Kamakshya Ashtakam In Sanskrit

॥ Kamakshi Ashtakam Sanskrit Lyrics ॥

॥ कामाक्ष्यष्टकम् ॥
श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां
कल्याणीं कमनीयचारुमकुटां कौसुम्भवस्त्रान्विताम् ।
श्रीवाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां
कामाक्क्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ १ ॥

मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं
शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् ।
वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ २ ॥

श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां
शर्वालिङ्गितनीलचारुवपुषीं शान्तां प्रवालाधराम् ।
बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ३ ॥

लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शङ्करीं
ब्रह्माणीं भवरोगतापशमनीं भव्यात्मिकां शाश्वतीम् ।
देवीं माधवसोदरीं शुभकरीं पञ्चाक्षरीं पावनीं
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ४ ॥

वामां वारिजलोचनां हरिहरब्रह्मेन्द्रसम्पूजितां
कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम् ।
देवीं शुम्भनिषूदिनीं भगवतीं कामेश्वरीं देवतां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ५ ॥

कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां
कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम् ।
देवीं शङ्करहृत्सरोजनिलयां सर्वाघहन्त्रीं शुभां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ६ ॥

शान्तां चञ्चलचारुनेत्रयुगलां शैलेन्द्रकन्यां शिवां
वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम् ।
सौम्यां सिन्धुसुतां सरोजवदनां वाग्देवतामम्बिकां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ७ ॥

See Also  1000 Names Of Sri Shanmukha » Vamadeva Mukham Sahasranamavali 4 In Sanskrit

चन्द्रार्कानललोचनां गुरुकुचां सौन्दर्यचन्द्रोदयां
विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम् ।
मुग्धस्मेरसमीक्षणेन सततं सम्मोहयन्तीं शिवां
कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥ ८ ॥

इति श्रीकामाक्ष्यष्टकं सम्पूर्णम् ।

– Chant Stotra in Other Languages –

Goddess Durga Slokam » Kamakshya Ashtakam Lyrics in English » Bengali » Gujarati » Kannada » Malayalam » Odia » Telugu » Tamil