Hymn To Kottai Ishvara In Sanskrit

॥ Hymn to Kottai Ishvara Sanskrit Lyrics ॥

॥ गोष्ठेश्वराष्टकम् ॥
सत्यज्ञानमनन्तमद्वयसुखाकारं गुहान्तःस्थित-
श्रीचिद्व्योम्नि चिदर्करूपममलं यद् ब्रह्म तत्त्वं परम् ।
निर्बीजस्थलमध्यभागविलसद्गोष्ठोत्थवल्मीक-
सम्भूतं सत् पुरतो विभात्यहह तद्गोष्ठेशलिङ्गात्मना ॥ १ ॥

सर्वज्ञत्वनिदानभूतकरुणामूर्तिस्वरूपामला
चिच्छक्तिर्जडशक्तिकैतववशात् काञ्चीनदीत्वं गता ।
वल्मीकाश्रयगोष्ठनायकपरब्रह्मैक्यकर्त्री मुहुः
नृणां स्नानकृतां विभाति सततं श्रीपिप्पिलारण्यगा ॥ २ ॥

श्रीमद्राजतशैलशृङ्गविलसच्छ्रीमद्गुहायां मही-
वार्वह्न्याशुगखात्मिकी विजयते या पञ्चलिङ्गाकृतिः ।
सैवाशक्तजनेषु भूरिकृपया श्रीपिप्पिलारण्यगे
वल्मीके किल गोष्ठनायकमहालिङ्गात्मना भासते ॥ ३ ॥

यत्राद्याप्यणिमादिसिद्धिनिपुणाः सिद्धेश्वराणां गणाः
तत्तद्दिव्यगुहासु सन्ति यमिदृग्दृश्या महावैभवाः ।
यत्रैव ध्वनिरर्धरात्रसमये पुण्यात्मभिः श्रूयते
पूजावाद्यसमुत्थितः सुमनसां तं राजताद्रिं भजे ॥ ४ ॥

श्रीमद्राजतपर्वताकृतिधरस्यार्धेन्दुचूडामणे-
र्लोमैकं किल वामकर्णजनितं काञ्चीतरुत्वं गतम् ।
तस्मादुत्तरवाहिनी भुवि भवान्याख्या ततः पूर्वगा
काञ्चीनद्यभिधा च पश्चिमगता निलानदी पावनी ॥ ५ ॥

श्रीमद्भार्गवहस्तलग्नपरशुव्याघट्टनाद् दारिते
क्षोणीध्रे सति वामदक्षिणगिरिद्वन्द्वात्मना भेदिते ।
तन्मध्यप्रथिते विदारधरणीभागेतिनद्याश्रये
सा नीलातटिनी पुनाति हि सदा कल्पादिगान् प्राणिनः ॥ ६ ॥

कल्पादिस्थलमध्यभागनिलये श्रीविश्वनाथाभिधे
लिङ्गे पिप्पिलकाननान्तरगतश्रीगोष्ठनाथाभिधः ।
श्रीशम्भुः करुणानिधिः प्रकुरुते सांनिध्यमन्यादृशं
तत्पत्नी च विराजतेऽत्र तु विशालाक्षीति नामाङ्किता ॥ ७ ॥

श्रीकाञ्चीतरुमूलपावनतलं भ्राजत्त्रिवेण्युद्भवं
त्यक्त्वान्यत्र विधातुमिच्छति मुहुर्यस्तीर्थयात्रादिकम् ।
सोऽयं हस्तगतं विहाय कुधिया शाखाग्रलीनं वृथा
यष्ट्या ताडितुमीहते जडमतिर्निःसारतुच्छं फलम् ॥ ८ ॥

See Also  Sri Chandikashtakam In Odia

श्रीमद्राजतशैलोत्थत्रिवेणीमहिमाङ्कितम् ।
गोष्ठेश्वराष्टकमिदं सारज्ञैरवलोक्यताम् ॥ ९ ॥

इति गोष्ठेश्वराष्टकं सम्पूर्णम्

– Chant Stotra in Other Languages –

Hymn to Kottai Ishvara Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil