत्वा न निवर्तते ॥ ६२.५॥

सार्वभौमः पुरा राजा अनरण्यो महाबलः ।
तेनायमर्चितो देवो व्रतेनानेन पार्थिव ।
तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ॥ ६२.६॥

भद्राश्व उवाच ।
किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् ।
सार्वभौमस्य च कथं ब्रह्मन् रोगस्य संभवः ॥ ६२.७॥

अगस्त्य उवाच ।
स राजा सार्वभौमोऽभूद् यशस्वी च सुरूपवान् ।
स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ॥६२.८॥

गतवान् मानसं दिव्यं सरो देवगणान्वितम् ।
तत्रापश्यद् बृहद् पद्मं सरोमध्यगतं सितम् ॥ ६२.९॥

तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् ।
रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ॥ ६२.१०॥

तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय ।
इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ ।
श्लाघनीयो भविष्यामि तस्मादाहर माचिरम् ॥ ६२.११॥

एवमुक्तस्तदा तेन सारथिः प्रविवेश ह ।
ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ॥ ६२.१२॥

स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत ।
तेन शब्देन स त्रस्तः पपात च ममार च ॥ ६२.१३॥

राजा च तत्क्षणात् तेन शब्देन समपद्यत ।
कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ॥ ६२.१४॥

तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः ।
तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ॥ ६२.१५॥

तस्य चिन्तयतो धीमानाजगाम महातपाः ।
वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ॥ ६२.१६॥

See Also  Sri Ganesha Gita Sara Stotram In Odia

कथं ते राजशार्दूल तव देहस्य शासनम् ।
इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ॥ ६२.१७॥

एवमुक्तस्ततो राजा वसिष्ठेन महात्मना ।
सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ॥ ६२.१८॥

तं श्रुत्वा स मुनिस्तत्र साधु राजन्नथाब्रवीत् ।
असाधुरथ वा तिष्ठ तस्मात् कुष्ठित्वमागतः ॥ ६२.१९॥

एवमुक्तस्तदा राजा वेपमानः कृताञ्जलिः ।
पप्रच्छ साध्वहं विप्र कथं वाऽसाध्वहं मुने ।
कथं च कुष्ठं मे जातमेतन्मे वक्तुमर्हसि ॥ ६२.२०॥

वसिष्ठ उवाच ।
एतद् ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् ।
दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः ।
एतस्मिन् दृश्यते चैतत् षण्मासं क्वापि पार्थिव ॥ ६२.२१॥

एतस्मिन् दृष्टमात्रे तु यो जलं विशते नरः ।
सर्वपापविनिर्मुक्तः परं निर्वाणमर्हति ॥ ६२.२२॥

ब्रह्मणः प्रागवस्थाया मूर्तिरप्सु व्यवस्थिता ।
एतां दृष्ट्वा जले मग्नः संसाराद् विप्रमुच्यते ॥ ६२.२३॥

इमं च दृष्ट्वा ते सूतो जले मग्नो नरोत्तम ।
प्रविष्टश्च पुनरिमं हर्तुमिच्छन्नराधिप ।
प्राप्तवानसि दुर्बुद्धे कुष्ठित्वं पापपूरुष ॥ ६२.२४॥

दृष्टमेतत् त्वया यस्मात् त्वं साध्विति ततः प्रभो ।
मयोक्तो मोहमापन्नस्तेनासाधुरितीरितः ॥ ६२.२५॥

ब्रह्मपुत्रो ह्यहं चेमं पश्यामि परमेश्वरम् ।
अहन्यहनि चागच्छंस्तं पुनर्दृष्टवानसि ॥ ६२.२६॥

देवा अपि वदन्त्येते पद्मं काञ्चनमुत्तमम् ।
मानसे ब्रह्मपद्मं तु दृष्ट्वा चात्र गतं हरिम् ।
प्राप्स्यामस्तत् परं ब्रह्म यद् गत्वा न पुनर्भवेत् ॥ ६२.२७॥

इदं च कारणं चान्यत् कुष्ठस्य श‍ृणु पार्थिव ।
आदित्यः पद्मगर्भेऽस्मिन् स्वयमेव व्यवस्थितः ॥ ६२.२८॥

तं दृष्ट्वा तत्त्वतो भावः परमात्मैष शाश्वतः ।
धारयामि शिरस्येनं लोकमध्ये विभूषणम् ॥ ६२.२९॥

एवं ते जल्पता पापमिदं देवेन दर्शितम् ।
इदानीमिममेव त्वमाराधय महामते ॥ ६२.३०॥

अगस्त्य उवाच ।
एवमुक्त्वा वसिष्ठस्तु इममेव व्रतं तदा ।
आदित्याराधनं दिव्यमारोग्याख्यं जगाद ह ॥ ६२.३१॥

सोऽपि राजाऽकरोच्चेमं व्रतं भक्तिसमन्वितः ।
सिद्धिं च परमां प्राप्तो विरोगश्चाभवत् क्षणात् ॥ ६२.३२॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विषष्टितमोऽध्यायः ॥ ६२॥

अगस्त्य उवाच ।
अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् ।
कथयामि समासेन तन्मे निगदतः श‍ृणु ॥ ६३.१॥

मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर ।
अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥ ६३.२॥

षष्ठ्यां चैव तु संकल्प्य सप्तम्यामर्चयेद् हरिम् ।
देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥ ६३.३॥

प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् ।
प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥ ६३.४॥

ततो यवैः कृष्णतिलैः सघृतैर्होमयेद् दधि ।
ब्राह्मणान् भोजयेद् भक्त्या यथाशक्त्या सदक्षिणान् ॥ ६३.५॥

ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् ।
पश्चाद् यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥ ६३.६॥

प्रतिमासमनेनैव विधिनोपोष्य मानवः ।
कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥ ६३.७॥

श्रूयते च पुरा राजा शूरसेनः प्रतापवान् ।
स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥ ६३.८॥

तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह ।
सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥ ६३.९॥

वसुदेवं महाभागमनेकक्रतुयाजिनम् ।
तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥ ६३.१०॥

एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता ।
संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥ ६३.११॥

एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् ।
एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥ ६३.१२॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥ ६३॥

अगस्त्य उवाच ।
अथापरं प्रवक्ष्यामि शौर्यव्रतमनुत्तमम् ।
येन भीरोरपि महच्छौर्यं भवति तत्क्षणात् ॥ ६४.१॥

मासि चाश्वयुजे शुद्धां नवमीं समुपोषयेत् ।
सप्तम्यां कृतसंकल्पः स्थित्वाऽष्टम्यां निरोदनः ॥ ६४.२॥

नवम्यां पारयेत् पिष्टं प्रथमं भक्तितो नृप ।
ब्राह्मणान् भोजयेद् भक्त्या देवीं चैव तु पूजयेत् ।
दुर्गां देवीं महाभागां महामायां महाप्रभाम् ॥ ६४.३॥

एवं संवत्सरं यावदुपोष्येति विधानतः ।
व्रतान्ते भोजयेद् धीमान् यथाशक्त्या कुमारिकाः ॥ ६४.४॥

हेमवस्त्रादिभिस्तास्तु भूषयित्वा तु शक्तितः ।
पश्चात् क्षमापयेत् तास्तु देवी मे प्रीयतामिति ॥ ६४.५॥

एवं कृते भ्रष्टराज्यो लभेद् राज्यं न संशयः ।
अविद्यो लभते विद्यां भीतः शौर्यं च विदन्ति ॥ ६४.६॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःषष्टितमोऽध्यायः ॥ ६४॥

अगस्त्य उवाच ।
सार्वभौमव्रतं चान्यत् कथयामि समासतः ।
येन सम्यक्कृतेनाशु सार्वभौमो नृपो भवेत् ॥ ६५.१॥

कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका ।
तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ॥ ६५.२॥

विचित्रैः कुसुमैर्भक्त्या पूजयित्वा द्विजोत्तमान् ।
दिशां तु प्रार्थनां कुर्यान् मन्त्रेणानेन सुव्रतः ।
सर्वा भवन्त्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ॥ ६५.३॥

एवमुक्त्वा बलिं तासु दत्त्वा शुद्धेन चेतसा ।
ततो रात्रौ तु भुञ्जीत दध्यन्नं तु सुसंस्कृतम् ॥ ६५.४॥

पूर्वं पश्चाद् यथेष्टं तु एवं संवत्सरं नृप ।
यः करोति नरो नित्यं तस्य दिग्विजयो भवेत् ॥ ६५.५॥

एकादश्यां तु यत्नेन नरः कुर्याद् यथाविधि ।
मार्गशीर्षे शुक्लपक्षादारभ्याब्दं विचक्षणः ।
तद् व्रत धनदस्येष्टं कृतं वित्तं प्रयच्छति ॥ ६५.६॥

एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने ।
शुक्ले वाऽप्यथवा कृष्णे तद् व्रतं वैष्णवं महत् ॥ ६५.७॥

एवं चीर्ण सुघोराणि हन्ति पापानि रपार्थिव ।
त्रयोदश्यां तु नक्तेन धर्मव्रतमथोच्यते ॥ ६५.८॥

शुक्लपक्षे फाल्गुनस्य तथारभ्य विचक्षणः ।
रौद्रं व्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः ।
माघमासादथारभ्य पूर्णं संवत्सरं नृप ॥ ६५.९॥

इन्दुव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनम् ।
पितृव्रतममावास्यामिति राजन तथेरितम् ॥ ६५.१०॥

दश पञ्च च वर्षाणि य एवं कुरुते नृप ।
तिथिव्रतानि कस्तस्य फलं व्रतप्रमाणतः ॥ ६५.११॥

अश्वमेधसहस्राणि राजसूयशतानि च ।
यष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस्तथा ॥ ६५.१२॥

एकमेव कृतं हन्ति व्रतं पापानि नित्यशः ।
यः पुनः सर्वमेतद्धि कुर्यान्नरवरात्मज ।
स शुद्धो विरजो लोकानाप्नोति सकलं नृप ॥ ६५.१३॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चषष्टितमोऽध्यायः ॥ ६५॥

भद्राश्व उवाच ।
आश्चर्यं यदि ते किंचिद् विदितं दृष्टमेव वा ।
तन्मे कथय धर्मज्ञ मम कौतूहलं महत् ॥ ६६.१॥

अगस्त्य उवाच ।
आश्चर्यभूतो भगवानेष एव जनार्दनः ।
तस्याश्चर्याणि दृष्टानि बहूनि विविधानि वै ॥ ६६.२॥

श्वेतद्वीपं गतः पूर्वं नारदः किल पार्थिव ।
सोऽपश्यच्छङ्खचक्राब्जान् पुरुषांस्तिग्मतेजसः ॥ ६६.३॥

अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः ।
चिन्ताऽभूत्तस्यतान्दृष्ट्वा कोऽस्मिन्विष्णुरिति प्रभुः ॥ ६६.४॥

एवं चिन्तयतस्तस्य चिन्ता कृष्णं प्रति प्रभो ।
आराधयामि च कथं शङ्खचक्रगदाधरम् ॥ ६६.५॥

येन वेद्मि परं तेषां देवो नारायणः प्रभुः ।
एवं संचिन्त्य दध्यौ स तं देवं परमेश्वरम् ॥ ६६.६॥

दिव्यं वर्षसहस्रं तु साग्रं ब्रह्मसुतस्तदा ।
ध्यायतस्तस्य देवोऽसौ परितोषं जगाम ह ॥ ६६.७॥

उवाच च प्रसन्नात्मा प्रत्यक्षत्वं गतः प्रभुः ।
वरं ब्रह्मसुत ब्रूहि किं ते दद्मि महामुने ॥ ६६.८॥

नारद उवाच ।
सहस्रमेकं वर्षाणां ध्यातस्त्वं भुवनेश्वर ।
त्वत्प्राप्तिर्येन तद् ब्रूहि यदि तुष्टोऽसि मेऽच्युत ॥ ६६.९॥

देवदेव उवाच ।
पौरुषं सूक्तमास्थाय ये यजन्ति द्विजास्तु माम् ।
संहितामाद्यमास्थाय ते मां प्राप्स्यन्ति नारद ॥ ६६.१०॥

अलाभे वेदशास्त्राणां पञ्चरात्रोदितेन ह ।
मार्गेण मां प्रपश्यन्ते ते मां प्राप्स्यन्ति मानवाः ॥ ६६.११॥

ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते ।
शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥ ६६.१२॥

एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् ।
पञ्चरात्रं सहस्राणां यदि कश्चिद् ग्रहीष्यति ॥ ६६.१३॥

कर्मक्षये च मां कश्चिद् यदि भक्तो भविष्यति ।
तस्य चेदं पञ्चरात्रं नित्यं हृदि वसिष्यति ॥ ६६.१४॥

इतरे राजसैर्भावैस्तामसैश्च समावृताः ।
भविष्यन्ति द्विजश्रेष्ठ मच्छासनपराङ्मुखाः ॥ ६६.१५॥

कृतं त्रेता द्वापरं च युगानि त्रीणि नारद ।
सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ॥ ६६.१६॥

अन्यच्च ते वरं दद्मि श‍ृणु नारद साम्प्रतम् ।
यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् ।
तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ॥ ६६.१७॥

वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज ।
प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ॥ ६६.१८॥

एवमुक्त्वा स भगवान् नारदं परमेश्वरः ।
जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ॥ ६६.१९॥

॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्षष्टितमोऽध्यायः ॥ ६६॥

भद्राश्व उवाच ।
भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् ।
स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ॥ ६७.१॥

कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् ।
कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ॥ ६७.२॥

दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् ।
कस्मादेतज्जगदिदं विततं द्विजसत्तम ॥ ६७.३॥

अगस्त्य उवाच ।
सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते ।
सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ॥ ६७.४॥

यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर ।
स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥ ६७.५॥

योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः ।
संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते ।
ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ॥ ६७.६॥

दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः ।
ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ॥ ६७.७॥

स विष्णुः परमो देवो विज्ञेयो नृपसत्तम ।
न च वेदक्रियाहीनः पश्यते परमेश्वरम् ॥ ६७.८॥

॥ इति वराहपुराणे भगवच्छास्त्रे सप्तषष्टितमोऽध्यायः ॥ ६७॥

इति श्रीअगस्त्यगीता समाप्ता ।

– Chant Stotra in Other Languages –

Agastya Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil