Ajagara Gita In Sanskrit

॥ Ajagara Geetaa Sanskrit Lyrics ॥

॥ अजगरगीता ॥
भीष्मेण युधिष्ठिरम्प्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः
सुखहेतुतायां प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ १ ॥

युधिष्ठिर उवाच ।
केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् ।
किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ १ ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ २ ॥
चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् ।
पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ ३ ॥
प्रह्लाद उवाच ।
स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः ।
सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ ४ ॥
नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि ।
नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥ ५ ॥
स्रोतसा ह्रियमाणासु प्रजासु विमना इव ।
धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ ६ ॥
नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे ।
इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ ७ ॥
का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने ।
क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ ८ ॥
भीष्म उवाच ।
अनुयुक्तः स मेधावी लोकधर्मविधानवित् ।
उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ ९ ॥
पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः ।
ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ १० ॥
(७२१०२)
स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः ।
स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ ११ ॥
पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् ।
सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ १२ ॥
अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः ।
उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये। १३ ॥
जलजानामपि ह्यन्तं पर्यायेणोपलक्षये ।
महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ १४ ॥
जङ्गमस्थावराणां च भूतानामसुराधिप ।
पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ १५ ॥
अन्तरिक्षचराणां च दानवोत्तमपक्षिणाम् ।
उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ १६ ॥
दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च ।
ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ १७ ॥
इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना ।
सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ १८ ॥
सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया ।
शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ १९ ॥
आशयन्त्यपि मामन्नं पुनर्बहुगुणं बहु ।
पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ २०
कणं कदाचित्खादामि पिण्याकमपि च ग्रसे ।
भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ २१ ॥
शये कदाचित्पर्यङ्के भूमावपि पुनः शये ।
प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ २२ ॥
धारयामि च चीराणि शाणक्षौमाजिनानि च ।
महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ २३ ॥
न सन्निपतितं धर्म्यमुपभोगं यदृच्छया ।
प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ २४ ॥
अचलमनिधनं शिवं विशोकं
शुचिमतुलं विदुषां मते प्रविष्टम् ।
अनभिमतमसेवितं विमूढै
र्व्रतमिदमाजगरं शुचिश्चरामि ॥ २५ ॥
अचलितमतिरच्युतः स्वधर्मा
त्परिमितसंसरणः परावरज्ञः ।
विगतभयकषायलोभमोहो
व्रतमिदमाजगरं शुचिश्चरामि ॥ २६ ॥
अनियतफलभक्ष्यभोज्यपेयं
विधिपरिणामविभक्तदेशकालम् ।
हृदयसुखमसेवितं कदर्यै
र्व्रतमिदमाजगरं सुचिश्चरामि ॥ २७ ॥
इदमिदमिति तृष्णयाऽभिभूतं
जनमनवाप्तधनं विषीदमानम् ।
निपुणमनुनिशाम्य तत्त्वबुद्ध्या
व्रतमिदमाजगरं शुचिश्चरामि ॥ २८ ॥
बहुविधमनुदृश्य चार्थहेतोः
कृपणमिहार्यमनार्यमाश्रयं तम् ।
उपशमरुचिरात्मवान्प्रशान्तो
व्रतमिदमाजगरं शुचिश्चरामि ॥ २९ ॥
सुखमसुखमलाभमर्थलाभं
रतिमरतिं मरणं च जीवितं च ।
विधिनियतमवेक्ष्य तत्त्वतोऽहं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३० ॥
अपगतभयरागमोहदर्पो
धृतिमतिबुद्धिसमन्वितः प्रशान्तः ।
उपगतफलभोगिनो निशाम्य
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३१ ॥
अनियतशयनासनः प्रकृत्या
दमनियमव्रतसत्यशौचयुक्तः ।
अपगतफलसञ्चयः प्रहृष्टो
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३२ ॥
अपगतमसुखार्थमीहनार्थै
रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् ।
तृपितमनियतं मनो नियन्तुं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३३ ॥
न हृदयमनुरुध्यते मनो वा
प्रियसुखदुर्लभतामनित्यतां च ।
तदुभयमुपलक्षयन्निवाहं
व्रतमिदमाजगरं शुचिश्चरामि ॥ ३४
बहु कथितमिदं हि बुद्धिमद्भिः
कविभिरपि प्रथयद्भिरात्मकीर्तिम् ।
इदमिदमिति तत्रतत्र हन्त
स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ ३५ ॥
तदिदमनुनिशाम्य विप्रपातं
पृथगभिपन्नमिहाबुधैर्मनुष्यैः ।
अनवसितमनन्तदोषपारं
नृपु विहरामि विनीतदोषतृष्णः ॥ ३६ ॥
भीष्म उवाच । ३७
अजगरचरितं व्रतं महात्मा
य इह नरोऽनुचरेद्विनीतरागः ।
अपगतभयलोभमोहमन्युः
स खलु सुखी विचरेदिमं विहारम् ॥ ॥ ३७ ॥

See Also  Yudhishthira Gita In Odia

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
सप्तसप्तत्यधिकशततमोऽध्यायः ॥

Mahabharata – Shanti Parva – Chapter Footnotes

२ आजगरस्याऽजगरवृत्त्या जीवतः ॥

४ निर्विधित्सो निरारम्भः ॥

६ स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥

७ इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि
तन्निर्वाहमात्रार्थी अश्नासि ॥

८ प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं
शास्त्रम्। वृत्तिस्तदर्थानुष्ठानम्। श्रेयो ममेति शेषः ॥

९ अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं
कारणं तदभिज्ञः लोकधर्मविधानवित् ॥

१० अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥

१२ तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे
शोकोत्पत्तिं जानन् ॥

१५ पार्थिवानां पृथिवीस्थानाम् ॥

१९ आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥

२० आशयन्ति भोजयन्ति ॥

२६ कषायः रागद्वेषादिः ॥

२८ धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया
निशाम्यालोच्य ॥

२९ अर्थहेतोरनार्यं नीचम् । अर्यं स्वामिनगाश्रयति यः
कृपणो दीनजनस्तमनुदृश्योपशमरुचिः। आत्मवान् जितचित्तः ॥

३० विधिनियतं दैवाधीनम् ॥

३१ मतिरालोचनम् । बुद्धिर्निश्चयः। उपगतं समीपागतं
फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य
दृष्ट्वा। फलभोगिन इति मध्यमपदलोपः ॥

३२ प्रकृत्या दमादियुक्तः
अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥

३३ एषणाविषयैः पुत्रवित्तादिर्भिर्हेतुभिः । असुखार्थं
परिणामे दुःखार्थम्। अपगतमात्मनः पराङ्भुखं तृषितमनियतं
च मनोऽवेक्ष्य। उपगतबुद्धिर्लव्धालोकः। आत्मसंस्थमात्मनि संस्था
समाप्तिर्यस्य तत्तथा तुं व्रतं चरामि ॥

See Also  Sanskrit Glossary Of Words From Bhagavadgita In English

– Chant Stotra in Other Languages –

Ajagara Gita in Sanskrit – EnglishBengaliGujaratiKannadaMalayalamOdiaTeluguTamil