Chandrachoodaalaa Ashtakam In Sanskrit

॥ Chandrachoodaalaa Ashtakam Sanskrit Lyrics ॥

॥ चन्द्रचूडालाष्टकम् ॥
श्रीगणेशाय नमः ॥

यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् ।
प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ १ ॥

यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् ।
शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम् ॥ २ ॥

यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः ।
कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ ३ ॥

नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् ।
नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥ ४ ॥

नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् ।
स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥ ५ ॥

जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः ।
मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम् ॥ ६ ॥

चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात् ।
निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम् ॥ ७ ॥

नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः ।
धत्तेऽग्निचद्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम् ॥ ८ ॥

अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम् ।
अष्ट ददाति हि सिद्धिरिष्टसमष्टीश्च चन्द्रचूडालः ॥ ९ ॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीचद्रचूडालाष्टकं सम्पूर्णम् ॥

– Chant Stotra in Other Languages –

Lord Shiva Slokam » Chandrachoodaalaa Ashtakam Lyrics in English » Bengali » Gujarati » Marathi » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Parvatyashtakam In Telugu