Bilvashtakam 2 In Sanskrit

॥ Bilvaashtakam 2 in Sanskrit ॥

॥ बिल्वाष्टकम् २ ॥

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्म पापसंहारम् एकबिल्वं शिवार्पणं ॥ 1 ॥

त्रिशाखैः बिल्वपत्रैश्च अच्चिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणं ॥ 2 ॥

कोटि कन्या महादानं तिलपर्वत कोटयः ।
काञ्चनं क्षीलदानेन एकबिल्वं शिवार्पणं ॥ 3 ॥

काशीक्षेत्र निवासं च कालभैरव दर्शनं ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणं ॥ 4 ॥

इन्दुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणं ॥ 5 ॥

रामलिङ्ग प्रतिष्ठा च वैवाहिक कृतं तधा ।
तटाकानिच सन्धानम् एकबिल्वं शिवार्पणं ॥ 6 ॥

अखण्ड बिल्वपत्रं च आयुतं शिवपूजनं ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणं ॥ 7 ॥

उमया सहदेवेश नन्दि वाहनमेव च ।
भस्मलेपन सर्वाङ्गम् एकबिल्वं शिवार्पणं ॥ 8 ॥

सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्नकोटि सहस्रस्च एकबिल्वं शिवार्पणं ॥ 9 ॥

दन्ति कोटि सहस्रेषु अश्वमेध शतक्रतौ ।
कोटिकन्या महादानम् एकबिल्वं शिवार्पणं ॥ 10 ॥

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनं ।
अघोर पापसंहारम् एकबिल्वं शिवार्पणं ॥ 11 ॥

सहस्रवेद पाटेषु ब्रह्मस्तापन मुच्यते ।
अनेकव्रत कोटीनाम् एकबिल्वं शिवार्पणं ॥ 12 ॥

See Also  Teekshna Danshtra Kalabhairava Ashtakam In Tamil

अन्नदान सहस्रेषु सहस्रोप नयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणं ॥ 13 ॥

बिल्वस्तोत्रमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणं ॥ 14 ॥

– Chant Stotra in Other Languages –

Shiva Stotram » Bilvashtakam 2 Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Telugu » Tamil » Marathi