Jambunatha Ashtakam In Sanskrit

॥ Jambunatha Ashtakam Sanskrit Lyrics ॥

॥ जम्बुनाताष्टकम् ॥

कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः ।
जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥ १ ॥

श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः ।
अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥ २ ॥

कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः ।
श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥ ३ ॥

शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः ।
करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥ ४ ॥

गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् ।
दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥ ५ ॥

कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् ।
शक्रादिश्रितचरणं शरणं जंभूद्रुमांतिकाभरणम् ॥ ६ ॥

करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये ।
जगदानन्दधुनिधये जंभूतरुमूलनिलयसन्निधये ॥ ७ ॥

कश्चन शशिचूडालं कण्ठेकालं दयौघमुत्कूलम् ।
श्रितजंभूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥ ८ ॥

॥ जम्बुनाथाष्टकं संपूर्णम् ॥

– Chant Stotra in Other Languages –

Lord Shiva Stotram » Jambunatha Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil

See Also  Abhilashaashtakam In Sanskrit