Ardhanarishvara Ashtottara Shatanamavali In Sanskrit

॥ Ardhanarishvara Ashtottara Shatanamavali Sanskrit Lyrics ॥

॥ अर्धनारीश्वर्यष्टोत्तरशतनामावलिः ॥
ॐ चामुण्डिकाम्बायै नमः श्रीकण्ठाय नमः ।
ॐ पार्वत्यै नमः परमेश्वराय नमः ।
ॐ महाराज्ञ्यै नमः महादेवाय नमः ।
ॐ सदाराध्यायै नमः सदाशिवाय नमः ।
ॐ शिवार्धाङ्ग्यै नमः शिवार्धाङ्गाय नमः ।
ॐ भैरव्यै नमः कालभैरवाय नमः ।
ॐ शक्तित्रितयरूपाढ्यायै नमः मूर्तित्रितयरूपवते नमः ।
ॐ कामकोटिसुपीठस्थायै नमः काशीक्षेत्रसमाश्रयाय नमः ।
ॐ दाक्षायण्यै नमः दक्षवैरिणे नमः ।
ॐ शूलिन्यै नमः शूलधारकाय नमः ॥ १० ॥

ॐ ह्रीङ्कारपञ्जरशुक्यै नमः हरिशङ्कररूपवते नमः ।
ॐ श्रीमदग्नेशजनन्यै नमः षडाननसुजन्मभुवे नमः ।
ॐ पञ्चप्रेतासनारूढायै नमः पञ्चब्रह्मस्वरूपभृते नमः ।
ॐ चण्डमुण्डशिरश्छेत्र्यै नमः जलन्धरशिरोहराय नमः ।
ॐ सिंहवाहिन्यै नमः वृषारूढाय नमः ।
ॐ श्यामाभायै नमः स्फटिकप्रभाय नमः ।
ॐ महिषासुरसंहर्त्र्यै नमः गजासुरविमर्दनाय नमः ।
ॐ महाबलाचलावासायै नमः महाकैलासवासभुवे नमः ।
ॐ भद्रकाल्यै नमः वीरभद्राय नमः ।
ॐ मीनाक्ष्यै नमः सुन्दरेश्वराय नमः ॥ २० ॥

ॐ भण्डासुरादिसंहर्त्र्यै नमः दुष्टान्धकविमर्दनाय नमः ।
ॐ मधुकैटभसंहर्त्र्यै नमः मधुरापुरनायकाय नमः ।
ॐ कालत्रयस्वरूपाढ्यायै नमः कार्यत्रयविधायकाय नमः ।
ॐ गिरिजातायै नमः गिरीशाय नमः ।
ॐ वैष्णव्यै नमः विष्णुवल्लभाय नमः ।
ॐ विशालाक्ष्यै नमः विश्वनाथाय नमः ।
ॐ पुष्पास्त्रायै नमः विष्णुमार्गणाय नमः ।
ॐ कौसुम्भवसनोपेतायै नमः व्याघ्रचर्माम्बरावृताय नमः ।
ॐ मूलप्रकृतिरूपाढ्यायै नमः परब्रह्मस्वरूपवाते नमः ।
ॐ रुण्डमालाविभूषाढ्यायै नमः लसद्रुद्राक्षमालिकाय नमः ॥ ३० ॥

See Also  1000 Names Of Sri Bhavani – Sahasranama Stotram In English

ॐ मनोरूपेक्षुकोदण्डायै नमः महामेरुधनुर्धराय नमः ।
ॐ चन्द्रचूडायै नमः चन्द्रमौलिने नमः ।
ॐ महामायायै नमः महेश्वराय नमः ।
ॐ महाकाल्यै नमः महाकालाय नमः ।
ॐ दिव्यरूपायै नमः दिगम्बराय नमः ।
ॐ बिन्दुपीठसुखासीनायै नमः श्रीमदोङ्कारपीठगाय नमः ।
ॐ हरिद्राकुङ्कुमालिप्तायै नमः भस्मोद्धूलितविग्रहाय नमः ।
ॐ महापद्माटवीलोलायै नमः महाबिल्वाटवीप्रियाय नमः ।
ॐ सुधामय्यै नमः विषधराय नमः ।
ॐ मातङ्ग्यै नमः मुकुटेश्वराय नमः ॥ ४० ॥

ॐ वेदवेद्यायै नमः वेदवाजिने नमः ।
ॐ चक्रेश्यै नमः विष्णुचक्रदाय नमः ।
ॐ जगन्मय्यै नमः जगद्रूपाय नमः ।
ॐ मृडाण्यै नमः मृत्युनाशनाय नमः ।
ॐ रामार्चितपदाम्भोजायै नमः कृष्णपुत्रवरप्रदाय नमः ।
ॐ रमावाणीसुसंसेव्यायै नमः विष्णुब्रह्मसुसेविताय नमः ।
ॐ सूर्यचन्द्राग्निनयनायै नमः तेजस्त्रयविलोचनाय नमः ।
ॐ चिदग्निकुण्डसम्भूतायै नमः महालिङ्गसमुद्भवाय नमः ।
ॐ कम्बुकण्ठ्यै नमः कालकण्ठाय नमः ।
ॐ वज्रेश्यै नमः वज्रपूजिताय नमः ॥ ५० ॥

ॐ त्रिकण्टक्यै नमः त्रिभङ्गीशाय नमः ।
ॐ भस्मरक्षायै नमः स्मरान्तकाय नमः ।
ॐ हयग्रीववरोद्धात्र्यै नमः मार्कण्डेयवरप्रदाय नमः ।
ॐ चिन्तामणिगृहावासायै नमः मन्दराचलमन्दिराय नमः ।
ॐ विन्ध्याचलकृतावासायै नमः विन्ध्यशैलार्यपूजिताय नमः ।
ॐ मनोन्मन्यै नमः लिङ्गरूपाय नमः ।
ॐ जगदम्बायै नमः जगत्पित्रे नमः ।
ॐ योगनिद्रायै नमः योगगम्याय नमः ।
ॐ भवान्यै नमः भवमूर्तिमते नमः ।
ॐ श्रीचक्रात्मरथारूढायै नमः धरणीधरसंस्थिताय नमः ॥ ६० ॥

See Also  108 Names Of Sri Mahaswami In English

ॐ श्रीविद्यावेद्यमहिमायै नमः निगमागमसंश्रयाय नमः ।
ॐ दशशीर्षसमायुक्तायै नमः पञ्चविंशतिशीर्षवते नमः ।
ॐ अष्टादशभुजायुक्तायै नमः पञ्चाशत्करमण्डिताय नमः ।
ॐ ब्राह्म्यादिमातृकारूपायै नमः शताष्टेकादशात्मवते नमः ।
ॐ स्थिरायै नमः स्थाणवे नमः ।
ॐ बालायै नमः सद्योजाताय नमः ।
ॐ उमायै नमः मृडाय नमः ।
ॐ शिवायै नमः शिवाय नमः ।
ॐ रुद्राण्यै नमः रुद्राय नमः ।
ॐ शैवेश्वर्यै नमः ईश्वराय नमः ॥ ७० ॥

ॐ कदम्बकाननावासायै नमः दारुकारण्यलोलुपाय नमः ।
ॐ नवाक्षरीमनुस्तुत्यायै नमः पञ्चाक्षरमनुप्रियाय नमः ।
ॐ नवावरणसम्पूज्यायै नमः पञ्चायतनपूजिताय नमः ।
ॐ देहस्थषट्चक्रदेव्यै नमः दहराकाशमध्यगाय नमः ।
ॐ योगिनीगणसंसेव्यायै नमः भृङ्ग्यादिप्रमथावृताय नमः ।
ॐ उग्रतारायै नमः घोररूपाय नमः ।
ॐ शर्वाण्यै नमः शर्वमूर्तिमते नमः ।
ॐ नागवेण्यै नमः नागभूषाय नमः ।
ॐ मन्त्रिण्यै नमः मन्त्रदैवताय नमः ।
ॐ ज्वलज्जिह्वायै नमः ज्वलन्नेत्राय नमः ॥ ८० ॥

ॐ दण्डनाथायै नमः दृगायुधाय नमः ।
ॐ पार्थाञ्जनास्त्रसन्दात्र्यै नमः पार्थपाशुपतास्त्रदाय नमः ।
ॐ पुष्पवच्चक्रताटङ्कायै नमः फणिराजसुकुण्डलाय नमः ।
ॐ बाणपुत्रीवरोद्धात्र्यै नमः बाणासुरवरप्रदाय नमः ।
ॐ व्यालकञ्चुकसंवीतायै नमः व्यालयज्ञोपवीतवते नमः ।
ॐ नवलावण्यरूपाढ्यायै नमः नवयौवनविग्रहाय नमः ।
ॐ नाट्यप्रियायै नमः नाट्यमूर्तये नमः ।
ॐ त्रिसन्ध्यायै नमः त्रिपुरान्तकाय नमः ।
ॐ तन्त्रोपचारसुप्रीतायै नमः तन्त्रादिमविधायकाय नमः ।
ॐ नववल्लीष्टवरदायै नमः नववीरसुजन्मभुवे नमः ॥ ९० ॥

See Also  108 Names Of Rama 5 – Ashtottara Shatanamavali In Gujarati

ॐ भ्रमरज्यायै नमः वासुकिज्याय नमः ।
ॐ भेरुण्डायै नमः भीमपूजिताय नमः ।
ॐ निशुम्भशुम्भदमन्यै नमः नीचापस्मारमर्दनाय नमः ।
ॐ सहस्राम्बुजारूढायै नमः सहस्रकमलार्चिताय नमः ।
ॐ गङ्गासहोदर्यै नमः गङ्गाधराय नमः ।
ॐ गौर्यै नमः त्रयम्बकाय नमः ।
ॐ श्रीशैलभ्रमराम्बाख्यायै नमः मल्लिकार्जुनपूजिताय नमः ।
ॐ भवतापप्रशमन्यै नमः भवरोगनिवारकाय नमः ।
ॐ चन्द्रमण्डलमध्यस्थायै नमः मुनिमानसहंसकाय नमः ।
ॐ प्रत्यङ्गिरायै नमः प्रसन्नात्मने नमः ॥ १०० ॥

ॐ कामेश्यै नमः कामरूपवते नमः ।
ॐ स्वयम्प्रभायै नमः स्वप्रकाशाय नमः ।
ॐ कालरात्र्यै नमः कृतान्तहृदे नमः ।
ॐ सदान्नपूर्णायै नमः भिक्षाटाय नमः ।
ॐ वनदुर्गायै नमः वसुप्रदाय नमः ।
ॐ सर्वचैतन्यरूपाढ्यायै नमः सच्चिदानन्दविग्रहाय नमः ।
ॐ सर्वमङ्गलरूपाढ्यायै नमः सर्वकल्याणदायकाय नमः ।
ॐ राजराजेश्वर्यै नमः श्रीमद्राजराजप्रियङ्कराय नमः ॥ १०८ ॥

इति अर्धनारीश्वर्यष्टोत्तरशतनामावलिः समाप्ता ।

– Chant Stotra in Other Languages –

Ardhanareeshwara Ashtottara Shatanamavali »108 Names of Ardhanarishvara Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil