Sri Subrahmanya Stotram In Sanskrit

॥ Sri Subrahmanya Stotram Sanskrit Lyrics ॥

॥ श्री सुब्रह्मण्य स्तोत्रम् ॥
आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः ।
लोकपालाः सर्वदेवाः चराचरमिदं जगत् ॥ १ ॥

सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम् ।
अप्रमेयं महाशान्तं अचलं निर्विकारकम् ॥ २ ॥

निरालम्बं निराभासं सत्तामात्रमगोचरम् ।
एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः ॥ ३ ॥

एवमज्ञानगाढान्धतमोपहतचेतसः ।
न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे ॥ ४ ॥

विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम् ।
कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च ॥ ५ ॥

तत्तदुक्ताः कथाः सम्यक् नित्यसद्गतिप्राप्तये ।
भक्त्या श्रुत्वा पठित्वा च दृष्ट्या सम्पूज्य श्रद्धया ॥ ६ ॥

सर्वान्कामानवाप्नोति भवदाराधनात्खलु ।
मम पूजामनुग्राह्य सुप्रसीद भवानघ ॥ ७ ॥

चपलं मन्मथवशममर्यादमसूयकम् ।
वञ्चकं दुःखजनकं पापिष्ठं पाहि मां प्रभो ॥ ८ ॥

सुब्रह्मण्यस्तोत्रमिदं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥

– Chant Stotra in Other Languages –

Sri Subrahmanya / Kartikeya / Muruga Sahasranamani » Sri Subrahmanya Stotram Lyrics in English » Kannada » Telugu » Tamil

See Also  Shri Subramanya Manasa Puja Stotram In Kannada