Brahmadi Deva Krita Mahadeva Stuti In Sanskrit

॥ Brahmadi Deva Krita Mahadeva Stuti in Sanskrit ॥

॥ श्री महादेव स्तुतिः (ब्रह्मादिदेव कृतम्) ॥
देवा ऊचुः –
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ १ ॥

महादेवाय भीमाय त्र्यम्बकाय विशाम्पते ।
ईश्वराय भगघ्नाय नमस्त्वन्धकघातिने ॥ २ ॥

नीलग्रीवाय भीमाय वेधसां पतये नमः ।
कुमारशत्रुविघ्नाय कुमारजननाय च ॥ ३ ॥

विलोहिताय धूम्राय धराय क्रथनाय च ।
नित्यं नीलशिखण्डाय शूलिने दिव्यशालिने ॥ ४ ॥

उरगाय सुनेत्राय हिरण्यवसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ ५ ॥

वृषध्वजाय चण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ ६ ॥

विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोऽस्तु दिव्यसेव्याय प्रभवे सर्वसम्पदाम् ॥ ७ ॥

अभिगम्याय काम्याय सव्यापाराय सर्वदा ।
भक्तानुकम्पिने तुभ्यं दिश मे जन्मनो गतिम् ॥ ८ ॥

इति श्रीमत्स्यपुराणे ब्रह्मादिदेवकृत महादेवस्तुतिः ।

– Chant Stotra in Other Languages –

Brahmadi Deva Krita Mahadeva Stuti in Sanskrit – English –  KannadaTeluguTamil

See Also  Asitha Krutha Shiva Stotram In Tamil