Chintamani Parshwanath Stavan In Sanskrit

॥ Chintamani Parshwanath Stavan Sanskrit Lyrics ॥

॥ चिन्तामणिपार्श्वनाथस्तवनम् ॥

श्रीशारदाऽऽधारमुखारविन्दं सदाऽनवद्यं नतमौलिपादम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ १ ॥

निराकृतारातिकृतान्तसङ्गं सन्मण्डलीमण्डितसुन्दराङ्गम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ २ ॥

शशिप्रभारीतियशोनिवासं समाधिसाम्राज्यसुखावभासम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ३ ॥

अनल्पकल्याणसुधाब्धिचन्द्रं सभावलीसूनसुभावकेन्द्रम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ४ ॥

कराकल्पान्तनिवारकारं कारुण्यपुण्याकरशान्तिसारम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ५ ॥

वाणीरसोल्लासकरीरभूतं निरञ्जनाऽलङ्कृतमुक्तिकान्तम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ६ ॥

क्रूरोपसर्गं परिहतु मेकं वाञ्छाविधानं विगताऽपसङ्गम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ७ ॥

निरामयं निर्जितवीरमारं जगद्धितं कृष्णापुरावतारम् ।
चिन्तामणिं चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥ ८ ॥

अविरलकविलक्ष्मीसेनशिष्येन लक्ष्मी-
विभरणगुणपूतं सोमसेनेन गीतम् ।
पठति विगतकामः पार्श्वनाथस्तवं यः
सुकृतपदनिधानं स प्रयाति प्रधानम् ॥ ९ ॥

इति सोमसेनविरचितं चिन्तामणिपार्श्वनाथस्तवनं अष्टकं च सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Chintamani Parshwanath Stavan Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Sri Subrahmanya Stotram In Sanskrit